श्रीवेङ्कटाचलमाहात्म्यम् ।
श्रीभविष्योत्तरपुराणान्तर्गत-श्रीवेङ्कटाचलमाहात्म्यम् ।
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
प्रथमोऽध्यायः ।
जनकनृपानुभूतशोकातिरेकप्रकारः ।
शौनक उवाच ।
सूत ! सूत ! महाभाग ! सर्वशास्त्रविशारद ।
त्वत्तोऽहं श्रोतुमिच्छामि माहात्म्यं पुण्यवर्धनम् ॥१॥
कथितं रङ्गमाहात्म्यं त्वया हस्तिगिरीशितुः ।
जगन्नाथस्य वै विष्णोर्माहात्म्यमतुलं मुने ! ॥२॥
इदानीं श्रोतुमिच्छामि माहात्म्यं वेङ्कटेशितुः ।
श्रीसूत उवाच ।
साधु पृष्टं त्वया ब्रह्मंश्चरितं वेङ्कटेशितुः ॥३॥
यथा श्रुतं मया पूर्वं व्यासादमिततेजसः ।
तत् तथाऽहं समाचक्षे सावधानमनाः शृणु ॥४॥
पुरा तु जनको नाम राजा परमधार्मिकः ।
सत्यवाक् सर्वशास्त्रेषु कोविदः कोपवर्जितः ॥५॥
वासुदेवप्रसादस्य मुख्यपात्रमभून्नृपः ।
निर्ममो नित्यतृप्तश्च निरहङ्कृतिरात्मधृक् ॥६॥
तस्य भ्राताऽभवत् पूर्वं कुशकेतुरिति स्मृतः ।
कुशध्वजस्य तनयास्त्रयस्त्रैलोक्यसुन्दराः ॥७॥
दुहितॄणां त्रयं तस्य कुशकेतोर्महात्मनः ।
जनकस्याभवत् पुत्री जानकी नाम सा रमा ॥८॥
भ्रात्रा च कारयामास राज्यं जनकभूपतिः ।
स भ्रातुराज्ञया राज्यं चकारार्येषु भक्तिमान् ॥९॥
कदाचिज्जनको राजा मनसीत्थमचिन्तयत् ।
सुखमेव सदा मे स्याद् दुःखं मा भूत् कदाचन ॥१०॥
दुःखं न वीक्षे नेत्राभ्यां सुखं वीक्षे सदाऽऽत्मनः ।
असाधुसम्मतं वाक्यं श्रुत्वेत्थमुदितं हरिः ॥११॥
दुःखं प्रदर्शयामास राज्यमत्तस्य भूपतेः ।
कदाचिद् दैवयोगेन कुशकेतुरगान्मृतिम् ॥१२॥
हतेऽनुजे च तद्भार्या तेन साकं ममार च ।
राज्यं पुत्रांस्ततस्त्यक्त्वा त्वगात् पतिसलोकताम् ॥१३॥
तौ दम्पती नृपो दृष्ट्वा त्यक्तपुत्रौ सुखोचितौ ।
विललाप महाराजो भ्रातरं भ्रातृवत्सलः ॥१४॥
हा भद्रे ! बालकांस्त्यक्त्वा वृद्धं मां जानकीं तथा ।
क्व गच्छसि वरारोहे पतिमालिङ्ग्य मङ्गले ! ॥१५॥
अशीतिवर्षसाहस्रं सम्प्राप्तं मम भामिनि ! ।
एतावत्कालपर्यन्तं न दृष्टो दुःखसञ्चयः ॥१६॥
अद्य दृष्टो वरारोहे त्वद्वियोगेन केवलम् ।
इति सञ्चिन्त्य मनसि वारं वारं महीपतिः ॥१७॥
चकार प्रेतकार्याणि पुत्राणां चैव शैशवात् ।
मातृहीनांस्ततो बालानालिङ्ग्याङ्के निधाय च ॥१८॥
भोः पुत्राः ! बालभावे तु मातृहीनाश्च कर्शिताः ।
कथं पश्यामि नेत्राभ्यां मातृहीनांश्च बालकान् ॥१९॥
इति चिन्तापरः सोऽभूत् त्यक्तराज्योऽतिदुःखितः ।
त्यक्तान्नस्त्यक्तभोगश्च त्यक्तनिद्रोऽतिकर्शितः ॥२०॥
तस्य दुःखोपशान्त्यर्थं शतानन्दः पुरोहितः ।
सम्प्राप्तो दैवयोगेन वामदेवानुजो मुनिः ॥२१॥
प्राप्तं पुरोहितं दृष्ट्वा राजा पूजामकल्पयत् ।
स पूजितो मुनिवरो निविष्टो मृगचर्मणि ॥२२॥
ततः कालोचितां वार्तां कथयामास गौतमिम् ।
शतानन्दं प्रति जनककृतस्वशोकनिवृत्त्युपायप्रार्थना ।
जनक उवाच ।
शतानन्द ! महाप्राज्ञ ! का गतिः स्यादितो मम ।
वृद्धत्वादात्मनश्चैव पुत्राणां चैव शैशवात् ॥२३॥
कन्यकारत्नबाहुल्याद्धतबन्धोर्महामुने ।
बहवः शत्रवः सन्ति रावणेन्द्रजितादयः ॥२४॥
तेभ्यो युद्धं कथं दास्येऽह्यसहायोऽतिजीर्णवान् ।
दिवा नक्तं समायाति रावणः केन हेतुना ॥२५॥
न जाने मुनिवर्याहं प्रज्ञाचक्षुर्न विद्यते ।
निमित्तमेकं कथितं द्वितीयं प्रवदामि ते ॥२६॥
सीतायाश्च सुरूपायाः सुरूपः पुरुषः कथम् ।
लभ्यते? वद विप्रेन्द्र ! तृतीयं प्रवदामि ते ॥२७॥
दीर्घायुषश्च मे पुत्राः पुत्र्यश्चापि सभर्तृकाः ।
एकदेशाधिपस्यैव स्नुषास्ताश्च भवन्तु मे ॥२८॥
जामातरश्च चत्वार एकराजसुतास्तथा ।
वर्धितं चैव मे राज्यं स्वयमेव पुरोहित ! ॥२९॥
केनोपायेन वै भूयात् तदेत्कारणं वद ॥
जनकाय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः ।
शतानन्द उवाच ।
अस्ति कश्चिद् विशेषोऽस्मिन् भूलोके भूमिपालक ॥३०॥
दुहितुस्तव कल्याणसुखदं शत्रुनाशनम् ।
वैकुण्ठगिरिमाहात्म्यं सभविष्यं सहोत्तरम् ॥३१॥
कलौ तत्कीर्तनं पुण्यं सर्वदुःखहरं शिवम् ।
धनकामस्य धनदं पुत्रकामस्य पुत्रदम् ॥३२॥
रोगार्तस्य च रोगघ्नं ज्ञानिनां ज्ञानसाधनम् ।
यच्छ्रुत्वा सर्वलोकेशो ब्रह्मा ब्रह्मपदं गतः ॥३३॥
नीलकण्ठस्तु यच्छ्रुत्वा निर्विषः सुखमाप्तवान् ।
वज्री नाकपदं प्राप्तो यत्कथाश्रवणादरात् ॥३४॥
पदान्यापुर्लोकपाला यत्कथाश्रवणेन वै ।
किमुक्तेन विशेषेण तदनन्तफलं शृणु ॥३५॥
इत्युक्तो मुनिना तेन जनको वाक्यमब्रवीत् ।
जनक उवाच ।
वद वैकुण्ठमाहात्म्यं कलौ तच्चरितं कथम् ॥३६॥
शतानन्द उवाच ।
कृते वृषाद्रिं वक्ष्यन्ति त्रेतायामञ्जनाचलम् ।
द्वापरे शेषशैलेति कलौ श्रीवेङ्कटाचलम् ॥३७॥
नामानि युगभेदेन शैलस्यास्य भवन्ति हि ।
जनक उवाच ।
चतुर्युगे त्वया प्रोक्तं नाम यद् यद् गिरेर्मुने ॥३८॥
तस्य तस्य च वै हेतुं विस्ताराद् वद मे गुरो ! ॥
कृते वृषाचल इति कथं नाम भविष्यति ! ॥३९॥
वृषाचलनामनिष्पत्तिः ।
शतानन्द उवाच ।
पुरा तु वृषभो नाम राक्षसो रूक्षकर्मकृत् ।
आक्रम्य शेषशैलं च तापसानप्यबाधत ॥४०॥
तेन सङ्क्लिष्टतपसस्तदर्थं शरणं गताः ।
श्रीनिवासं हृषीकेशं भक्तानाभायङ्करम् ॥४१॥
तुष्टुवुर्हृष्टमनसः स्रष्टारं सर्वचेतसाम् ।
प्रादुर्बभूव भगवान् मुनीनां पुरतो हरिः ॥४२॥
व्यज्ञापयन् मुनिश्रेष्ठाः असकृत्कृतसंस्तवाः ।
मुनय ऊचुः ।
भगवन्नरविदाक्ष ! वृषभो नाम राक्षसः ॥४३॥
सम्बाधते सदा क्रूरस्तपोभङ्गकरः खलः ।
तस्माद् रक्ष क्षरातीत भयाद् राक्षसकल्पितात् ॥४४॥
बाढमित्युक्तवान् कृष्णो दुष्टमभ्यद्रवद् रुषा ।
स राक्षसो महावीर्यस्तीर्थे तुम्बुरुसञ्ज्ञके ॥४५॥
स्नात्वा त्रिषवणं पुण्यां शालग्रामशिलां नृप ।
नारसिंहात्मिकां दिव्यां सकरालामधोमुखाम् ॥४६॥
'नित्यमाराधयेयाह'मिति निश्चित्य पूजयन् ।
पूजान्ते स्वशिरःपुष्पं खड्गेनाहृत्य भूपते ! ॥४७॥
समर्पयामास ततस्तच्छिरः पुनरागतम् ।
एवं पञ्चसहस्राणि वर्षाणि विगतानि च ॥४८॥
तस्मिन्कालेऽरविन्दाक्षः प्रत्यक्षः समजायत ।
शिलान्तर्यामी भगवान् श्रीनिवासः सतां गतिः ॥४९॥
तमालोक्य हृषीकेशं वृषभो दण्डवद् भुवि ।
पपात राजशार्दूल ! स विसञ्ज्ञामुपेयिवान् ॥५०॥
मुहूर्तान्ते समुत्थाय प्रत्यभाषत केशवम् ।
वृषभ उवाच ।
केशवानन्त ! गोविन्द ! श्रीनिवास ! सुरोत्तम ! ॥५१॥
न च मोक्षं न च स्वर्गं पारमेष्ट्यपदं हरे ।
न याचे जगतां नाथ ! युद्धभिक्षां च देहि मे ॥५२॥
दशावतारविभवे श्रुतस्ते विक्रमो हरे ! ।
अद्य त्वं सत्यमाधत्स्व विक्रमं पुरुषोत्तम ! ॥५३॥
देवस्तद्भारतीं श्रुत्वा किञ्चिद्धास्यमुखो हरिः ।
उवाच वचनं तं हि राक्षसं युद्धदुर्मदम् ॥५४॥
श्रुत्वा तदुक्तवान् कृष्णस्तथास्त्वित्यरिमर्दनः ।
तयोर्युद्धमभूत् तत्र वृषभश्रीनिवासयोः ॥५५॥
यत् कृतं श्रीनिवासेन तत् कृतं वृषभेण च ।
तदद्भुतमभूत् तत्र देवानां पश्यतामपि ॥५६॥
तद्युद्धकौशलं दृष्ट्वा भगवान् पर्यपूजयत् ।
'भो राक्षसकुलोत्पन्न ! पश्य मे पौरुषं बलम्' ॥५७॥
इत्युक्त्वा दर्शायामास गरुडं विकृताकृतिम् ।
तत्रस्थं वासुदेवं च विश्वरूपिणमव्ययम् ॥५८॥
सहस्रभुजसंयुक्तं सहस्रायुधभूषितम् ।
तन्मायां राक्षसो दृष्ट्वा स्वयं च गरुडं हरिम् ॥५९॥
दर्शयन् व्यञ्जयामास स्वमायां सुरमोहिनीम् ।
नक्तञ्चरस्य चरितमतिक्रान्तुं क्षमोऽप्ययम् ॥६०॥
प्रशंसन् राक्षसं वीरं 'साधु साध्वि'त्यभाषत ।
''रे रे राक्षसवर्याद्य चक्रेण शतनेमिना ॥६१॥
हरिष्ये ते शिरः कायाद् यथा पक्वफलं द्रुमात्' ।
इत्युक्तो देवराजेन वृषभो दण्डवद् भुवि ॥६२॥
प्रणिपत्याह विश्वेशमस्तुवद् राक्षसेश्वरः ।
वृषभ उवाच ।
'चक्रपाणे ! नमस्तुभ्यं चक्रस्य चरितं श्रुतम् ॥६३॥
यच्चक्रेण प्रतप्तस्तु मुक्तिमेति न संशयः ।
यच्चक्रेण पुरा राजा कीर्तिमान् कीर्तिमाप्तवान् ॥६४॥
त्वच्चक्रेण हतो राजन् गच्छामि तव मन्दिरम्' ।
एवमुक्त्वा हरेः पादौ पस्पर्श वृषभासुरः ॥६५॥
वरं ययाचे वृषभः 'शैलो मदभिधोऽस्त्वि'ति ।
समालिङ्ग्य 'भवेदेव'मित्युक्त्वा हरिणाऽथ सः ॥६६॥
विसृष्टचक्रसञ्छिन्नस्त्यक्तवान् स कलेवरम् ।
तस्माद् वृषभशैलोऽयं कृते ख्यातिमुपेयिवान् ॥६७॥
जनक उवाच ।
'कथमञ्जनशैलेति त्रेतायां नाम मे वद' ।
त्रेतायुगेऽञ्जनाचलनामनिष्पत्तिः ।
शतानन्द उवाच ।
पुरा केसरिणः पत्नी ह्यञ्जना कञ्जलोचना ॥६८॥
अनपत्यत्वदुःखेन मतङ्गमुनिमागमत् ।
आनम्य मुनिशार्दूलमनपत्याऽतिकर्शिता ॥६९॥
उवाच वचनं नेत्रनीरसिक्तकलेवरा ।
अञ्जनोवाच ।
'अहो तापसशार्दूलापुत्राया मम का गतिः? ॥७०॥
एव मुक्तोऽञ्जनादेव्या मतङ्गो वाक्यमब्रवीत् ।
मतङ्ग उवाच ।
पम्पायाः पूर्वदिग्भागे पञ्चाशद्योजनान्तरे ॥७१॥
नरसिंहाश्रमं देवि ! वर्तते वसुधातले ।
तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे ॥७२॥
उत्तरे स्वामितीर्थस्य वर्तते क्रोशमात्रके ।
वियद्गङ्गेति विख्याता तत्र गच्छ यथासुखम् ॥७३॥
तत्र स्नात्वाऽथ कल्याणि ! द्वादशाब्दं तपश्चर ।
तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः ॥७४॥
मतङ्गेनैवमुक्ता सा नारायणगिरिं ययौ ।
कृत्वा स्वामिसरःस्नानमश्वत्थस्य प्रदक्षिणम् ॥७५॥
वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ।
आकाशगङ्गामासाद्य तपः कर्तुं प्रचक्रमे ॥७६॥
मुनींश्चामन्त्र्य भर्तारं व्रतार्थं भक्ष्यवर्जिता ।
उपवासरता बाला बाह्यभोगविवर्जिता ॥७७॥
काष्ठवत्पर्यवस्थाप्य शरीरं स्वात्मनः शुचिः ।
पूर्णे संवत्सरे जाते वायुदेवो महाबलः ॥७८॥
फलमाहृत्य भक्ष्यार्थं प्रत्यहं ह्यददान्मरुत् ।
अथैकस्मिन् दिने वायुः फले वीर्यमपूरयत् ॥७९॥
वीर्यगर्भं फलं तस्याः प्राक्षिपत् करसमुटे ।
फलं सा मन्यमाना हि क्षुधार्ता तदभक्षयत् ॥८०॥
ततो गर्भः समुदभूदञ्जनायाश्च भूमिप ! ।
मुनीनामभवद्धर्षो वायुगर्भसमुद्भवः ॥८१॥
अथ सा दशमासान्ते सुषुवे पुत्रमुत्तमम् ।
हनूमन्तमिमं प्राहुर्मुनयो वीतकल्मषाः ॥८२॥
अञ्जना व्रतमास्थाय पुत्रं प्राप गिरीश्वरे ।
तस्मादञ्जनशैलोऽयं लोके विख्याकीर्तिमान् ॥८३॥
द्वापरयुगे शेषाचलनामनिष्पत्तिः ।
जनक उवाच ।
सन्तोषो ह्यभवन्मह्यं श्रुत्वा तन्नामकारणम् ॥
द्वापरे शेषशैलेति कथं ख्यातिर्भविष्यति ॥८४॥
शतानन्द उवाच ।
पुरा वैकुण्ठनगरे द्वारि शेषं समादिशत् ।
जानन् भगवतो भावं सोऽतिष्ठद् भाविकर्मणि ॥८५॥
चिकीर्षिते मारुतेन द्वारि जाग्रत्कुतूहली ।
देवाधिदेवो भगवान् रेमे च रमया सह ॥८६॥
तस्मिन् काले महाराज ! मारुतस्तु कदाचन ।
अकस्मात्कारणात् प्राप्तो भगवन्तं जनार्दनम् ॥८७॥
द्वारे तं रोधयामास रुक्मदण्डेन सर्पराट् ।
'किमर्थं रुध्यते मूर्ख ! कार्यस्य महती त्वरा' ॥८८॥
इत्युक्ते वायुना शेष उवाच वचनं पुनः ।
शेष उवाच ।
'अहमाज्ञाधरो विष्णोर्मा त्वमन्तःपुरं गमः' ॥८९॥
इति तस्य वचः श्रुत्वा जगत्प्राणोऽब्रवीदिदम् ।
वायुरुवाच ।
जयस्तु विजयश्चैव संशप्तौ मुनीभिः पुरा ॥९०॥
अहङ्कारेण तौ जातौ कुम्भकर्णदशाननौ ।
विस्मृतौ किं त्वया मूर्ख ! द्वारपत्ये नियोजितौ ॥९१॥
तद्वाक्यान्ते च राजेन्द्र ! प्रजज्वाल विषोल्बणः ।
गर्हयन् वचनैस्तीक्ष्णैर्जगत्प्राणमहीश्वरः ॥९२॥
शेष उवाच ।
किं गरिष्ठं वचः प्रोक्तं जीवनेच्छा न विद्यते? ।
कालेनानुगतो लोको नैव जानाति मोहितः? ॥९३॥
त्वं तादृङ्नरवद् दण्ड्यो वृथा मोहात् प्रभाषसे ।
बले ज्ञाने विरागे च विष्णुभक्तो न मत्समः ॥९४॥
सदा मेऽन्तःपुरे वासः पुत्रादप्यधिको हरेः ।
लोकानां च हितार्थाय हितार्थं जगदीशितुः ॥९५॥
स्थापितोऽस्मि द्वारपत्ये लक्ष्म्या नारायणेन च ।
वायुरुवाच ।
बिडालोऽन्तःस्थितो वाऽपि बहिष्ठेभसमो न हि ॥९६॥
शयानं रत्नपर्यङ्के राजानमपि सेवते ।
कश्चिद् दूतो नियुक्तस्तु पर्यङ्काधिष्ठितः स्वयम् ॥९७॥
किमाधिक्यं तस्य शेष ! पुत्रे का न्यूनता वद ।
तयोर्विवादो ह्यभवच्छेषवाय्वोर्महात्मनोः ॥९८॥
लक्ष्म्याऽवबोधितः श्रीमानुत्तस्थौ गरुडध्वजः ।
'किमर्थं क्रोशसे शेष ! कः पुमानागतः परः? ॥९९॥
इत्युक्तो देवदेवेन फणिराजोऽभ्यभाषत ।
शेष उवाच ।
मलयाचलवासस्तु वायुरत्यन्तगर्वितः ॥१००॥
अकालेऽन्तःपुरं शीघ्रं प्रवेष्टुं च समुद्यतः ।
अवाच्यवचनं प्रोक्तमनेनात्यन्तमानिना ॥१०१॥
इत्याहूतः फणीन्द्रेण भावज्ञेन तथा हरिः ।
सञ्ज्ञापयन् निजं भावमिङ्गितैर्द्वारमाययौ ॥१०२॥
एतस्मिन्नेव काले तु साष्टाङ्गं प्रणिपत्य तम् ।
वायुस्तुष्टाव पुरुषं पुराणं वेदगोचरम् ॥१०३॥
वायुमालोक्य वचनं वारिजाक्षोऽब्रवीत् स तम् ।
श्रीभगवानुवाच ।
'किमर्थं कलहः पुत्र ! शेषेणात्यन्तमानिना ॥१०४॥
इत्थं हरेर्वागमृतं पीत्वा कर्णपुटद्वयात् ।
तूष्णीं बभूव नृपते ! वायुरत्यन्तभक्तिमान् ॥१०५॥
शेष उवाच ।
अहं समर्थो भगवन् ! बले ज्ञाने तव प्रिये ।
मत्समो नास्ति भूलोके नाके वा ब्रह्मसद्मनि ॥१०६॥
सरीसृपवचः श्रुत्वा प्रहसन् फणिनं हरिः ।
'साधु साध्वि'ति सम्भाव्य चोवाच फणिनां पतिम् ॥१०७॥
श्रीभगवानुवाच ।
न वाङ्मात्रेण पौरुष्यं क्रिया केवलमुत्तरम् ।
बलाबले परीक्ष्यन्तां देवाश्चेन्द्रपुरोगमाः ॥१०८॥
अत्रैवोत्तरदिग्भागे पर्वतं मेरुनन्दनम् ।
स्वकायरज्जुना बद्ध्वा बलं ते यावदस्ति हि ॥१०९॥
तावतैव बलेन त्वं संयुक्तः सुस्थिरात्मना ।
तिष्ठ भद्र ! महाभाग ! विषफूत्कारगुम्भितः' ॥११०॥
हृषीकेशवचः श्रुत्वा हृष्टपुष्टाङ्गविग्रहः ।
स्वकायरज्जुना बध्नन्नानन्दाद्रिमहीश्वरः ॥१११॥
स्थिरो बभूव चामन्त्र्य वायुं वेगवतां वरम् ।
तमालोक्याग्निदयितः पर्वतं तमुपागतः ॥११२॥
आज्ञया वासुदेवस्य देवानां पश्यतां सताम् ।
स्वस्मिन् भगवतः प्रीतिं मत्वाऽतिशयितां मरुत् ॥११३॥
मदोद्धतो महावेगं चक्रे पर्वतचालने ।
न चकम्पे गिरिः किञ्चिदपि शेषेण वेष्टितः ॥११४॥
ततोऽपि सुमहावेगं चक्रे वायुः प्रकोपनः ।
संस्पर्धमानयोरित्थं शेषवाय्वोर्महात्मनोः ॥११५॥
हाहाकारो जगत्यासीदधरोत्तरिते तदा ।
ततो ब्रह्मादिभिर्देवैर्याचितोऽपि यदा मरुत् ॥११६॥
प्रपेदे न शमं किञ्चित् तदाऽसौ फणिनां पतिः ।
जानन् भगवतश्चापि भावं देवांश्च तोषयन् ॥११७॥
क्वचित्फणान्तरं किञ्चित् श्लथयामास वै विभः ।
ततः प्रकुर्वतो वेगं मारुतस्य महात्मनः ॥११८॥
कनिष्ठाङ्गुलिमात्रे तु प्रदेशे श्लथबन्धने ।
महावेगस्य सम्पर्कात् पर्वतो भोगिसंयुतः ॥११९॥
योजनान्यतिलक्षाणि दक्षिणाभिमुखो ययौ ।
मेरुस्तुष्टाव नृपतेर्बलदेवं महाबलम् ॥१२०॥
'त्रायतां त्रायतां स्वामिन् पुत्रं बालं भवान् मम' ।
एवमुक्तो मेरुणाऽयं तत्पुत्रं पर्यपालत ॥१२१॥
स्वर्णमुख्या महानद्याः प्रतीरे च तथोत्तरे ।
स्थापयामास राजेन्द्र ! गिरिराजं सपन्नगम् ॥१२२॥
ततो वायुं सुरगणा बोधयामासुरादरात् ।
अयं शेषांशजो वायो ! शैलः शैलात्मजेश्वरः ॥१२३॥
हरेः सञ्चोदनेनैव जातः स्वाऽवासहेतवे ।
व्याजेनैव त्वया नीतस्तेन स्वर्णमुखीतटम् ॥१२४॥
त्वत्संवादच्छलेनैषः स्वस्थानात् खानितोऽहिना ।
मायावी भगवानित्थं केवलं त्वां व्यपोहयत् ॥१२५॥
तदद्य फणिराजं त्वमन्तरङ्गं हरेमिमम् ।
प्रसादयापराद्धोऽसि वृथा तस्मिन् महात्मनि ॥१२६॥
इति सम्बोधितो देवैर्हितकाङ्क्षिभिरादरात् ।
शेषं गतमदः पश्चात् तुष्टाव मरुतां पतिः ॥१२७॥
क्षमस्व मम दौरात्म्यमज्ञानेनागतं विभो ।
त्वयीह भगवान् साक्षादागमिष्यति वै हरिः ॥१२८॥
मयाऽपचारितं मौर्ख्यान्महाभागे वृथा त्वया ।
इत्थं प्रसादयामास फणिराजं तदा मरुत् ॥१२९॥
निर्वैरत्वात् प्रसादं स चकार मरुति स्वयम् ।
इत्थं शेषांशजं शैलं शेषेण परिवेष्टितम् ॥१३०॥
स्वावासहेतोर्हरिणा वाहितं वायुना छलात् ।
राजञ्छेषनिमित्तेन शेषाचलमिमं विदुः ॥१३१॥
कलियुगे वेङ्कटाचलनामनिष्पत्तिप्रकारः ।
जनक उवाच ।
'कलौ वेङ्कटशैलेति कथं नाम महामुने' ।
शतानन्द उवाच ।
'पुरा पुरन्दरो नाम सोमयाजी दृढव्रतः ॥१३२॥
कालहस्त्याख्यनगरे सत्यवाग् ब्राह्मणोऽभवत् ।
अपुत्रस्यापि विप्रस्य नाभूद् दुःखं सुताप्तये ॥१३३॥
दैवेन पूर्वपुण्येन वृद्धस्यास्य सुतोऽभवत् ।
चकार नाम्ना स सुतं माधवं विप्रसंसदि ॥१३४॥
पित्रोपनीतो बालस्तु ववृधे चन्द्रवन्नृप ! ।
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः ॥१३५॥
ततः कालान्तरे पुत्रं सदारं तं चकार ह ।
स चन्द्रलेखया रेमे बहुकालं च माधवः ॥१३६॥
पञ्चयज्ञपरो नित्यं पञ्चाननसमद्युतिः ।
त्रिःसप्तवर्षो रेजे स द्वितीय इव भास्करः ॥१३७॥
सा कन्या पाण्ड्यदेशीया पाण्ड्यानां च तथा प्रिया ।
पत्यौ सुप्ते स्वयं शिश्ये पत्यौ भुक्ते त्वभुङ्क्त च ॥१३८॥
कदाचिद् विप्रपुत्रस्तु दिवा सङ्गमतत्परः ।
राजपुत्रीं समासाद्य राजन् कामातुरोऽब्रवीत् ॥१३९॥
ममेच्छा वर्तते भद्रे सङ्गमे तव भामिनि ।
पतिवाक्यमुपाकर्ण्य पतिं प्राह प्रजापते ॥१४०॥
चन्द्रलेखोवाच ।
'शरीरमस्थिमांसाद्यैः पूरितं पुरुषर्षभ ।
शरीरेण शरीरस्य सङ्गमः साध्वसम्मतः ॥१४१॥
तत्रापि दिवसक्रीडामयुक्तां मुनयो विदुः ।
निकेतने पिता माता चाग्निहोत्रश्च देवराट् ॥१४२॥
प्रभाकरप्रभां पश्य त्यज कामं द्विजात्मज' ।
वधूवचनमाकर्ण्य माधवो वाक्यमब्रवीत् ॥१४३॥
माधव उवाच ।
'भव भामिनि ! सौख्ये मे पूरयाद्य मनोरथम् ।
तव स्यात् पुत्रसौभाग्यं परं पतिसलोकता ॥१४४॥
भर्तुर्वचनमाकर्ण्य भर्तारं वाक्यमब्रवीत् ।
चन्द्रलेखोवाच ।
गच्छामि जलहेतोस्तु गच्छ त्वं पुरतो मम ॥१४५॥
तदा जगाम राजेन्द्र ! कुशार्थं स स्वभावतः ।
सा जगामाऽथ पानीयपात्रमादाय भामिनी ॥१४६॥
तामन्वगान्माधवोऽपि वटकूटमभिद्रुतः ।
तत्रान्तरे विप्रपुत्रो ददर्शान्यां स्त्रियं पुनः ॥१४७॥
वनान्तरे वसन्ते च वसन्तीं द्रुममूलगाम् ।
धवलाम्बरसम्बद्धां कटिमेखलयाऽन्विताम् ॥१४८॥
सुनासां सुभगां सुभ्रूं नीलालकविराजिताम् ।
मुमोह विप्रस्तां दृष्ट्वा सुवर्णां सुपयोधराम् ॥१४९॥
स्निग्धकञ्चुकसम्बद्धां कोकिलस्वररञ्जिताम् ।
अञ्जनालिप्तनयनामन्त्यजां नाम कुन्तलाम् ॥१५०॥
पादेन विलिखन्तीं गां जानुस्थितशिरोरुहाम् ।
दृष्ट्वा खिन्नमना भूत्वा चिन्तयन् ब्रह्मनिर्मितम् ॥१५१॥
स भार्यां प्रत्युवाचेदं 'गच्छ प्राणप्रिये ! गृहम् ।
इच्छा मे पूर्णतां प्राप्ता त्वद्भक्त्या परितुष्यतः ॥१५२॥
चन्द्रलेखोवाच ।
युक्तमुक्तं त्वया भद्र ! गच्छामि भवनं स्वकम्' ।
भर्तुराज्ञामुपानीय चन्द्रलेखा गृहं गता ॥१५३॥
यावद् गच्छति सा भार्या तावत् तत्र स्थितोऽभवत् ।
गतायां स्वप्रियायां तु तां बालां परिचिन्तयन् ॥१५४॥
शनैर्जगाम राजेन्द्र ! स्मरेण हृतचेतनः ।
समीपस्थं मुनिं प्रेक्ष्य सा राजन् पृथुलोचना ॥१५५॥
स्वरभेदं प्रकुर्वन्ती वाक्यमूचेऽथ माधवम् ।
कुन्तलोवाच ।
मा याहि मुनिशार्दूल ! मत्समीपं महामते ! ॥१५६॥
स च तद्वचनं श्रुत्वा सहसा वाक्यमब्रवीत् ।
माधव उवाच ।
का त्वं कल्याणि ! भद्रं ते जननी जनिता च कः? ॥१५७॥
आवासस्तव भद्रं ते कस्मिन् राष्ट्रे वरानने ।
सा चेत्थमुक्ता मुनिना जातिमाह मनस्विनी ॥१५८॥
कुन्तलोवाच ।
किं मां पृच्छसि पापिष्ठां व्यभिचारकुलोद्भवाम् ।
अन्त्यजान्त्यजयोर्जातां सुरामांसाशिनीं खलाम् ॥१५९॥
मध्यदेशे निवासो मे किं त्वं पृच्छसि भूसुर ।
वेदवेदान्तवेदिंस्त्वं न मां द्रष्टुमिहार्हसि ॥१६०॥
मां स्प्रष्टुं क्रीडितुं वाऽपि कथमिच्छसि मूढधीः' ।
एवमादि प्रजल्पन्तीं माधवस्तामथाब्रवीत् ॥१६१॥
माधव उवाच ।
'वृथा नारायणाज्जातो ब्रह्मा लोकपितामहः ।
अन्धमेनं महाराजं मन्यते मे मतिः सदा ॥१६२॥
वृथा यज्जनयामास वनितां वनहेतवे ।
तथापि मम बुद्धिस्तु त्वय्येव रमते सदा ॥१६३॥
यतस्त्वय्येव निरतं मनो मे कृतवानजः ।
अतो मनो मे सम्पूर्य जीवयाद्य शुचिस्मिते ! ॥१६४॥
कुन्तलोवाच ।
कुलाटनं प्रकुर्वाणाः कुलमाशतमाकुलम् ।
दहन्तीति वदन्ति स्म कुलजा वरमानिनः ॥१६५॥
माधव उवाच ।
लवणोदकजातानि रत्नानि विविधानि च ।
अङ्गीकुर्वन्ति देवाश्च तेजःप्राधान्यकारणात् ॥१६६॥
तस्मादहं सुरूपत्वात् त्वयि भोगं करोमि च ।
नरकं वा मृतो यास्ये पितृभिः सह सुस्मिते ॥१६७॥
इत्येवमुक्ता द्विजबालकेन रुरोद कन्या तरुणारुणप्रभा ।
कुन्तलोवाच ।
दिवौकसो विप्रवरो विमोच्यो दोषादमुष्मादसतीप्रसङ्गात् ॥१६८॥
दिग्देवता याश्च गणाधिपा ये भान्विन्दुपूर्वाश्च नवग्रहा ये ।
शृण्वन्तु वाक्यं मम ते वृथाऽयं विप्रो मृतिं यास्यति पापसङ्गात् ॥१६९॥
विललाप महाराज ब्राह्मणार्थं सुमध्यमा ।
मा स्पृशाद्य महीदेव ! पापिनीं व्यभिचारिणीम् ॥१७०॥
कः स्पृशेदग्निमार्तः सन् सर्पं व्याघ्रं गजं द्विज ! ।
परपत्न्यो हि तत्तुल्याः किमु चण्डालकन्यका ॥१७१॥
उत्तमं पदमास्थाय नीचा इच्छन्त्यधोगतिम् ।
ज्ञानिनो न तथा विप्रास्तव बुद्धिस्तु तादृशी ॥१७२॥
जाती द्वे निर्मिते पूर्वं विष्णुना द्विजसत्तम ।
स्त्रीत्वं पुंस्त्वं यथा तद्वच्चातुर्वर्ण्यं च भूसुर ॥१७३॥
ब्राह्मणस्य ब्रह्मयोन्यां रन्तुमिच्छा प्रशस्यते ।
तथान्येषां च वर्णानां स्वस्वजातौ प्रशस्यते ॥१७४॥
विपरीतमिमं मन्ये धर्मत्यागं द्विजन्मनाम् ।
शरीरं तव विप्रेन्द्र ! वेदपूतं विशेषतः ॥१७५॥
ऋतुकाले च यन्मातुस्तव पित्रा समागमे ।
रेतः सृष्टं वेदपूतं गर्भाधानमिदं विदुः ॥१७६॥
सीमन्तं कल्पयामासुर्मन्त्रैर्वेदमयैर्द्विज ।
दशमे मासि सम्प्राप्ते प्रासूत जननी तव ॥१७७॥
तदा पित्रा जातकर्मं कृतं नाम च मन्त्रवत् ।
अन्नप्राशनचौलादि ब्रह्मवाचनपूर्वकम् ॥१७८॥
अग्निसाक्षिविधानेन प्राप्तदारः कृतो भवान् ।
अधीतवेदशास्त्रः सन्नाहिताग्निव्रते स्थितः ॥१७९॥
एतादृशस्य देहस्य मया सङ्गः कथं भवेत् ।
कर्णौ हरिकथाः श्रुत्वा पावितौ नासिका तव ॥१८०॥
हर्यर्पितसुगन्धेन पाविता जठरं तव ।
वासुदेवार्पितान्नेन पवित्रं पुरुषर्षभ ! ॥१८१॥
कृष्णार्चनप्रसङ्गेन करौ पावनतां गतौ ।
हरिनामकलापेन जिह्वा ते पावनात्मिका ॥१८२॥
पुण्यक्षेत्रानुचारेण पादौ ते पावनीकृतौ ।
एतादृशेन देहेन कथं सङ्गं प्रशंससि? ॥१८३॥
ममापि शृणु माहात्म्यं देहस्यामितदोषिणः ।
अवाच्यवचनैः क्रूरैर्जिह्वा मे दह्यते सदा ॥१८४॥
सुरामांसाशनेनैव जठरे गुल्ममागतम् ।
व्यभिचारकथालापात् कर्णौ मे शिथिलीकृतौ ॥१८५॥
पादौ जारगृहं गत्वा पाषाणसदृशौ मम ।
गोवधान्मे करौ क्रूरौ यमदण्डसमप्रभौ ॥१८६॥
एतादृशस्य देहस्य त्वया सङ्गः कथं भवेत्? ।
उत्तमो नीचतां प्राप्य कथं स्वर्गं गमिष्यति? ॥१८७॥
परस्त्रीसङ्गदोषेण बहवो नरकान् गताः ।
तस्मादुत्तिष्ठ भद्रं ते तव दासी भवामि भोः ।
वनितावचनं श्रुत्वा वाक्यमूचे द्विजात्मजः ॥१८८॥
त्वदीयसङ्गो बहुकालपुण्यप्रभावजो मुक्तिकरः शुभावहः ।
दैवेन योगेन हरेः प्रसादात् पुण्येन लब्धः पुरुषार्थहेतुः ॥१८९॥
तस्माद् भजस्वानुगतोऽस्मि भामिनि त्यजाद्य लज्जां कुरु मे मनोगतम् ॥१९०॥
गच्छन्त्यद्य मम प्राणास्त्वद्वियोगेन केवलम् ।
तस्माज्जीवय भद्रं ते मरणाभिमुखं च माम्' ॥१९१॥
एवमुक्ता द्विजेन्द्रेण पृथुश्रोणी समुत्थिता ।
पलायनायाऽऽशु मतिं चक्रे चण्डालकन्यका ॥१९२॥
धावमानामनुद्रुत्य माधवस्तामुपास्पृशत् ।
रौरवं जनकस्यापि जनन्याः कुलयोर्ध्रुवम् ॥१९३॥
स्यादिति क्रोशमानां तां माधवो मन्मथाहतः ।
बलात्कारेण सङ्गृह्य बुभुजे भोगमुत्तमम् ॥१९४॥
भोगात्यये द्विजं बाला वाक्यमूचे मनस्विनी ।
कुन्तलोवाच ।
अद्यप्रभृति भो विप्र ! पतिस्त्वं मम भूसुर ! ॥१९५॥
त्यज यज्ञोपवीतं त्वं मुण्डयित्वा शिरस्तथा ।
अब्राह्मण्यपुपागम्य भुङ्क्ष्व गोमांसमुत्तमम् ॥१९६॥
पिब मद्योदकं शीघ्रं चण्डालत्वमुपाश्रितः ।
तद्वाक्यमाकर्ण्य तदा तयोक्तं सर्वमाचरन् ॥१९७॥
चण्डालाचरिताचारं जगाम विधिचोदितः ।
विप्रस्तया समेतस्तु कृष्णवेणीनदीतटम् ॥१९८॥
द्वादशाब्दं वसन् विप्रस्तत्सङ्गपरिमोहितः ।
अनित्यत्वाच्छरीराणां कालपाशेन यन्त्रिता ॥१९९॥
जगाम मरणं राजन् कुन्तला नीलकुन्तला ।
तया विरहितो श्रीमान् माधवो दुःखकातरः ॥२००॥
अचरद् भुवनं सर्वमुन्मादेनोद्भ्रमन्निव ।
अकस्माद्दैवयोगेन राजानश्चौत्तरास्तदा ॥२०१॥
यात्रार्थं समुपाजग्मुर्वराहस्य च पर्वतम् ।
मार्गमध्ये ददर्शासौ माधवस्तान् महीपतीन् ॥२०२॥
गच्छन्नेव च तैः सार्धं तदुच्छिष्टान्नभोजनः ।
प्राप सर्पगिरिं राजन् दैवयोगेन कर्मणा ॥२०३॥
ते राजानस्तत्र गत्वा तीर्थे कपिलसञ्ज्ञिके ।
स्नात्वा भक्तिभरोपेता वपनं चक्रुरादरात् ॥२०४॥
माधवः स्वयमप्येत्य वापयामास वै शिरः ।
पार्वणानि प्रकुर्वन्तस्तत्र राजन् क्षितीश्वराः ॥२०५॥
पिण्डानि च सुसंहृष्टाः श्राद्धीयानि ददुस्तदा ।
माधवोऽपि शुभे तीर्थे स्नात्वा तद्वच्च पार्वणम् ॥२०६॥
कुर्वन् पिण्डान् मृदा कृत्वा पितृभ्यः श्रद्धया ददौ ।
दैवात् तत्कर्मणैवासौ तदाऽभूद् गतकल्मषः ॥२०७॥
तस्माद् यो मानवो भक्त्या कुर्यात् तीर्थावगाहनम् ।
पितृश्राद्धं पिण्डदानं मुक्तिस्तस्य न संशयः ।
मृत्पिण्डं कृतवान् विप्रः पुण्यक्षेत्रे पुरातने ॥२०८॥
किं वर्णयामः पुरुषोत्तमस्य क्षेत्रस्य तीर्थस्य च पुण्यशक्तिम् ।
मृत्पिण्डदानात् पितरश्च यस्य मुक्तिं प्रपन्ना मुरवैरिशासनात् ॥२०९॥
प्रभाते विमले जाते राजानो राजसत्तम ! ।
समारोहन् गिरिश्रेष्ठं सपुत्राश्च सबान्धवाः ॥२१०॥
तेषामनुपदं राजन् ! प्राप शेषगिरिं च सः ।
विश्राम्यन्तः सर्व एव ते तस्थुस्तत्र तत्र च ॥२११॥
सोऽपि तस्थौ महाराज ! माधवो गिरिमस्तके ।
भूधरस्पर्शमात्रेण तदघं पर्यकम्पत ॥२१२॥
माधवस्याभवत् कष्टं यथा वै मक्षिकाशिनः ।
वमन्तमेनं स्वं पापं समावृण्वन् समन्ततः ॥२१३॥
तदङ्गजातः कोऽप्यग्निरद्रिमाहात्म्यतस्तदा ।
प्रजज्वाल दहन् पापं सुरामांसाशनोद्भवम् ॥२१४॥
तस्य दुर्गन्धधूमेन वासिताः सर्वदेवताः ।
तद्भावं वेदितुं देवा ब्रह्मरुद्रपुरोगमाः ॥२१५॥
विमानानि विचित्राणि भासयन्तः समागताः ।
खमार्गे संस्थिताः सर्वे दृष्ट्वा तच्चरितं नृप ! ॥२१६॥
ववर्षुः पुष्पवर्षाणि माधवस्योत्तमाङ्गके ।
दृष्ट्वा पितामहः श्रीमान् विमानादवरुह्य सः ॥२१७॥
माधवं गतपाप्मानं यथा हरिरजामिलम् ।
कृपयोद्धृतवानेनं कृपालुर्द्विजपुङ्गवम् ॥२१८॥
इति सञ्चिन्तयंस्तस्य निकटं प्राप सादरम् ।
जिघ्रंश्च तच्छिरः श्रीमान् ब्रह्मा वाणीमथाब्रवीत् ॥२१९॥
'भो भो माधव विप्रेन्द्र ! गतपापोऽसि केवलम् ।
स्वामितीर्थस्य निकटे गत्वा स्नात्वा च तज्जले ॥२२०॥
वराहवदनं नत्वा त्यज देहं महीसुर ! ।
महीपालोऽथ भूत्वाऽत्र कुरु राज्यमकण्टकम् ॥२२१॥
पाण्डवानां च दौहित्रकुले जातोऽसि कीर्तिमान् ।
सुधर्मस्य सुतो भूत्वाऽऽकाशनामाथ दक्षिणे ॥२२२॥
नारायणपुरे वीर ! तोण्डदेशाधिपो भव ।
तव पुत्री जगन्माता जामाता च जगत्पतिः ॥२२३॥
भविष्यति महाराज ! पश्चाद् वैकुण्ठमाप्नुहि' ।
इति तस्य वरं दत्त्वा चतुरश्चतुराननः ॥२२४॥
तदा नाम चकाराद्रे'र्वेङ्कटाचल' इत्यपि ।
सर्वपापानि 'वें' प्राहुः कटस्तद्दाह उच्यते ॥२२५॥
तस्माद् वेङ्कटशैलोऽयं लोके विख्यातकीर्तिमान् ।
प्रभातकाले राजेन्द्र ! यः कीर्तयति भूधरम् ॥२२६॥
तस्य पुण्यफलं वक्ष्ये शृणु राजन् ! यथास्थितम् ।
फलं भवेद् ध्रुवं गङ्गासेतुयात्रासहस्रजम् ॥२२७॥
इतिहासमिदं प्रोक्तं गौतमेनोदितं हि मे ।
पुण्यं परमकल्याणं श्रवणाद् भद्रदायकम् ॥२२८॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवत्क्रीडाद्रेर्युगभेदेन वृषभाद्रिनामभेदवर्णनं नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः ।
भगवतः श्रीवैकुण्ठाद् वेङ्कटाचलागमनम् ।
जनक उवाच ।
मरुत् प्राहाहिराजं तं भगवानागमिष्यति ।
इति त्वयोदितं पूर्वं तन्ममाचक्ष्व विस्तरात् ॥१॥
कथं नारायणः प्राप्तः केन वा कारणेन भोः ।
तत्रागत्य कृतं किं तु तन्माचक्ष्व विस्तरात् ॥२॥
कथं वैकुण्ठलोकं तु त्यक्तवान् पुरुषोत्तमः ।
चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥३॥
वराहरूपिणो विष्णोर्माहात्म्यं वद विस्तरात् ।
आकाशनाम्नश्चरितं राज्ञस्तस्य महात्मनः ॥४॥
यस्य पुत्री रमादेवी जामाता च जगत्पतिः ।
देवानां च ऋषीणां च देवस्त्रीणां समागमम् ॥५॥
सात्त्विकदेवतापरीक्षार्थं भृगोः सत्यलोकादिगमनम् ।
शतानन्द उवाच ।
'पुरा तु ऋषयः सर्वे कश्यपाद्या मुनीश्वराः ।
सम्मुखं जाह्नवीतीरे सन्तोषं चक्रिरे द्विजाः ॥६॥
तस्मिन् काले मुनिश्रेष्ठो नारदो मुनिसत्तमः ।
उवाच वचनं विप्रान् किमर्थोऽयं क्रतूत्तमः ॥७॥
को वा भुङ्क्ते यज्ञफलं को वा ध्येयः सुरोत्तमः ।
कृतयज्ञफलं कस्य चार्प्यते मुनिसत्तमाः ॥८॥
इति नारदवाक्यं तु श्रुत्वा ते मुनिपुङ्गवाः ।
संशयार्थं समापन्नाः कथमत्र विचार्यताम् ॥९॥
सम्मिलिता तदा सर्वे भृगुं ब्रह्मविदां वरम् ।
तमूचुर्भक्तिनम्राङ्गाः कृताञ्जलिपुटाः स्थिताः ॥१०॥
'गच्छ शीघ्रं महाबुद्धे ! परीक्षार्थं सुरोत्तमान्' ।
इति तेषां वचः श्रुत्वा ययौ कञ्जजमन्दिरम् ॥११॥
तत्र दृष्ट्वाऽष्टबाहुं तं साक्षाद् ब्रह्माणमग्रजम् ।
चतुर्मुखमुदाराङ्गं सरस्वत्या सुसेवितम् ॥१२॥
चतुरास्यसमुद्भूतवेदघोषविराजितम् ।
दिक्पालकगणैः सार्धं किरीटमुकुटोज्ज्वलम् ॥१३॥
स्तुवन्तं जगदीशानं नारायणमनामयम् ।
प्रणमन् भक्तिभावेन मददीप्तिविराजितम् ॥१४॥
पातयामास कायं स्वं पुरतः कञ्जजन्मनः ।
पतितं स भृगुं दृष्ट्वा नोवाच वचनं विधिः ॥१५॥
तं मत्वा किञ्चिदज्ञानादपूज्यं मुनिपुङ्गवः ।
अलब्ध्वा स्वात्मनः कार्यं कैलासं स ऋषिर्ययौ ॥१६॥
कैलासगिरिमासाद्य तत्राद्राक्षीत् त्रिलोचनम् ।
कामुकं पार्वतीदेव्या क्रीडन्तं निजमन्दिरे ॥१७॥
तस्मिन् काले तमायातं नाजानात् कामुको हरः ।
आगतं सा मुनिं दृष्ट्वा पार्वती लज्जयाऽवदत् ॥१८॥
त्यज शीघ्रं महाबाहो ह्यागतो मुनिपुङ्गवः ।
इति तस्या वचः श्रुत्वा क्रोधात् ताम्रविलोचनः ॥१९॥
तं हन्तुमद्रवच्छ्रीघ्रमृषिः शापान्निराकरोत् ।
शशाप स ऋषिः शम्भुं 'लोके त्वं नैव पूज्यसे ॥२०॥
त्वं शेफःपूजनेनैव लोके ख्यातिं गमिष्यसि' ।
इत्युक्त्वा स ऋषिश्चागाद् वैकुण्ठं हरिमन्दिरम् ॥२१॥
प्राकारगोपुरद्वारनवतोरणभूषितम् ।
चतुर्दिक्षु चतुर्द्वारपालकैरुपशोभितम् ॥२२॥
तत्र शय्यागृहे रम्ये शेषमञ्चकशायिनम् ।
लक्ष्म्या समेतं देवेशं ददर्श स भृगुस्तदा ॥२३॥
तताडोरसि गोविन्दं भृगुः पादतलेन तम् ।
ताड्यमानो हरिः साक्षादुत्थाय विनयान्वितः ॥२४॥
पपात भगवान् भक्त्या ऋषिपादसरोरुहे ।
आलिलिङ्गेऽथ भक्त्यैव चोवाच ऋषिपुङ्गवम् ॥२५॥
भृगुं प्रति श्रीवैकुण्ठनाथोक्तविनीतवचनम् ।
श्रीभगवानुवाच ।
किमर्थं त्वमृषिश्रेष्ठ ! मच्छरीरं कठोरकम् ॥२६॥
अताडयोऽजरायुक्तमभेद्यं देवदानवैः ।
वज्रादष्टगुणां विद्धि मच्छरीरे कठोरताम् ॥२७॥
किमर्थं ताडितं विप्र ! कोमलाङ्घ्रितलेन तत् ।
पादौ ते कोमलौ दिव्यौ मच्छरीरसमागमात् ॥२८॥
कियद् दुःखं समापन्नौ न जानामि द्विजोत्तम ।
इत्युक्त्वा द्विजपादौ तौ प्रक्षाल्योष्णोदकेन वै ॥२९॥
दधार शिरसा भक्त्या विप्रपादोदकं शुभम् ।
जगृहे सकुटुम्बश्च सर्वलोकं विडम्बयन् ॥३०॥
विबुधा दर्शनेनैव पुनन्ति च जगत्त्रयम् ।
इत्युक्तो देवदेवेन ऋषिश्चागाद् धरातलम् ॥३१॥
भगवतो भृगुकृतसात्त्विकदेवतात्वसमर्थनम् ।
ऋषीणामग्रजातानां सभायां स ऋषिस्तदा ॥३२॥
बोधयामास तान् सर्वान् हरिः सर्वोत्तमः स्वयम् ।
हरिः सर्वोत्तमः साक्षाद् रमा देवी तदन्तरा ॥३३॥
तदधौ विधिवाण्यौ च तदधः शर्वपूर्वकाः ।
एवं तरतमाज्ज्ञेयाः सुरदैत्यनरेषु च ॥३४॥
इत्येवं बोधिता विप्रा भृगुणा तत्त्ववेदिना ।
हरिं निश्चित्य सर्वेशं चक्रुस्तस्मै मखार्पणम् ॥३५॥
भृगुपादाहतिकुपितायाः लक्ष्म्याः करवीरपुरगमनम् ।
ततस्तु भगवान् देव एकान्ते निजमन्दिरे ।
सार्धं च रमयाऽतिष्ठत् तदोवाच रमा हरिम् ॥३६॥
श्रीरमोवाच ।
गच्छामि देवदेवेश ! त्यक्त्वा त्वां जगदीश्वर ! ।
ताडितोऽसि जगन्नाथ ऋषीणां त्वं जगन्मयः ॥३७॥
मदालिङ्गस्थले देव पादेनैव जगत्पते ।
करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥३८॥
इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह ।
रमा जगाम तत्क्षेत्रं करवीरपुराह्वयम् ॥३९॥
लक्ष्म्यन्वेषणार्थं श्रीवेङ्कटाचलं प्रति भगवदागमनम् ।
यदा गता महालक्ष्मीस्तदा नारायणो हरिः ।
अष्टाविंशतिमे प्राप्ते द्वापरान्ते कलौ युगे ॥४०॥
यस्मिन्देशे यदा प्रेमकलहोऽस्य प्रशाम्यति ।
कर्मणा येन च यथा तत् तथा च करोमि तत् ॥४१॥
इति सङ्कल्प्य गोविन्दो लीलामानुषविग्रहः ।
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ॥४२॥
गङ्गाया दक्षिणे देशे योजनानां शतत्रये ।
सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥४३॥
शुकस्य वरदा पुण्या ह्यगस्त्यमुनिपूजिता ।
तस्या एवोत्तरे तीरे क्रोशार्धद्वयमात्रके ॥४४॥
श्रीवेङ्कटगिरिर्नाम वर्तते पुण्यकाननः ।
सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः ॥४५॥
साक्षाच्छेषावतारोऽसौ सर्वधातुविराजितः ।
वैकुण्ठसदृशो दिव्यो नारायणसमाश्रयः ॥४६॥
शेषमारुतसंवादादागतः पुण्यकाननः ।
योजनत्रयविस्तीर्णस्त्रिंशद्योजनमायतः ॥४७॥
वदनं वेङ्कटगिरिर्नृसिंहाद्रिश्च मध्यमः ।
श्रीशैलं पुच्छभागस्थः सर्वक्षेत्रमयो गिरिः ॥४८॥
सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ।
कुन्दमन्दारपनसप्लक्षोदुम्बरकिंशुकैः ॥४९॥
पिचुमन्दैः पारिजातैस्तिन्त्रिणीजम्बुमण्डलैः ।
सरलैश्च महावृक्षैः कृष्णागुरुभिरञ्चितः ॥५०॥
तालहिन्तालपुन्नागैर्देवदारुभिराश्रितः ।
हंसकारण्डवाकीर्णो बककोकशुकैर्युतः ॥५१॥
कपोतैः क्षीरहंसाद्यैर्मृगषण्डैश्च भूषितः ।
सिंहशार्दूलशरभक्रोडमातङ्गवानरैः ॥५२॥
जम्बुकैश्चैव भल्लूकैः कस्तूरीमृगमाहिषैः ।
उरगैर्व्यालखड्गैश्च गोमायुभिरपि श्रितः ॥५३॥
मल्लिकामालतीजातिनन्द्यावर्तैर्विराजितः ।
चम्पकाशोकपुन्नागकेतकैः स्वर्णकेतकैः ॥५४॥
एवं मनोहरः श्रीमान् पर्वतः पुण्यकाननः ।
तरवो दैवतगणाः मृगाश्च ऋषिपुङ्गवाः ।
पितरः पक्षिणः सर्वे पाषाणा यक्षकिन्नराः ॥५५॥
एवं प्रभावोऽस्य गिरीन्द्रजन्मनः श्रीवेङ्कटाद्रेस्तु हरेस्तथैव ।
जानन्ति न ब्रह्मशिवेन्द्रपूर्वका अत्यल्पवीर्या मनुजास्तु किं पुनः ॥५६॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवतः श्रीवैकुण्ठाद् वेङ्कटाचलागमनवर्णनं नाम द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः ।
स्वामिपुष्करिणीमाहात्म्यम् ।
शतानन्द उवाच ।
तस्योपरि वरा दिव्या स्वामिपुष्करिणी शुभा ।
मत्स्यकच्छपसम्बाधा जलकुक्कुटभूषिता ॥१॥
शिंशुमारगणाकीर्णा मण्डूकस्वरहुङ्कृता ।
तीरजैर्वृक्षसङ्घैश्च तुङ्गैराचुम्बिताम्बरा ॥२॥
गङ्गादिसर्वतीर्थानां जन्मभूमिर्विराजते ।
तस्यां ये स्नान्ति मनुजास्ते धन्याः पुण्यवर्धनाः ॥३॥
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
काङ्क्षन्ति विबुधश्रेष्ठाः मज्जनं तज्जले शुभे ॥४॥
काङ्क्षन्ति मनुजाः स्नानमिति भोः किं वदामि ते ।
येऽत्र श्राद्धादिकर्माणि पितॄणां कुर्वते द्विजाः ॥५॥
तेषां च पितरस्तुष्टा नृत्यन्ति हरिमन्दिरे ।
जन्मना किमनेनेह व्यर्थेन भवतामहो ॥६॥
स्नानदानेन तत्तीर्थे मनुजा भाग्यशालिनः ।
शङ्खो नाम नृपः कश्चित् स्नानमात्रेण राज्यगः ॥७॥
पुरा नारायणो नाम ब्राह्मणोऽङ्गिरसः सुतः ।
स्वामिपुष्करिणीतीर्थे महिम्ना स्नानजेन हि ॥८॥
वरं लब्ध्वा हरिं दृष्ट्वा जगाम हरिमन्दिरम् ।
रामोऽपि तत्र स्नानेन हृतां सीतामगात् पुरा ॥९॥
एवं तीर्थवरा तत्र स्वामिपुष्करिणी शुभा ।
तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ॥१०॥
धरामालिङ्ग्य वल्मीके आस्ते पिप्पलराजिते ।
त्रिकोटितीर्थराजानां जन्मस्थानं स भूधरः ॥११॥
एनं गिरिवरं प्राप्य भगवान् वेङ्कटाचलम् ।
वैकुण्ठादधिकं मत्वा विचचार ततस्ततः ॥१२॥
न प्राप किञ्चिदास्थानं गूहनार्थं रमापतिः ।
श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थवल्मीकप्रवेशप्रकारः ।
इत्थं विचार्यमाणे तु स्वामिपुष्करिणीतटे ॥१३॥
दक्षिणे विमलं दिव्यं वल्मीकं दृष्टवान् मुदा ।
तिन्त्रिणीवृक्षमूलस्थं भगवाञ्जगदीश्वरः ॥१४॥
मत्वेदं परमं स्थानं तत्र लीनोऽभवद्धरिः ।
एवं देवे स्थिते तत्र विगतं वत्सरायुतम् ॥१५॥
अतीते द्वापरे चैव त्वष्टाविंशतिमे कलौ ।
अतीते वत्सरे कश्चिच्चोलराजो नृपोत्तमः ॥१६॥
अवतारं समापन्नो नागकन्योदरे तथा ।
तस्मिञ्च्छासति भूखण्डं बहुपुण्यफलप्रदम् ॥१७॥
बहुक्षीरप्रदा गावः पुत्रा वै पितृवत्सलाः ।
काले ववर्ष पर्जन्यः सस्या वै बहुधान्यदाः ॥१८॥
नार्यः पतिव्रताः सर्वाः पुरुषाश्च सतीव्रताः ।
इत्थं शासति राज्ञ्यस्मिञ्जना आनन्दतत्पराः ॥१९॥
आकाशनृपगृहे ब्रह्मादीनां धेन्वादिरूपेण स्थितिः ।
तस्मिन् काले विधिः साक्षाद् धेनुरूपं समाश्रितः ॥२०॥
ब्रह्मधेनोः पालिकाऽभूद् गोपाली कमलालया ।
साक्षाद् रुद्रो वत्सरूपी ताभ्यां चेयं समागता ॥२१॥
पश्यन्ती पतिमार्गं तु चोलराजं समभ्यगात् ।
विक्रीय गां महालक्ष्मीर्जगाम निजधाम च ॥२२॥
गृहीत्वा तां महीपालो मुदमाप प्रियान्वितः ।
बहुक्षीरप्रदां तां स पुत्रार्थमकरोत् तदा ॥२३॥
ततो धेनुसहस्रेण साकं श्रीवेङ्कटाचले ।
सा गौर्जगाम नित्यं तु रमानाथं विचिन्वती ॥२४॥
तत्र तत्र समाजिघ्रन् भूधरेन्द्रे वृषाकपिम् ।
विचिनोति स्म सर्वत्र धेनुरूपी विधिस्तदा ॥२५॥
ततः कालेन महता स्वामिपुष्करिणीतटे ।
वल्मीकस्थं हरिं ज्ञात्वा तुतोष मनसा विधिः ॥२६॥
समासिञ्चच्च वल्मीकं समन्तात् क्षीरधारया ।
तदा प्रभृति नित्यं तु राजधेनुगणैः सह ॥२७॥
तत्र गत्वा च भक्त्यैव वल्मीके क्षीरसेचनम् ।
जगन्नाथस्य सम्प्रीत्यै धेनुरूपी पितामहः ॥२८॥
चकारानुदिनं गेहे नैव क्षीरं ददौ तदा ।
चिरमेवं गते काले चोलराजसती स्वयम् ॥२९॥
धेनुपालं समाहूय वचनं चेदमब्रवीत् ।
'गवां पालक ! दुर्बुद्धे ! पयोऽस्याः किं करोषि रे ॥३०॥
किं त्वं भुङ्क्षेऽथवा वत्सो भुङ्क्ते? तद् वद मे द्रुतम् ।
इति तस्या वचः श्रुत्वा गोपालो भयविह्वलः ॥३१॥
उवाच वचनं मन्दं राजभार्यां सगद्गदम् ।
गोक्षीरपायिनं श्रीनिवासं प्रति गोपालकृतताडनम् ।
न जानेऽहं च तत् कर्म न मया पीयते पयः ॥३२॥
स्वयं पिबति वा धेनुर्वत्सो वेति न विद्महे ।
सत्यं वचनमेतद्धि विचारं कुरु भामिनि ॥३३॥
इति गोपवचः श्रुत्वा सा सती विह्वलेक्षणा ।
ताडयामास तं गोपं रज्जुभिश्चर्मनिर्मितैः ॥३४॥
ततः परदिने प्राप्ते ताडितो राजभार्यया ।
कण्ठाङ्घ्रिबद्धरज्जुं तां त्यक्त्वा तत्पृष्ठतो ययौ ॥३५॥
धेनुः प्राप्याथ वल्मीकं दिव्यं तद्धरिमन्दिरम् ।
अभ्यषिञ्चत् पयोभिश्च स्वपयोधरसम्भवैः ॥३६॥
तां दृष्ट्वा धेनुपः कोपात् कुठारं हस्तमात्रकम् ।
उद्धृत्य तरसा तस्या वधोद्योगं समाचरत् ॥३७॥
तदा वल्मीकगः स्वामी वात्सल्यं दर्शयन् हरिः ।
स्वभक्तहननं लोके स्वात्मीयं सहते तु यः ॥३८॥
स एव नरकं भुङ्क्ते यावदाचन्द्रतारकम् ।
मदर्थं च कुठारेण हनिष्यति च गां खलः ॥३९॥
इति मत्वा रमाकान्तः श्रीनिवासो निरामयः ।
तुलसीदलमात्रेण मामकेनैव यः पुमान् ॥४०॥
पूजयेद् भक्तिभावेन तं रक्षामीति मत्पणः ।
इयं तु भक्त्या मां चिन्त्य सिञ्चति क्षीरधारया ॥४१॥
इत्थं विचार्य गोविन्दस्तत्प्रहारं निगृह्य च ।
स्वयं जग्राह तं घातं मौलौ स्वे च जगत्पतिः ॥४२॥
कुठारेणातितीक्ष्णेन ताडिते वेङ्कटेश्वरे ।
शिरःस्फोटं समापन्ने कुठारेण तदोत्थिता ॥४३॥
सप्ततालप्रमाणेन रक्तवृद्धिरभूत् तदा ।
स तं कोलाहलं दृष्ट्वा गोपालो मरणं ययौ ॥४४॥
हते गोपे तदा सा गौरवरुह्य गिरेस्तटात् ।
राजानं समनुप्राप्य वत्सहीनेव दुःखिता ॥४५॥
लुण्ठनं परिचक्रेऽथ राजाग्रे राजमन्दिरे ।
मृतगोपविलोकनार्थं श्रीवेङ्कटाचलं प्रति नृपागमनम् ।
तां दृष्ट्वा विह्वलां गां स लुठन्तीं चारमब्रवीत् ॥४६॥
किमर्थं लुठतीयं गौस्त्यक्ता गोसन्ततिः कुतः? ।
गवा सार्धं गच्छ चार मेलयैनां गवां गणे ॥४७॥
इति राज्ञा समाज्ञप्तश्चारस्तत्पृष्ठतो ययौ ।
आरुह्य वेङ्कटगिरिं वल्मीकाग्रमुपाश्रितः ॥४८॥
पतितं धेनुपं दृष्ट्वा वल्मीकाग्रसमुत्थिताम् ।
रक्तवृद्धिं घोरतरां सप्ततालप्रमाणिकाम् ।
संवीक्ष्य नृपचारोऽथ जगाम नृपमन्दिरम् ॥४९॥
चारस्तमानम्य नरेन्द्रसन्निधौ गोपालकृत्यं सकलं जगाद ।
गोपालघातेन कृतं सरक्तं वल्मीकरन्ध्रं तमुवाच दीनः ॥५०॥
रक्तवृद्धिं ततः श्रुत्वा राजा विस्मितमानसः ।
आरुह्य नरयानं च शीघ्रमागाद् वृषाचलम् ॥५१॥
वल्मीकस्यान्तिके स्थित्वा स इदं वाक्यमब्रवीत् ।
किमिदं भो महत्कष्टं केन पापेन वै कृतम् ॥५२॥
धेनुपालस्य मरणं वल्मीकं रक्तपूरितम् ।
गवा वृत्तान्तकथनं किमिदं वेङ्कटाचले' ।
इति राजवचोऽश्रौषीद् वल्मीकस्थो जगत्पतिः ॥५३॥
नृपं प्रति वल्मीकनिर्गतश्रीनिवासशापः ।
उद्भिद्य वल्मीकमनन्तवीर्यवाननन्तशैलेन्द्रतलं समाश्रितः ।
श्रीस्वामितीर्थस्य च दक्षिणे तटे वल्मीकगः श्रीभगवानुवाच ॥५४॥
सगद्गदोत्कण्ठसमाकुलाननः सरक्तबाष्पोदकपूर्णलोचनः ।
चोलं नृपेन्द्रं बहुनिष्ठुरं गिरा सशङ्खचक्रप्रतिमां समाश्रितः ॥५५॥
श्रीभगवानुवाच ।
पापिष्ठोऽसि दुराचार राज्यगर्वमदोन्नत ।
अनाथं भक्तिहीनं मां दरिद्रं वनचारिणम् ॥५६॥
पितृमातृविहीनं च भार्याबन्धुविवर्जितम् ।
सुभ्रातृहीनं कुटिलः कुठारेणासिधारिणा ॥५७॥
अताडयन् नृपश्रेष्ठ तद्दुःखमतुलं ह्यभूत् ।
धेनुपालायुधाघाताज्जातं दुःखं महाद्भुतम् ॥५८॥
शिरो भिन्नं धेनुपेन दयाहीनेन दुर्मते ।
यजमानो गृहे यस्तु न विचारपरो भवेत् ॥५९॥
स्त्रीपुत्राद्यैः कृतं कर्म तस्यानिष्टकरं विदुः ।
इत्युक्त्वा भगवान् देवः शशाप नृपपुङ्गवम् ॥६०॥
पिशाचो भव दुर्बुद्धे मद्दुःखाधानकर्मणा ।
इत्थं शप्तो नृपश्रेष्ठः पतितः शापमूर्छितः ।
मुहूर्तान्ते समुत्थाय प्रोवाच जगदीश्वरम् ॥६१॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये स्वामितीर्थपश्चिमतीरस्थवल्मीकाच्छ्रीनिवासाविर्भाववर्णनं नाम तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः ।
नृपं प्रति श्रीनिवासकृतशापहेतूपन्यासः ।
राजोवाच ।
किमर्थमशपी देव ! माऽपराधविवर्जितम् ।
अविचार्य जगन्नाथ ! किं मयाऽऽचरितं तव ॥१॥
न जानेऽहं किञ्चिदपि दुःखदं ते रमापते ।
हा कष्टमतुलं प्राप्तं कथमत्र जगत्पते ॥२॥
इति तेन स विज्ञप्तः श्रीनिवासोऽतिदुःखितः ।
उवाच मन्दं वचनं राजानं शापमूर्छितम् ॥३॥
श्रीनिवास उवाच ।
पापिष्ठोऽहं दुराचारोऽस्म्यविचारी नृपोत्तम ।
अज्ञानेनातिदुःखेन वृथा शापो मयाऽर्पितः ॥४॥
तथापि मां विदुर्देवा भगवन्तं सनातनम् ।
यतोऽतो मद्वचः सत्यं मद्भक्ता मामुपासते ॥५॥
मच्छापो ह्यनृतो न स्यादिति वेदविदो विदुः ।
भक्तवात्सल्यदोषेण दुःखितोऽहं भवामि च ॥६॥
यावत् कलियुगं तिष्ठेत् तावद् दुःखी भवान् नृप ।
उभौ दुःखं समापन्नौ सत्यसङ्कल्पदोषतः ॥७॥
भविष्यति नृपश्रेष्ठ आकाश इति नामवान् ।
सोऽपि मे दास्यते कन्यां नाम्ना पद्मावतीं शुभाम् ॥८॥
कन्यादानस्य काले च ददाति वरदक्षिणाम् ।
किरीटं शतभारं च रत्नवज्रसमाकुलम् ॥९॥
शुक्रवारे तु सायाह्ने किरीटं धारयाम्यहम् ।
किरीटधारणे स्यातां नेत्रे मे जलपूरिते ॥१०॥
घटिकाषट्कमात्रं ते सुखं तत्र भविष्यति ।
इति कालावधिं कृत्वा राज्ञः स्वस्य च माधवः ॥११॥
सुखस्य कालं संसूच्य स्वावतारप्रयोजनम् ।
स्वावतारस्य चरितं कलौ कन्यापरिग्रहम् ॥१२॥
इति सम्भाष्य राजानं तत्रास्ते भगवान् हरिः ।
क्षतशान्त्यर्थमाकाङ्क्षन् वैद्यशास्त्रविशारदम् ॥१३॥
गुरुं सुरपतीनां च सस्मार जगदीश्वरः ।
आगतं च गुरुं दृष्ट्वा स्वौषधं वद मे द्रुतम् ॥१४॥
भगवत्क्षतोपनोदनाय गुरुकृतचिकित्साप्रकारः ।
इति तेन समाज्ञप्तो जीवो जीववतां वरः ।
क्षीरमौदुम्बरं देव ! तथा कार्पासमर्कजम् ॥१५॥
मेलयित्वा रमाकान्त तत्क्षतोपरि धार्यताम् ।
इत्येवं गुरुणाऽऽज्ञप्तस्तच्चकार यथोदितम् ॥१६॥
श्रीवेङ्कटाचलस्यायोध्यामथुरादितौल्यवर्णनम् ।
एवं कुर्वन् रमानाथस्तत्र लीनोऽभवद्धरिः ।
कौसल्या कीटकगृहं तिन्त्रिणी दशदिग्रथः ॥१७॥
गिरिरूपोऽनुजः साक्षादयोध्याभूदधित्यका ।
इत्थं रामावतारेण समां क्रीडामकल्पयत् ॥१८॥
वल्मीकं देवकी साक्षाद् वसुदेवोऽथ तिन्त्रिणी ।
बलभद्रः शेषशैलो मथुराऽभूदधित्यका ॥१९॥
स्वामिपुष्करिणी तत्र यमुना च व्यराजत ।
यादवाश्च मृगाः सर्वे खगा वै गोपिकादयः ॥२०॥
एवं श्रीकृष्णरूपेण क्रीडितो वेङ्कटाचले ।
अरायिकाणे विकटे गिरिं गच्छेति तं विदुः ॥२१॥
एवं वेदमयः साक्षाद् गिरीन्द्रः पन्नगाचलः ।
छन्नवल्मीकदेहाढ्यो वैकुण्ठादधिको ह्यभूत् ॥२२॥
सुवर्णमुखरी नाम नदी सा विरजा नदी ।
वैकुण्ठो वेङ्कटगिरिर्वासुदेवो रमापतिः ॥२३॥
मुक्ता अजाः पक्षिगणा मुक्ता रुद्रा मृगोत्तमाः ।
सनत्कुमारप्रमुखा वानराद्या द्विजोत्तमाः ॥२४॥
मानुषं जन्ममास्थाय यः पुमान् वेङ्कटाचलम् ।
गन्तुमिच्छति धर्मिष्ठस्तेन सर्वमनुष्ठितम् ॥२५॥
प्रीतो भवेद् रमानाथः सर्वदेवनमस्कृतः ।
श्रीवेङ्कटाद्रेर्महिमानमुत्तमं जानन्ति न ब्रह्मशिवेन्द्रपूर्वकाः ।
किमल्पवीर्या मनुजास्तमोगता जानन्ति विष्णोः स्थलमद्भुतं हि तत् ॥२६॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये नृपतिं प्रति श्रीनिवासकृतशापहेतूपन्यासादिवर्णनं नाम चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
पद्मावतीपरिणयोपोद्घातः ।
ऋषय ऊचुः ।
सूत ! सूत ! महाभाग ! सर्वशास्त्रविशारद ।
श्रुतं श्रीवेङ्कटेशस्य माहात्म्यं पापनाशनम् ॥१॥
अवतारप्रभावश्च चोलराजनिबन्धनम् ।
वैकुण्ठाच्चावगमनं चरितं लौकिकं परम् ॥२॥
कृपालोऽसि दयासारः शिष्यप्रीतिपरायणः ।
तत्कल्याणविधिं ब्रूहि को वाऽऽकाशनृपोत्तमः ॥३॥
कथं पुत्र्यभवत् पूर्वं कथं जामातृतां गतः ।
योगिनां मनसाऽचिन्त्यः श्रीनिवासः सतां गतिः ॥४॥
तत्त्वेन ब्रूहि भगवन् साङ्गं वैवाहिकं शुभम् ।
यः पुमान् वेङ्कटेशस्य महिमक्षीरसागरे ।
स्नानाचारपरो नित्यं स धन्यः पुण्यवर्धनः ॥५॥
एवं मुनीनां वचनं निशम्य सूतो नितान्तं निजशिष्यसङ्घान् ।
उवाच भक्त्या ह्यतिनम्रदेहः साध्वित्यसौ तान् कृपयाऽभिनन्दन् ॥६॥
सूत उवाच ।
शृण्वन्तु मुनयः सर्वे भक्तिभावेन संयुताः ।
पन्नगाचलसंस्थस्य कन्यासङ्ग्रहणं शुभम् ॥७॥
कदाचित् वेङ्कटेशस्तु स्वौषधार्थं स्वयं हरिः ।
गमनाभिमुखी भूत्वा निर्जगामारुणोदये ॥८॥
तस्मिन् काले वराहस्तु मृगयायां ससूकरः ।
श्यामाकहारिणं जित्वा दैत्यं वृषभनायकम् ॥९॥
समागच्छत् तदा देवो वेङ्कटेशं ददर्श सः ।
गर्जन्तः कोऽसि कोऽसीति सूकरास्तत्र चाययुः ॥१०॥
तान् दृष्ट्वा जगदीशस्तु तत्र लीनोऽभवद्धरिः ।
लीनं तं वेङ्कटे दृष्ट्वा वराहवदनो हरिः ॥११॥
वैकुण्ठादागतं मत्वा वेङ्कटेशं श्रियः पतिम् ।
उवाच वचनं देवं धैर्यमालम्ब्य बुद्धिमान् ॥१२॥
सोऽपि श्वेतवराहं तं जानन् वल्मीकगस्तदा ।
निरीक्षमाणः सोत्कण्ठं निर्गत्योत्तरमभ्यधात् ॥१३॥
ततोऽन्योन्यविलोकोत्थबाष्पसन्दिग्धलोचनौ ।
क्रोडनारायणौ साक्षाद् रूपद्वन्द्वविराजितौ ॥१४॥
ऊचतुर्भाषणं चोभौ कृतलोकविडम्बनौ ।
तयोस्तदद्भुतं कर्म दृष्ट्वा ब्रह्मपुरोगमाः ॥१५॥
ववृषुः पुष्पवर्षाणि क्रोडनारायणोपरि ।
'यथायुगं यथादेशं यथाकालं यथावयः ।
तथाऽवतारमाकाङ्क्षन् रमते प्राकृतो यथा ॥१६॥
एवंवदन्तः सुरपुङ्गवास्ते विचित्रमायां जगदीशचेष्टाम् ।
स्तुवन्त ऊचुस्तमनन्तवीर्यमनन्तशैलं च रमापतिं च ॥१७॥
इत्यन्योन्यं भाषमाणौ साक्षान्नारायणावुभौ ।
सकौतुकं च संवीक्ष्य स्तुत्वा स्वं स्वं पदं ततः ॥१८॥
श्रीवराहानुज्ञया श्रीनिवासस्य शेषाचलप्राप्तिः ।
गते देवगणे तत्र वराहो हरिमब्रवीत् ॥१९॥
श्रीवराह उवाच ।
'त्यक्त्वा वैकुण्ठलोकं तु किमर्थं त्वमिहागतः' ।
तद् वदस्व महाभाग ! जगदानन्दकारण ! ॥२०॥
इति तेन समाज्ञप्तो न्यगदत् कोलरूपिणा ।
भृगोरङ्घ्रिप्रपाताच्च रमा कोल्लापुरं गता ॥२१॥
तेन दुःखेन सन्तप्तस्त्यक्त्वा वैकुण्ठमुत्तमम् ।
आगतोऽस्मि धराकान्त ! वल्मीके तव दक्षिणे ॥२२॥
निवसन्तं च मां देव ! धेनुपालो ह्यताडयत् ।
कुठारेणाऽसिधारेण तत् क्षतं मां प्रबाधते ॥२३॥
औषधार्थं वराहात्मन् ! गच्छामीह निरन्तरम् ।
दैवेन दृष्टवानस्मि त्वामद्येह धराधरम् ॥२४॥
अत्रैव निवसामीति सङ्कल्पो मम वर्तते ।
स्थलं देह्यवनीकान्त ! यावत् कलियुगं भवेत् ॥२५॥
इति तेन स विज्ञप्तो वराहवदनो हरिः ।
उवाच वचनं देवः 'स्थलं मौल्येन गृह्यताम्' ॥२६॥
इति वाक्यं ततः श्रुत्वा प्रोवाच मधुरं वचः ।
'प्रथमं दर्शनं च स्यान्नैवेद्यं क्षीरसेचनम् ॥२७॥
इदमेव परं द्रव्यं ददामि करुणानिधे ।
दास्यामि यत् ते भूकान्त ! तदङ्गीकुरु माधव ! ॥२८॥
वरं द्रव्यमिदं तात कृपां कुरु कृपानिधे ।
इत्युक्तो हरिणा पोत्री हरये स्थानकाङ्क्षिणे ॥२९॥
तदा ददौ स्थलं पादशतमात्रं रमापतेः ।
परस्परं विनोदेन कुर्वाणावेकरूपिणौ ॥३०॥
मोहनार्थमभक्तानां भक्तानां भक्तिसिद्धये ।
सङ्क्रीडाते वेङ्कटेशक्रोडरूपौ सुरोत्तमौ ॥३१॥
तदारभ्य धराकान्तो बकुलां पाककारिणीम् ।
अर्पयामास देवस्य सेवार्थं वेङ्कटेशितुः ॥३२॥
भोजनार्थं रमेशस्य श्यामाकान्नं निरन्तरम् ।
समधु प्रेषयन् नित्यं तया बकुलमालया ॥३३॥
सा बाला भक्तिनिरता श्रीनिवासस्य सन्निधौ ।
अन्नपानौषधाद्यैश्च पादसंवाहनादिभिः ॥३४॥
पूजयामास गोविन्दं श्रीनिवासं निरामयम् ।
ऋषय ऊचुः ।
श्रुतं सूत ! महाभाग देवागमनमुत्तमम् ।
न श्रुतं श्रीवराहस्य प्रथमं दर्शने फलम् ॥३५॥
श्रीनिवासस्य कृष्णस्य कल्याणं शुभदं महत् ।
पुनः श्रीवेङ्कटगिरौ वासः श्रीशार्ङ्गधारिणः ॥३६॥
बकुला सेविका प्रोक्ता का सा पूर्वं वदस्व नः ।
बकुलमालिकाख्यभगवत्परिचारिकापूर्वजन्मवृत्तान्तः ।
सूत उवाच ।
पुरा यशोदा बकुला कृष्णस्य जननी ह्यभूत् ॥३७॥
अदृष्टाऽनन्तरूपस्य कृष्णस्य तनयस्य सा ।
कल्याणं सुखदं स्वस्य तदयाचत तं हरिम् ॥३८॥
यशोदोवाच ।
मनः सीदति मे कृष्ण ! तव कल्याणवीक्षणे ।
दर्शयस्व रमानाथ ! यशोदानन्दवर्धन ॥३९॥
कल्याणादि महापुण्यं पावनं चरितं तव ।
तयेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ॥४०॥
श्रीभगवानुवाच ।
जन्मन्यनन्तरे देवि ! तावकीनं मनोरथम् ।
श्रीशैले पूरयिष्यामि किञ्चित्कालादनन्तरम् ॥४१॥
देवेनेत्थं दत्तवरा साऽत्यजत् तेन हेतुना ।
कलेवरं तु कल्याणी यशोदा नन्दवल्लभा ॥४२॥
तस्याः प्रीत्यै वासुदेवो ह्यष्टाविंशे कलौ युगे ।
आविर्भूय यशोदायास्तोषकैर्गुणकर्मभिः ॥४३॥
क्रीडन्नास्ते जगद्योनिर्निदोषोऽपीश्वरोऽपि च ।
दैत्यानां वञ्चनायैव सुराणां मुक्तिहेतवे ॥४४॥
स्वभक्तानां हितार्थाय विरक्तानां विशेषतः ।
मुक्तिमापादयन् देवः क्रीडते प्राकृताकृतिः ॥४५॥
इत्येवं कारणादेव यशोदा बकुलाऽभवत् ।
सा करिष्यति कल्याणं हरेर्वेङ्कटवासिनः ॥४६॥
किमलभ्या हरौ तुष्टे ज्ञानविज्ञानसम्पदः ।
कश्चिद् देवं पूजयति कश्चिद् देवेन पूज्यते ॥४७॥
हनुमता पूजितोऽपि स्वयमर्जुनमर्चति ।
को वर्णयेद्धरेः क्रीडां विचित्रां जनपावनीम् ॥४८॥
नित्यशुद्धस्य वै विष्णोर्यतोऽमुष्याभिवन्दने ।
कृते पुण्यमृषीणामप्यकृते दोषसङ्ग्रहः ॥४९॥
तस्मात् पूज्यो हरिः सर्वै ऋषिभिस्तत्त्वकोविदैः ।
पितृभिर्भूमिपैर्विप्रैर्मानवै राक्षसैर्जडैः ॥५०॥
कलौ कलुषचित्तानां पापाचाररतात्मनाम् ।
रक्षणार्थं रमाकान्तो रमते प्राकृतो यथा ॥५१॥
दैत्यानां मोहनार्थाय सुराणां मोदनाय च ।
क्रीडते बालकैर्बालो जगत्पालकबालकः ॥५२॥
जगन्मोहनसौन्दर्यलीलामानुषविग्रहः ।
नैतद् रूपं कृतं देवैर्न कृतं विश्वकर्मणा ॥५३॥
स्वेच्छया क्रीडते तत्र स्वेच्छारूपविराजितः ।
क्षेत्रस्य महिमा दिव्यस्तथा तीर्थस्य वैभवम् ॥५४॥
तत्र साक्षाद् रमाकान्तः किं तत्र सुकृतं कृतम् ।
बहुजन्मार्जितैः पुण्यैर्लभ्यते क्षेत्रदर्शनम् ॥५५॥
तत्रापि वेङ्कटगिरेर्दर्शनं मुक्तिदं परम् ।
दुर्लभे देवसङ्घानां मनुष्याणां तु का कथा ॥५६॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पद्मावतीपरिणयोपोद्घातादिवर्णनं नाम पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः ।
मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम् ।
सूत उवाच ।
स कदाचिद् रमेशस्तु चिन्तयामास वै हयम् ।
मनसा चिन्त्यमाने तु हयः प्रत्यक्षतं गतः ॥१॥
वायुरश्वत्वामापन्नो रज्जुस्तत्त्वाभिमानिनी ।
उपासर्पत् स्वयं लक्ष्मीस्ततोऽश्वं तं स पूजयन् ॥२॥
तस्योपरि समातिष्ठत् सर्वाभरणभूषितः ।
शुभ्रं वस्त्रं पञ्चदशहस्तं बिभ्रत् तथोपरि ॥३॥
काञ्चीं बद्ध्वा रमाकान्तः काञ्चीदामविभूषितः ।
शुभ्रवर्णं चोत्तरीयं पञ्चहस्तं तथा दधत् ॥४॥
आदर्शालोकिते वक्त्रे धृत्वा शुभ्रां च मृत्तिकाम् ।
तन्मध्ये कुङ्कुमेनापि तिलकं सुमनोहरम् ॥५॥
पूगीफलं च ताम्बूलं चूर्णनिःक्षेपपात्रकम् ।
कर्पूरवासितैः पूगकाचैर्जातीफलैः शुभैः ॥६॥
लवङ्गैः पत्रसम्मिश्रैर्गर्भितां रत्नपेटिकाम् ।
आदर्शमृत्तिकां शुभ्रां तथा कुङ्कुमभाजनम् ॥७॥
स्वर्णनिर्मितवस्त्रेण बद्ध्वा तु कटिमध्यतः ।
स्वर्णयज्ञोपवीताङ्गः कण्ठाभरणभूषितः ॥८॥
कङ्कणाङ्कितदोर्भ्यां च सम्पूर्णवरगात्रकः ।
भुजकीर्त्या रत्नमय्या राजमानोऽङ्गुलीयकैः ॥९॥
कुङ्कुमाक्तसुगन्धेन लिप्तोरोबाहुरञ्जितः ।
कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्ट्य च ॥१०॥
लम्बितैः पुष्पजालैश्च स्कन्धगैः परिभूषितः ।
सुवर्णरत्नसम्बद्धपादुकागूहिताङ्घ्रिकः ॥११॥
धनुर्बाणधरः श्रीमान् साक्षान्मन्मथमन्मथः ।
एवं मनोहरं रूपं धृत्वा श्रीवेङ्कटेश्वरः ॥१२॥
हयं रत्नसमाकीर्णैरुपबर्हैर्विभूषितम् ।
सुवर्णतिलकोल्लासिवक्त्रं वायुमनोजवम् ॥१३॥
नीलवर्णं पाण्डुपादं हस्तपञ्चदशोन्नतम् ।
आरुह्य देवमण्यादि सर्वलक्षणसंयुतम् ॥१४॥
अवरुह्य गिरिश्रेष्ठान्मृगयार्थं जगाम सः ॥१५॥
मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शनम् ।
मृगान् बहुविधाकारान् सिंहशार्दूलजम्बुकान् ।
मातङ्गाञ्छरभान् घोरांस्तथा वै महिषानपि ॥१६॥
जघान तान् वने देवः सञ्चरन् च इतस्ततः ।
तत्रैकं हस्तिनं दृष्ट्वा मदोन्मत्तं वनेचरम् ॥१७॥
तं हन्तुमगमत् पृष्ठमनुसृत्य रमापतिः ।
स जगाम वने दूरं भयाद् भीतो वृषाकपिः ॥१८॥
स योजनार्धं गत्वा तु तत्र देवं जनार्दनम् ।
दण्डवत् पतितो भूत्वा शुण्डमुद्धृत्य गर्जयन् ॥१९॥
यदा गतस्तदा कन्या दृष्टिमार्गमुपाश्रिता ।
ऋषय ऊचुः ।
सा कन्या कस्य सम्बद्धा किमर्थं वनमागता? ॥२०॥
कस्येयं तनया कन्या तद् वदस्व महामुने ।
इति तैश्च स विज्ञप्तः सूतः परमधार्मिकः ॥२१॥
उवाच वचनं भक्त्या सन्तोषाद्युक्तमानसः ।
श्रीसूत उवाच ।
शृण्वन्तु मुनयः सर्वे कन्याया जन्म पावनम् ॥२२॥
पुरा तु द्वापरस्यान्ते पाण्डवानां महात्मनाम् ।
युद्धे तु भारतेऽतीते त्वष्टाविंशे कलौ युगे ॥२३॥
विक्रमार्कादयो भूपाः स्वर्गलोकं यदा ययुः ।
तत्कालान्ते वत्सरेषु साहस्रेषु गतेषु वै ॥२४॥
चन्द्रवंशे नृपः कश्चित् सुवीर इति विश्रुतः ।
जज्ञे सुधर्मस्तत्पुत्रस्तत्सुतौ नृपपुङ्गवौ ॥२५॥
आकाशतोण्डमानाख्यौ जातौ लोकयशस्करौ ।
धर्मिष्ठौ दृढभक्तौ तु नारायणपरायणौ ॥२६॥
ज्येष्ठो वियन्नृपः साधुः कनिष्ठस्तोण्डमान् नृपः ।
तोण्डदेशाधिपो भूत्वा शशास पृथिवीमिमाम् ॥२७॥
तस्मिञ्छासतिभूचक्रमिदं स्वर्ग इवाभवत् ।
निरातङ्कमभूत् सर्वं जगत् स्थावरजङ्गमम् ॥२८॥
गावो बहुपयोदाश्च नार्यः पतिपरायणाः ।
कदाचित् पुत्रकाङ्क्षी स ह्येकान्ते भवने स्थितः ॥२९॥
अपुत्रो नृपतिर्दुःखाद् गुरुं प्रोवाच भक्तितः ॥३०॥
पुत्रालाभेन वियन्नृपानुभूतचिन्ताप्रकारः ।
आकाशराज उवाच ।
अनुभूतमिदं राज्यं हस्त्यश्वरथसङ्कुलम् ।
नानादानमकार्षं च तीर्थयात्रां विशेषतः ॥३१॥
नानुभूतं पुत्रसुखं पितृणां मुक्तिदं द्विज ! ।
किं मयाऽऽचरितं पापं कस्य पुत्रो हतः पुरा ॥३२॥
केन पापेन विप्रेन्द्र न प्राप्तं पुत्रजन्म मे? ।
नेत्राभ्यां नैव दृष्टं च पुत्रस्य मुखपङ्कजम् ॥३३॥
कर्णाभ्यां न श्रुतः शब्दः पुत्रेण रुदता कृतः ।
द्विजेन्द्र पितृबन्धूनां दुर्गतिश्च भवेत् तथा ॥३४॥
अपुत्रस्य गतिर्नास्तीत्येवं वेदविदो विदुः ।
पुत्रेण रुक्मपात्रे तु नान्नं भुक्तं मया सह ॥३५॥
कृतदोषेण न मया कदाचिल्लालितः सुतः ।
भूषणान्यादरात् कृत्वा न पुत्रोऽलङ्कृतो मया ॥३६॥
स सञ्जातो न मे यः स्यात् पुत्रः पितृहिते रतः ।
सुतार्थं कवचं कृत्वा त्वमेहीति स नोदितः ॥३७॥
पुत्रहीनं च मां दृष्ट्वा कर्षन्ति यमकिङ्कराः ।
गच्छ राजन् जवेनैव यमस्य भवनं त्विति ॥३८॥
पाशकुण्ठितसर्वाङ्गः किमु वक्ष्याम्यपुत्रवान् ।
चित्रगुप्तेन लिखितमपुत्रत्वं महामते ! ॥३९॥
मद्गर्भजेन सुकुलं मार्जितं तु कदा भवेत्? ।
दुराचारोऽसि दुर्बुद्धिरपुत्रेति यमेन च ॥४०॥
भाषितं वचनं श्रुत्वा कः पुमान् सुखमाप्नुयात्? ।
नष्टदीपोऽतिनैष्ठुर्यः कण्टोद्भूतकलेवरः ॥४१॥
वृथा जातोऽतिपापात्माऽस्म्यात्मनो नरकावहः ।
तन्तुहीनं कुलं चापि विगताम्बुं च वापिकाम् ॥४२॥
अङ्गनां भर्तृहीनां च सन्तो निन्दन्ति संसदि ।
किं करोमि महीदेव क्व गच्छामीह का गतिः ॥४३॥
कं देवं शरणं गत्वा भवाब्धिं प्रतराम्यहम् ।
रुदन्तं पुत्रमालोक्य कदा प्रेम्णा तमाह्वये ॥४४॥
घण्टां च प्रतिमां दत्त्वा पुत्रस्य फलकन्दुकौ ।
गजमारोप्य मां तात ! कुर्वन् ग्रामप्रदक्षिणम् ॥४५॥
सभां गच्छाथ राजेन्द्र ! तथा तालस्वनेन च ।
इति पुत्रेण सोत्कण्ठं कृतं मञ्जुलभाषिणा ॥४६॥
कदाचिदपि नैवाहं श्रुतवान् प्रार्थनामिति? ।
अजातपुत्रः शोकेन मूर्छामाप महीपतिः ॥४७॥
पुनः सञ्ज्ञामवापाथ विललाप सुदुःखितः ।
कवचं कारयित्वा तु शिरोभूषणमप्यथ ॥४८॥
केशभूषणमप्यर्थं रत्नवज्रसमाकुलम् ।
कदाचिदङ्कमारोप्य न मयाऽलङ्कृतः सुतः ॥४९॥
नोपनीतोऽपि च प्रीत्या सुतो मे पञ्चवार्षिकः ।
अष्टमे वाऽथ दशमे न कृतो दारसङ्ग्रहः ॥५०॥
बालस्य जातकर्मापि नाकार्षं नापि चाभिधाम् ।
पुत्रार्जितं धनं ब्रह्मन् नोपजीवितमद्य मे ॥५१॥
अभिषिच्य सुतं राज्ये भार्यया कृतभोजिना ।
न गतं च वनं विद्वन् पारम्पर्यक्रमान्मया ॥५२॥
अहो दरिद्रस्य महानुभाव ! मे पुत्रेण हीनस्य कथं गतिर्भवेत् ।
वृथा शरीरं घटकुड्यसन्निभं जातं सुधर्मस्य कुले सुपावने ॥५३॥
मनुष्याणमनाथानां दुर्लभं पुत्रजन्म च ।
बहुपुण्यवशात् पुत्रो जायते मानवोदरे ॥५४॥
कन्यकाऽपि न सम्भूता ह्यस्माकमतिपाप्मिनाम् ।
सत्पुत्राः क्व नु जायेरन् धर्मसन्तानसञ्ज्ञिकाः ॥५५॥
वरदाच्युत ! रङ्गेश ! जगन्नाथ ! जगद्गुरो ! ।
सुब्रह्मण्य ! सुराधीश ! राम ! कृष्ण ! नमोऽस्तु ते ॥५६॥
वेङ्कटेश ! रमाकान्त ! वराहवदनाच्युत ! ।
नारायण ! रमाधीश ! कृपां कुरु कृपानिधे ॥५७॥
सुपुत्रवन्तः खलु भाग्यवन्तो ह्यपुत्रवन्तो भुवि दुःखवन्तः ।
संसारसिन्धोस्तरणेऽस्म्यशक्तः का मे गतिः कर्मफलानुभोगिनः ॥५८॥
एवमुक्त्वा महीदेवं विरराम महीपतिः ।
पापिष्ठोऽहं दुराचारः पुत्रेणाहं दरिद्रितः ॥५९॥
हा कान् लोकान् गमिष्यामि क्रूरं वा नरकं गुरो ।
क उपायो महाप्राज्ञ ! पुत्रलाभे द्विजोत्तम ॥६०॥
इति राजवचः श्रुत्वा गुरुर्वाक्यमुवाच ह ।
धरणीतलात् पद्मावत्युपवर्णनम् ।
गुरुरुवाच ।
यज्ञं कुरु नृपश्रेष्ठ ! पुत्रस्तेन भविष्यति ॥६१॥
गुरोर्वाक्यं समाकर्ण्य यज्ञायाशोधयद् धराम् ।
स्वर्णलाङ्गलसङ्घैश्च द्विजैर्मन्त्रिगणैस्तथा ॥६२॥
शोध्यमाने धरापृष्ठे तत्र पद्मं ददर्श सः ।
सहस्रपत्रं राजेन्द्रः किमेतदिति विस्मितः ॥६३॥
कन्यां च पत्रेषु रमाकृतिं शुभां दृष्ट्वाऽतिसन्तुष्टमना बभाषे ।
देवेन दत्ता त्वियमिन्दिराभा कन्याकुमारी कमलाभनेत्री ॥६४॥
इत्थं समाभाष्य नृपोत्तमोऽसौ हस्ते प्रगृह्याऽशु बभाण दीनः ।
माया महेशस्य दुरत्यया हरेः केयं तु या सम्प्रति गृह्यते मया ॥६५॥
इत्येवं संशयानं तमाकाशाख्यं नराधिपम् ।
उवाचाऽऽकाशगा वाणी पुत्रीयं तव वल्लभा ॥६६॥
संरक्षैनां महाभाग ! बहुकीर्तिफलप्रदाम् ।
इत्यनन्तगतां वाणीं श्रुत्वा राजाऽतिहर्षितः ॥६७॥
तां कन्यां प्रतिगृह्याशु स्वभार्यां प्रत्युवाच ह ।
शृणु भद्रे ! महाप्राज्ञे ! देवदत्तामिमां शुभाम् ॥६८॥
संवर्धय वरां पुत्रीं गर्भजातां सुतामिव ।
इत्युक्त्वा तत्करे दत्त्वा बहुदानमथाकरोत् ॥६९॥
वियन्नृपस्य वसुदानाख्यसुतोत्पत्तिः ।
कन्यागमनपुण्येन सा देवी गर्भमादधे ॥७०॥
गर्भिणीं स्वसतीं दृष्ट्वा चक्रे पुंसवनं पतिः ।
पञ्चमासे तु सञ्जाते सीमन्तं नृपपुङ्गवः ॥७१॥
कारयामास विधिना ब्राह्मणैर्यजुषां गणैः ।
ततः कालेन सा साध्वी नवमासे गते सती ॥७२॥
मासे तु दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ।
कन्याराशिगते भानौ दशम्यां रोहिणीयुजि ॥७३॥
पक्षे तु प्रथमे देवी सायङ्काले गुरोर्दिने ।
पुत्रोत्पत्तिप्रवक्तॄणां सर्वस्वं दत्तवांस्तदा ॥७४॥
गवां कोटिसहस्राणि चाश्वानामयुतं तथा ।
नवधान्यानि वस्त्राणि विना स्वे छत्रचामरे ॥७५॥
दानं कृत्वा नृपश्रेष्ठः स्वस्तिवाचनमाचरत् ।
जातकर्मादिकं कर्म कृतवांस्तत्क्षणं नृपः ॥७६॥
दिने च द्वादशे प्राप्ते कृत्वा पुत्राभिधां तथा ।
यन्नाम्ना वसुदातेति लोके ख्यातिं गमिष्यति ॥७७॥
तद्दिने बहुविप्रौघानन्नाद्यैः पर्यतोषयत् ।
ऋषय ऊचुः ।
श्रुतं पुत्रस्य चरितं न श्रुतं व्यासवल्लभ ॥७८॥
अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत् ।
पद्मोदरीं पद्मगर्भां पद्मजातां वराननाम् ॥७९॥
पद्माया अवतारां तां मत्वा तस्यास्तदाऽकरोत् ।
अनुरूपं नामकर्म नाम्ना पद्मावतीति च ॥८०॥
वर्धमानौ सुतौ दृष्ट्वा राजा सन्तोषमागतः ।
अकलङ्केन्दुसदृशौ रमाचन्द्रमसाविव ॥८१॥
किं तेन सुकृतं राज्ञा बहुजन्मसु सञ्चितम् ।
अग्रजां पुत्रिकां दृष्ट्वा तदन्ते पुत्रमुत्तमम् ॥८२॥
दृष्ट्वा तुतोष मनसा सम्पूर्णानन्दविभ्रमः ।
इत्थं काले गते तस्मिन् सा बाला यौवनं गता ॥८३॥
यौवनाढ्यां विशालाक्षीं दृष्ट्वा राजाऽप्यचिन्तयत् ।
विचारयन् स नृपतिः पुत्र्यर्थं वरमुत्तमम् ॥८४॥
न प्राप दुःखसन्तप्तः कस्मै देया मया सुता ।
इति चिन्ताब्धिमग्नोऽसौ पुत्रीपरिणये तदा ॥८५॥
असम्मतोऽकरोत् पुत्रं परं संस्कारसंस्कृतम् ।
श्रुत्वा राजसुता बाला ब्राह्मणैरनुजं परम् ॥८६॥
तदोपनीतं सद्योऽभूत् पुत्री यौवनपीडिता ।
सा कदाचिद् वनं बाला सखीभिः परिवारिता ॥८७॥
जगाम पुष्पाण्याहर्तुं कन्या कमललोचना ।
वसन्तमागतं वीक्ष्य वने ताभिर्भयाकुला ॥८८॥
पुष्पाण्याहारयामास तरुमूलमुपाश्रिता ।
तदाऽगतो नारदस्तु वृद्धो भूत्वा जटाधरः ॥८९॥
धूलीधूसरिताङ्गश्च कर्पूरसदृशद्युतिः ।
आगतं तं मुनिं दृष्ट्वा विस्मयाकुलमानसा ॥९०॥
पद्मावती सखीः प्राह चटुला भृशकातरा ।
कोऽसौ भयङ्करो बालाः क्व यात्यत्र विचार्यताम् ॥९१॥
इत्युक्तास्तास्तदा कन्याः पप्रच्छुः स्थविरं द्विजम् ।
कोऽसि विप्र महाप्राज्ञ किमर्थं त्वमिहागतः ॥९२॥
वाक्यं तासां समाकर्ण्य गुरुः प्रोवाच सद्वचः ।
नारद उवाच ।
अहं कुलगुरुः साक्षाद् युष्माकं वरयोषिताम् ॥९३॥
हस्ते दर्शय मे पुत्रि लक्षणानि वदामि ते ।
उवाच लज्जया देवी किं वदिष्यसि हे द्विज ॥९४॥
नारद उवाच ।
विद्धिं त्वं पितृतुल्यं मां मनसा निर्मलेन च ।
इत्युक्ता मुनिना तेन दत्त्वा हस्तं वराङ्गना ॥९५॥
प्राह भावि शुभं श्रोतुं निजलक्षणलक्षितम् ।
पद्मावत्युवाच ।
सत्यं वद महाप्राज्ञ लक्षणानि विलोक्य मे ॥९६॥
ततो दृष्ट्वा पाणितलं प्राह स्माजतनूद्भवः ॥९७॥
नारदोक्तपद्मावतीशरीरसल्लक्षणानि ।
नारद उवाच ।
पतिर्भवति धर्मज्ञो त्रिलोकेशो रमापतिः ।
पाणी पद्मदलोपेतौ पादौ ते स्वस्तिकायतौ ॥९८॥
मुखं चन्द्रसमाकारं चक्षुः कमलकुड्मलम् ।
तिलपुष्पसमाकारा नासिका ते विराजते ॥९९॥
कपोलौ मुकुराभौ ते भ्रुवौ ते धनुषा समे ।
दन्ता दाडिमबीजाभा आस्यं कर्पूरभाजनम् ॥१००॥
अधरं रक्तपद्माभं जिह्वा मृदुतरा शुभा ।
अरालालकसम्बद्धा श्यामला भाति वेणिका ॥१०१॥
ललाटं रत्नपीठाभं श्रोत्रे शष्कुलिकासमे ।
तनुस्ते मन्मथाकारप्रतिमाऽप्रतिमप्रभा ॥१०२॥
कण्ठः सूर्यांशुसदृशस्ताम्बूलरसदर्शकः ।
स्तनौ पीनौ घनौ कुब्जौ शुभौ ते मग्नचूचुकौ ॥१०३॥
उदरं कदलीपर्णसदृशं निम्ननाभिकम् ।
कटिस्तव करिध्वंसिकटिसाम्ययुता शुभा ॥१०४॥
रम्भास्तम्भसमाकारं तवोरुयुगुलं रमे ।
पृष्ठं ते वेदिवद् भाति किं त्वया सुकृतं कृतम् ॥१०५॥
गमनं करिराजस्य सदृशं ते वरानने ।
इति सम्भाष्य तां देवीं देवर्षिः पद्मसम्भवाम् ॥१०६॥
अन्तर्दधे नारदस्तु सर्वासां पुरतो मुनिः ।
संस्तुत्य कमलां देवीं मनसा चिन्तयन् रमाम् ।
मनसा वन्दनं कृत्वा जगामाथ ऋषिस्तदा ॥१०७॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये मृगयाविहारोद्युक्तश्रीनिवासालङ्कारादिवर्णनपूर्वकमाकाशनृपतेः कन्यापुत्रप्राप्तिवर्णनं नाम षष्ठोऽध्यायः ।
सप्तमोऽध्यायः ।
पद्मावत्याः पुष्पापचयसमये श्रीनिवासदर्शनम् ।
श्रीसूत उवाच ।
कन्याया जननं प्रोक्तं कुमारस्यापि वै ततः ।
तस्या वदामि चारित्रं वैवाहं पुण्यवर्धनम् ॥१॥
करीन्द्रसङ्गेन समागतो हरिस्तुरङ्गमास्थाय वराङ्गनानाम् ।
श्रीगन्धलेपारुणचारुवक्षाः बालार्कभाः सोऽथ समीपमाययौ ॥२॥
गर्जन्तं गजराजं तं दृष्ट्वा पद्मावतीमुखाः ।
वनस्पतिमुपाश्रित्य तत्र लीनास्तदाऽभवन् ॥३॥
निमील्य नेत्रवर्त्मानि व्यूहं कृत्वा वराङ्गनाः ।
पश्यन्त्योऽथ तरुच्छन्नाः पुनः पुनरवस्थिताः ॥४॥
तदन्तरेऽबलाः सर्वाः ददृशुर्हयमुत्तमम् ।
बालार्कसदृशाकारं स्वर्णाभरणभूषितम् ॥५॥
पुरुषेण समायुक्तं मन्मथाकारतेजसा ।
तं दृष्ट्वा गजराजोऽपि हयस्थं पुरुषोत्तमम् ॥६॥
नमस्कृत्य यथान्यायं जगाम विपिनं नदन् ।
तं दृष्ट्वा योषितः सर्वा विस्मयाकुलमानसाः ॥७॥
करसम्पुटमापन्नाश्चलितास्तु भयातुराः ।
वृक्षमूलं गता बाला अन्योन्यं वाक्यमब्रुवन् ॥८॥
कोऽयमत्र वरारोहे ! सखि ! कञ्जायतेक्षणे ! ।
कोऽसौ किरातरूपी च किं न दृष्टस्त्वया पुरः ॥९॥
तुरङ्गोपरि संस्थाय य आगच्छति हे सखि ।
एवं वदन्त्यस्तास्तस्थुः सा च पद्मावती शुभा ॥१०॥
उवाच मन्दं वचनं सखीस्तास्तु ततो द्विजाः ।
पृच्छन्तु तस्य वृत्तान्तं पितृमातृस्वबान्धवान् ॥११॥
देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा ।
इति सख्यः समाज्ञप्तास्ता ऊचुर्वचनं स्त्रियः ॥१२॥
आगतं पुरुषं दृष्ट्वा कोऽसि कोऽसीति चाब्रुवन् ।
कन्या ऊचुः ।
किमर्थमागतोऽसि त्वं किं ते कार्यं वद प्रभो ॥१३॥
न सन्ति पुरुषा ह्यत्र गच्छ गच्छेति चाब्रुवन् ।
तासां तद्वचनं श्रुत्वा हयस्थो वाचमूचिवान् ॥१४॥
श्रीभगवानुवाच ।
अस्ति कार्यं वरारोहा राजपुत्र्याः समीपके ।
स्त्रिय ऊचुः ।
किं कार्यं वद शीघ्रं ते यत् ते मनसि वर्तते ॥१५॥
क्व ते वासश्च किं नाम का ते माता च कः पिता ।
को भ्राता का च भगिनी किं कुलं गोत्रमेव च ॥१६॥
इति तासां वचः श्रुत्वा न्यगदज्जगदीश्वरः ।
पद्मावतीश्रीनिवासयोः परस्परसंवादः ।
श्रीनिवास उवाच ।
कन्यापेक्षा मुख्यकार्यं तदन्ते प्रवदामि वः ॥१७॥
इति ताः प्रोच्य चोवाच देवीं पद्मावतीमथ ।
सिन्धुपुत्रकुलं प्राहुरस्माकं तु पुराविदः ॥१८॥
जनको वसुदेवस्तु देवकी जननी मम ।
अग्रजः श्वेतकेतुस्तु सुभद्रा भगिनी मम ॥१९॥
पार्थोऽपि मे सखा देवि पाण्डवा मम बान्धवाः ।
षण्णां तु मृतपुत्राणां कृतनाम्नां महात्मनाम् ॥२०॥
वियोगतप्तौ पितरौ सप्तमं राममित्यथ ।
चक्रतुः संस्कृतं नाम्ना पितृलिङ्गमुपागतम् ॥२१॥
जातोऽहमष्टमोऽष्टम्यां सुभद्रा मदनन्तरम् ।
मातृवर्णश्च मे देवि कृष्णपक्षे जनिर्मम ॥२२॥
तस्मात् कृष्णेति मां देवि चक्रतुर्नाम संस्कृतम् ।
वर्णतो नामतश्चापि कृष्णं प्राहुर्मनीषिणः ॥२३॥
वृत्तान्तो ह्यखिलो मत्तो ज्ञेयः पण्डितनन्दिनि ।
युष्माभिरुच्यतां वार्ता गोत्रनामकुलादिकम् ॥२४॥
इति तेन समाज्ञप्ता प्रोवाच नृपनन्दिनी ।
पद्मावत्युवाच ।
आकाशराजतनयां निषादाधिप विद्धि माम् ॥२५॥
नाम्ना पद्मावतीं कृष्ण कुलं शीतकरस्य च ।
अत्रिगोत्रं किरातेन्द्र शीघ्रं गच्छेति चाब्रवीत् ॥२६॥
श्रीनिवास उवाच ।
किमर्थं निष्ठुरं वाक्यं मन्दं किं न प्रभाषसे ।
अन्नं काङ्क्षन्ति वै लोका यो ददाति नरोत्तमः ॥२७॥
स पुमान् पुण्यमाप्नोति जलदोऽपि फलं लभेत् ।
अदिशन् मृदुभाषी च न च निष्ठुरभाषणः ॥२८॥
अथाहं काममुद्दिश्य पात्रभूतोऽस्मि साम्प्रतम् ।
सुखमेष्यसि दानेन त्वन्ते स्वर्गं गमिष्यसि ॥२९॥
आत्मानं दिश मह्यं त्वं किं वृथा निष्ठुरोक्तिभिः ।
सा तस्य वचनं श्रुत्वा क्रोधात्ताम्रविलोचना ॥३०॥
पद्मावत्युवाच ।
अवाच्यं वदसे मूढ जीवनेच्छा न विद्यते ।
आकाशराजस्त्वां दृष्ट्वा हनिष्यति न संशयः ॥३१॥
यावन्नायाति तावत् त्वं गच्छ शीघ्रं स्वमालयम् ।
श्रीनिवास उवाच ।
कार्यान्ते मरणं सौख्यं कार्यहानौ मृतिः कुतः ।
कथं हन्यात् स राजेन्द्रस्त्वधर्माभिमुखो हि माम् ॥३२॥
त्वं कन्याऽहं वरो देवि कोत्रान्यायो महीपतेः ।
पद्मावत्युवाच ।
शृणु मूढ न जानासि बालभावेन किं वृथा ।
त्वां दृष्ट्वाऽकाशराजोऽपि कृत्वा ते गलबन्धनम् ॥३३॥
बध्नीयान्निगडैर्मूर्ख भविष्यत् प्रवदाम्यहम् ।
श्रीनिवास उवाच ।
निश्चित्य मरणं देवि रन्तुकामोऽस्म्यहं त्वया ।
जातस्य मरणं नित्यं पूर्वकर्मफलानुगम् ॥३४॥
आकाशराजो धर्मात्मा कथं हन्यादनागसम् ।
पद्मावत्युवाच ।
गौरवं यन्निषादेन्द्र नृपस्यास्य हरेर्यथा ।
वरदस्याथ रङ्गस्य वेङ्कटाचलवासिनः ॥३५॥
तद् रक्ष त्वं महाबाहो सुखं गच्छ स्वमालयम् ।
इत्युक्तोऽपि तया देव्या निषादेन्द्राकृतिर्हरिः ॥३६॥
निरकृत्य च तद्वाक्यं हयस्थः पुनरापतत् ।
हयमग्रगतं वीक्ष्य सा बाला वाक्यमब्रवीत् ॥३७॥
पद्मावत्युवाच ।
त्यक्त्वा च पितरौ बन्धून् भ्रातृमुख्यान् वने चरन् ।
अनाथो म्रियसे व्यर्थं किमर्थं काकभोजनम् ॥३८॥
इति तस्या वचः श्रुत्वा तामूचे वारिजेक्षणः ।
श्रीनिवास उवाच ।
विधिना लिखितं यत् तु न तद् व्यर्थं भविष्यति ॥३९॥
जयो वाऽपजयो वा स्यात् त्वयि भोगं करोम्यहम् ।
इत्युक्ता कोपताम्राक्षी सखीभिः परिवारिता ॥४०॥
तर्जयन्ती जगद्योनिं शिलापाणिः समागमत् ।
ताडयामास गोविन्दं शिलौघैः शीघ्रगत्वरैः ॥४१॥
ताड्यमानः शिलावर्षैर्न्यपतद् घोटराट् स्वयम् ।
त्यक्तासुं स हयं दृष्ट्वा मुक्तकेशो मुहुर्मुहुः ॥४२॥
पश्यन् पश्यन् दिशः सर्वा अभ्रमद् विभ्रमन्निव ।
हयो वै सङ्कटं प्राप्तो ममात्र कृतसन्निधेः ।
इत्युच्चरन् रमाकान्तो जगामोत्तरदिङ्मुखः ॥४३॥
आरूढ सोपानगणो गिरेर्विभुर्विडम्बयंल्लोकमवाप शय्याम् ।
प्राप्याधिमानन्दयुतोऽपि माधवो यथा युगान्ते वटपत्रशायी ॥४४॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पद्मावतीश्रीनिवासयोः परस्परं संवादादिवर्णनं नाम सप्तमोऽध्यायः ।
अष्टमोऽध्यायः ।
पद्मावतीपराजितश्रीनिवासं प्रति बकुलमालिकासान्त्ववचनम् ।
सूत उवाच ।
शयनं प्राप पर्यङ्के श्रीनिवासो वृषाकपिः ।
तदा गता च सा देवी सेवार्थं बकुला शुभा ॥१॥
षड्विधान्नं समादाय सूपापूपरसान्वितम् ।
रमापतेस्तु बहुलभक्तिभावेन संयुता ॥२॥
शयानं श्रीनिवासं च वल्मीकस्थानसंस्थितम् ।
श्वसन्तं दीर्घनिश्वासं रुदन्तं नेत्रबिन्दुभिः ॥३॥
अभाषमाणं श्रीकान्तं बभाषे बकुला शुभा ।
बकुलोवाच ।
उत्तिष्ठोत्तिष्ठ गोविन्द किं शेषे पुरुषोत्तम ॥४॥
न कदापि दिवाऽस्वाप्सीर्नाकार्षीः रोदनं हरे ।
किमर्थं दुःखमेणाक्ष आर्तवद् दृश्यसे कुतः ॥५॥
मनोगतं वा किं देव तद् वदस्व यथार्थतः ।
परमान्नं कृतं देव भोक्तुमागच्छ माधव ॥६॥
इत्युक्तं वचनं श्रुत्वा नोवाच वचनं हरिः ।
हरिं दृष्ट्वा हिरण्याङ्गी पुनर्वाचमुवाच ह ॥७॥
किं दृष्टं विपिने कृष्ण किमर्थं दुःखमुल्बणम् ।
आर्तिहीनोऽपि देव त्वमार्तवद् दृश्यसे कुतः ॥८॥
मनोगतं वदाऽदेशं गौरवं मयि मा कृथाः ।
गौरवं बलरामे स्याद् देवकीवसुदेवयोः ॥९॥
दुःखं भवति दृष्ट्वा त्वामभुक्तं भूतभावन ।
सर्वलोकार्तिसंहर्तः पुण्यमूर्ते नमोऽस्तु ते ॥१०॥
का दृष्टा कन्यका कृष्ण गान्धर्वी वा सुरोत्तम ।
कस्याः सङ्गं समापेक्ष्य चित्तवैकल्यमद्य ते ॥११॥
का च पुण्यवती बाला बालं भक्तवशं हरिम् ।
मोहयामास कामार्ता न जानामि जगद्गुरो ॥१२॥
वद गोविन्द ते कार्यं क्षणमात्रात् करोम्यहम् ।
मृगं दृष्ट्वा भयं वाऽऽप्तं चोरं वा क्रूररूपिणम् ॥१३॥
पिशाचभूतप्रेतान् वा न जानामि रमापते ।
मन्त्रं वा यन्त्रपूगान् वा मूलिका औषधान्यपि ॥१४॥
कारयित्वा यथाशास्त्रं तत्सर्वं शमयाम्यहम् ।
इत्युक्तेऽपि हरौ तूष्णीं स्थिते बकुलमालिका ॥१५॥
आनीतं तत्र निःक्षिप्य तत्समीपमुपाश्रिता ।
पादसंवाहनं कृत्वा सान्त्वयामास चासकृत् ॥१६॥
सान्त्वयन्त्या तयाऽऽयासस्विन्नं देहं समन्ततः ।
आपादमौलिपर्यन्तं कराभ्यां परिमृज्य च ॥१७॥
बोधितोऽपि रमाकान्तो नोवाच वचनं यदा ।
तदा सा बकुला खेदादुवाच वचनं हरिम् ॥१८॥
पृथक्कृत्वा छन्नवस्त्रं हस्तेन परिमृज्य च ।
देवदेव जगन्नाथ पुराणपुरुषोत्तम ॥१९॥
मनोगतं करिष्यामि नात्र कार्या विचारणा ।
सत्यं वद मनःस्थं ते मा लज्जां मा भयं कृधाः ॥२०॥
पूरयाम्यविलम्बेन यावन्मे वर्तते बलम् ।
इति तद्वचनम् श्रुत्वा हरिरुष्णं समुच्छ्वसन् ॥२१॥
उवाच चातिदुःखेन मन्दं मन्दं मनोगतम् ।
बकुलां प्रति श्रीनिवासोक्तस्वमनोनिर्वेदहेतुवर्णनम् ।
श्रीनिवास उवाच ।
नामोहयन्मां गान्धर्वी नर्षिपुत्री न राक्षसी ॥२२॥
न पिशाचा भूतगणाः प्रेता वा मे भयावहाः ।
मृगाश्चारण्यकाश्चोरा न क्रूरा मे कदाचन ॥२३॥
मन्नामस्मरणादेते विद्रवन्ति दिशो दश ।
ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानघे ॥२४॥
मया दृष्टा वरा कन्या नाम्ना पद्मावती शुभा ।
तां दृष्ट्वा मे मनो भ्रान्तं काममोहवशं गतम् ॥२५॥
सुरूपां सुन्दरीं सुभ्रूं नीलालकविराजिताम् ।
पूर्णेन्दुवदनां श्यामां नीलमाणिक्यविग्रहाम् ॥२६॥
साक्षाद्रमासमां कन्यां घटयाऽशु वरानने ।
बहुजन्मार्जितेनैव पुण्येनैषा हि लभ्यते ॥२७॥
मत्पुण्यं पक्वतां यातं दर्शनेन सुलोचने ।
मानुषं देहमासाद्य तां कन्यां कः पुमांस्त्यजेत् ॥२८॥
लोके विना जडमतिमन्नपानविवर्जितम् ।
जीवनेन किमेतेन कार्यहीनेन मे सखि ॥२९॥
घटयाऽशु वराङ्गीं तामाकाशनृपनन्दिनीम् ।
तां विना न हि जीवामि सत्यमित्यवधारय ॥३०॥
ताडितोऽहं शिलावर्षैर्हताश्वोऽस्मि वरानने ।
मज्जीवनं वृथा मातर्जातं वै वेङ्कटाचले ॥३१॥
यतोऽभूदवतारोऽत्र पद्मावत्यर्थमेव मे ।
पुत्रो मे वैरमापन्नः किं कृतं पूर्वजन्मनि ॥३२॥
दृष्टिहीनेन विधिना निर्मिता कन्यका वरा ।
अनायासेन मे सा स्यादिति मे निश्चिता मतिः ॥३३॥
किं दृष्टं ब्रह्मणा पूर्वं मत्पापं घोरदर्शनम् ।
यत्पापमनुसृत्यैवं घटनं नाकरोद् विधिः ॥३४॥
मद्भागस्थो विधिस्त्वं हि साहाय्यं कुरु मेऽङ्गने ।
न करोषि यदा बाले तदा मे मरणं ध्रुवम् ॥३५॥
मरणे जीवनोपायं ये कुर्वन्ति नरोत्तमाः ।
ते दिवं यान्ति यानेन पुण्यमार्गेण कन्यके ॥३६॥
इत्थं धर्मार्थकामात् त्वं धर्ममार्गमुपाश्रय ।
किमुक्तेन विशेषेण विदिताशाऽसि सङ्गमे ॥३७॥
त्वं मे माता पिता देवि भ्राता मातुल एव च ।
त्वं प्रह्लादस्त्वमक्रूरस्त्वं ध्रुवस्त्वं गजेश्वरः ॥३८॥
त्वमुद्धवोऽतिभक्तो मे त्वं किरीटी बलिस्तथा ।
अजामिलो द्रौपदी च भक्तो मे त्वं बिभीषणः ॥३९॥
त्वां दृष्ट्वा मे मनो हर्षं गच्छतीह निरन्तरम् ।
मद्दुःखव्यपनोदाय निर्मिता विधिनाऽङ्गना ॥४०॥
गवां कोटिसहस्रेण हयानामयुतैस्तथा ।
सुवर्णतिलदानैश्च समं माङ्गल्यवर्धनम् ॥४१॥
कन्यां दृष्ट्वा तु सन्तोषं लभते नात्र संशयः ।
इति तेन समाज्ञप्ता बकुला वाक्यमब्रवीत् ॥४२॥
बकुलोवाच ।
कुत्रास्ते जगदाधार त्वया याऽत्र निरीक्षिता ।
तन्मार्गं वद गोविन्द गच्छामि करुणानिधे ॥४३॥
का सा पूर्वं किमर्थं च कन्यका जनिता भुवि ।
तद्वृत्तमखिलं ब्रूहि सत्येन मम केशव ॥४४॥
इत्याज्ञप्तो विरिञ्चेशविनताङ्घ्रिसरोरुहः ।
उवाच मन्दं वचनं बकुलां धरणीधरः ॥४५॥
बकुलां प्रति श्रीनिवासवर्णितपद्मावतीपूर्वजन्मोदन्तः ।
श्रीनिवास उवाच ।
शृणु बाले पुरावृत्तं पद्मावत्या जनेः शुभम् ।
त्रेतायां रामरूपेण त्ववतारमहं गतः ॥४६॥
पितृमातृवचः श्रुत्वा दण्डकारण्यमागतः ।
लक्ष्मणेन सह भ्रात्रा सीतया बकुले शुभे ॥४७॥
तदा तु रावणो नाम राक्षसो लोककण्टकः ।
लोकभर्तुः सतीं हृत्वा लङ्कां गन्तुमवर्तत ।
लक्ष्मणोऽप्यग्रजं द्रष्टुं सीतया प्रेषितो बलात् ॥४८॥
तत्कालमालक्ष्य स राक्षसेन्द्रो विमानमारोपयितुं हि सीताम् ।
प्रावर्ततैषा च तदा रुराव हा राम हा लक्ष्मण राघवेति ॥४९॥
तदाऽर्तरावेण तदा वनौकसो विचुक्रुशुस्तत्र वनान्तरस्थिताः ।
तद्वाक्यमाकर्ण्य च हव्यवाहनः पाताललोकादुदगाद् धरातलम् ॥५०॥
समायान्तं दुराधर्षमाकर्षन्तं च जानकीम् ।
सम्भाव्य रावणं क्रूरं पातालादुपगम्य च ॥५१॥
रावणेन च पापेन सहितः सीतया तथा ।
रावणं बोधयामास नानावाक्यगणैस्तदा ॥५२॥
इयं जनकपुत्री न विप्रपत्नी तु खेचर ।
राघवस्त्वद्भयाद् रक्षन् जानकीं मम सन्निधौ ॥५३॥
संस्थाप्य विपिने रामो व्यचरत् सहलक्ष्मणः ।
शिष्योऽसि परमोदार मम कल्याण रावण ॥५४॥
प्रियोऽसि मा गमो विप्रपत्न्यां सीताभ्रमं वृथा ।
इति प्रतरयन् रक्षश्छद्मना जनकात्मजाम् ॥५५॥
इत्थं स्वलोकमादाय तां सम्पूजयितुं द्रुतम् ।
स्वाहायां सन्निवेश्याथ नाम्ना वेदवतीं शुभाम् ॥५६॥
प्राग्रावणापचारेण प्रतिश्रुत्य च तद्वधम् ।
कृतप्रवेशां क्रोधेन समिद्धे जातवेदसि ॥५७॥
तत आरभ्य समयमाकाङ्क्षन्तीं स्थितां सतीम् ।
सीताकृतिधरां कृत्वा मायया मेषवाहनः ॥५८॥
प्रदर्शयन्नुवाचाथ रावणं प्रीणयन्निव ।
इमां सीतां समादाय गच्छ शीघ्रं निशाचर ॥५९॥
इत्युक्तः पावकेनायं तमादायागमद् द्रुतम् ।
हरे चाग्नौ विशेषेण भक्तिर्वै रावणस्य च ॥६०॥
तस्मादग्निवचः श्रुत्वा त्वेवं तां जानकीं तदा ।
अज्ञानान्मन्यमानोऽसौ रावणो मोहदर्पितः ॥६१॥
लङ्कां गत्वाऽशोकवने शिंशपावृक्षमूलतः ।
सीताकृतिं तां संस्थाप्य विष्ण्वाविष्टां स राक्षसः ॥६२॥
कृतकृत्यं तदाऽत्मानं मेने वै कालचोदितः ।
रामो गत्वा तु तं हत्वा रावणं सगणं खलम् ॥६३॥
सीतां प्राप्य जगन्नाथो युद्धान्ते पर्यचिन्तयत् ।
तां तु लोकापवादेन पावकेन विशोधिताम् ॥६४॥
जिघृक्षुणा राघवेण सीता चाग्नौ प्रवेशिता ।
सीताद्वन्द्वं तत्र दृष्ट्वा प्रोवाच निजभामिनीम् ॥६५॥
का सा देवी तव समा तव रूपसमन्विता ।
न जानेऽहं वराङ्गीं तां तव बिम्बनिभां शुभाम् ॥६६॥
राघवेणैवमुक्ता सा जानकी वाक्यमब्रवीत् ।
जानक्युवाच ।
मद्दुःखं ह्येतया भुक्तं निर्निमित्तं दयालुना ॥६७॥
या सा वेदवती देव स्वाहायाः सन्निधौ स्थिता ।
तामङ्गीकुरु गोविन्द विवाहविधिपूर्वकम् ॥६८॥
इति सीतावचः श्रुत्वा रामो वचनमब्रवीत् ।
श्रीराम उवाच ।
एकपत्नीव्रतं मेऽद्य कृतं जानासि भामिनि ॥६९॥
द्वापरेऽङ्गीकरोमीति बहूनां वरदो यतः ।
तव वाक्यं करिष्यामि त्वष्टाविंशे कलौ युगे ॥७०॥
तावदेषा ब्रह्मलोके ब्रह्मणा पूजिता भवेत् ।
श्रुत्वैवं रामवाक्यं सा जगाम भवनं विधेः ॥७१॥
पद्मावत्याः कारणं तु भणितं तव सुव्रते ।
न मे वाक्यमसत्यं स्यादिति वेदविदो विदुः ॥७२॥
श्रुत्वा तज्जनने हेतुं बकुलाऽऽनन्दनिर्भरा ।
कौतूहलसमाविष्टा श्रीनिवासमभाषत ॥७३॥
श्रीनिवासानुज्ञया नारायणपुरं प्रति बकुलागमनम् ।
बकुलोवाच ।
गच्छामि राजेन्द्रसभां सभासदो यत्राऽसते सर्वकलाविशारदाः ।
आकाशराजस्य पुरीं सुरोत्तमैः संस्तूयमानां च रमां विगूहिताम् ॥७४॥
इत्येवमुक्तो भगवान् जगद्गुरुः सम्प्रेषयिष्यन् बकुलां स्वकारणात् ।
उत्थाय तल्पस्तिमितान्तरङ्गस्तस्थौ तदानीं भृशहृष्टचेताः ॥७५॥
भुक्त्वाऽन्नमुत्तममसौ बकुलाप्रदत्तमानन्दपूर्णसुमनाः सुरवृन्दवन्द्यः ।
तस्थावलङ्कृतवपुश्च विभूषणौघैर्मुक्ताफलैः सुरुचिरैरथ पुष्पसङ्घैः ॥७६॥
दिव्यां तुरङ्गीमारुह्य निर्मितां देवमायया ।
मार्गं विज्ञातुकामा तमापृच्छ्य बकुलाऽवदत् ॥७७॥
बकुलोवाच ।
मार्गं वद रमाधीश गच्छामि नृपसत्तम ।
श्रीनिवास उवाच ।
अस्मादेव वरान्मार्गादवरुह्य गिरेस्तटात् ॥७८॥
त्वं गच्छाधः प्रदेशे च कापिलं लिङ्गमुत्तमम् ।
तत्रास्ते तीर्थराजो यः कपिलेश्वरसन्निधौ ॥७९॥
तत्र स्नात्वा यथायोग्यं मदर्थे तीर्थपुङ्गवे ।
कपिलेश्वरमासाद्य याच्यतां वरमव्ययम् ॥८०॥
श्रीनिवासेन बालेन सदा कल्याणकाङ्क्षिणा ।
प्रेषिताऽहं तदर्थं वै कुरु मेऽभीप्सितं प्रियम् ॥८१॥
एवमुक्त्वा शिवं देवि ततः पद्मतटं गता ।
तत्र दृष्ट्वा कृष्णरामौ नत्वा तौ भक्तिभावतः ॥८२॥
पद्मतीर्थसमुद्भूतैः कमलैः कमलानने ।
पूजां कुरु मदर्थं तौ भ्रातृभूतौ हि मे मतौ ॥८३॥
सुवर्णमुखरीं तीर्त्वा तत्र गच्छ यथासुखम् ।
उचितं कुरु कल्याणि कन्यार्थे कमलानने ॥८४॥
आज्ञप्ता देवदेवेन त्वित्थं बकुलमालिका ।
जगाम शनकैः शेषशैलादुत्तीर्य चाङ्गना ॥८५॥
यदुक्तं श्रीनिवासेन तं चकार तदाऽबला ।
हयमारुह्य बकुला सुवर्णमुखरीं तदा ॥८६॥
तीर्त्वाऽगस्त्याश्रमं प्राप्य सखीस्तस्या व्यलोकयत् ।
शिवालये शिवं द्रष्टुमागता यास्तु तत्र वै ॥८७॥
तत्र दृष्ट्वा वराः कन्याः का यूयमिति चाब्रवीत् ।
तया सम्भाषिता बाला ऊचुरेनां तथोत्तरम् ॥८८॥
बकुलां प्रति पद्मावतीसखीज्ञापितपद्मावत्युदन्तः ।
कन्या ऊचुः ।
वयमाकाशराजस्य सन्निधानगताः सदा ॥८९॥
इतः पूर्वदिने कञ्चित् पुरुषं तुरगस्थितम् ।
पद्मावत्याः समीपं च सम्प्राप्तं मन्मथाकृतिम् ॥९०॥
दृष्टवत्यो वयं सर्वाः किराताकृतिशोभनम् ।
दृष्ट्वा पद्मावती भीत्या ज्वरतापविमूर्छिता ॥९१॥
तत्तापस्योपशान्त्यर्थं राज्ञाऽज्ञप्ता वयं त्विह ।
अगस्त्येशाभिषेकार्थं वसामोऽद्य समागताः ॥९२॥
इदानीं कन्यकारूपां त्वां तु वीक्षामहे वयम् ।
इति तद्वचनं श्रुत्वा बकुला वाक्यमब्रवीत् ॥९३॥
बकुलोवाच ।
कोऽसौ किरातरूपी च भवतीभिश्च सङ्गतः ।
वदध्वं कन्यकाः सर्वास्तद्वृत्तमखिलं मम ॥९४॥
कन्या ऊचुः ।
पद्मावत्या च सहिताः कदाचिद् वयमागताः ।
पुष्पापचयनं कर्तुमारब्धास्तु वनान्तरे ॥९५॥
तत्र कश्चित् पुमान् प्राप्तो विचित्रतुरगान्वितः ।
अस्मान् प्रत्युदितं तेन ह्यवाच्यवदनं तदा ॥९६॥
तच्छ्रुत्वा तनया राज्ञो रुष्टा वचनमब्रवीत् ।
तयोः कलह आपन्नः कलहे ताडितो हयः ॥९७॥
निपपात तदाऽश्वस्तु शिलाभिर्हतचेतनः ।
स घोटं सम्परित्यज्य जगामोत्तरदिङ्मुखः ॥९८॥
गते किराते कमलोद्भवाऽथ मूर्छामुपागम्य पपात भूमौ ।
कन्यां ततस्तामुपवेश्य याने वयं स्वकं राजपुरं गताः स्म ॥९९॥
तामागतां मानगतां सुतां नृपश्चिन्तामुपागम्य रुरोद दीनः ।
अङ्के निधायात्मसुतां च पश्यन्मुखं मुदा हीनमभाषणं च ॥१००॥
का वाऽभवन्मे दुहितुर्दुरासदा बिभीषिका विश्वविनाशकारिणी ।
तस्या विनाशं न विजानते नरा गुरुं विनेति प्रसमीक्ष्य भूमिपः ॥१०१॥
ततः सुराणां गुरुमात्तकम्पः समानयत् तत्र सुतेन शीघ्रम् ।
शीघ्रं प्रपन्नो नृपमन्दिरं च तद्वाक्यमाकर्ण्य गुरुर्धरातलम् ॥१०२॥
प्राप्तं गुरुं प्राणमिवागतं तदा प्राप्येव पुण्यं परिपक्वमागतम् ।
दत्त्वाऽसनं रत्नमयं समर्पयन् सुसाधनैः सार्घ्यसुपुण्यभोजनैः ॥१०३॥
कृतातिथेयो द्विजमाबभाषे सुतानिमित्तं गगनाभिधो नृपः ।
तद्वाक्यमाकर्ण्य गुरुः सतां पतिः सम्प्रीणयन् वाक्यमुवाच भूपम् ॥१०४॥
बृहस्पतिरुवाच ।
दुहिस्तुस्तव सङ्कष्टनिमित्तं शृणु भूमिप ।
पुष्पार्थं तु गता बाला भीता पुरुषदर्शनात् ॥१०५॥
तस्य शान्तिं प्रवक्ष्यामि श्रूयतामवधानतः ।
कारयन्त्वधुना विप्रा अभिषेकं शिवस्य च ॥१०६॥
अगस्त्येशस्य वै रुद्रैस्त्वमेकादशभिः प्रभो ।
एवमुक्तोऽथ गुरुणा राजा विप्रान् समादिशत् ॥१०७॥
सम्पाद्य सर्वसम्भारान् वयं विप्रसमन्विताः ।
तत्पुत्री ज्वरतापेन शायिता निजमन्दिरे ॥१०८॥
तच्छान्त्यर्थं वयं प्राप्ता अभिषेकार्थमङ्गले ।
धिषणेन समाज्ञप्ता द्विजवर्याः समागताः ॥१०९॥
तस्माद् देशाद् वयं प्राप्ताः कैलासपतिमन्दिरम् ।
गच्छसि त्वं कुत्र बाले किमर्थं त्वमिहागता ॥११०॥
वदादेशमिति स्त्रीभिर्बकुला चोदिताऽब्रवीत् ।
पद्मावतीसखीः प्रति बकुलावेदितस्वागमवृत्तान्तः ।
बकुलोवाच ।
शृण्वन्तु कन्यकाः सर्वा मद्वाक्यमविचारतः ॥१११॥
प्रभावमात्मानुभवस्य विष्णोर्यूयं न जानीथ पुराणपुंसः ।
कृष्णं मुकुन्दं तनयं विदन्त्या वृथा शरीरं पुनरागतं मम ॥११२॥
जगद्विधीशानमहेन्द्रपूर्वं सृजन्नयं मानुषवद् विभाति ।
युष्मान् सहास्माभिरिहान्यदैवतान् सम्प्रार्थयन्तीः स्वशुभं करोत्यसौ ॥११३॥
हरिरेव बलं यस्मात् सर्वार्थानामलं भवेत् ।
ध्रुवं ततो नृणां मोहात् कुपथोऽन्यसमाश्रयः ॥११४॥
हरेर्बममृतं यस्मात् कुपदं च तदाश्रयम् ।
लालयामि ततो मां वै बकुलामवगच्छताम् ॥११५॥
मा मां लालयतीत्येवं मालामप्यवगच्छत ।
अहं श्रीवेङ्कटाधीशदासीभूताऽस्मि साम्प्रतम् ॥११६॥
धरण्याश्च समीपे मे किञ्चित्कार्यं तु वर्तते ।
नारायणपुरं दिव्यमभेद्यं परदेशिभिः ॥११७॥
भवतीसङ्गमात्रेण करिष्यामि प्रवेशनम् ।
इत्थमुक्त्वा स्थिता बाला कन्याभिः सा च सङ्गता ॥११८॥
श्रीनिवासस्य पुल्कसीरूपेण नारायणपुरगमनम् ।
एवं गतायां तस्यां तु न विश्वासमगाद्धरिः ॥११९॥
एकपुत्रो ह्यपुत्रः स्यादेकनेत्रो ह्यनेत्रवान् ।
स्त्रीभिस्तु यत् कृतं कर्म न तत् कार्यं फलप्रदम् ॥१२०॥
इति सञ्चिन्त्य गोविन्दो लीलामानुषविग्रहः ।
स्वयं श्रीवेङ्कटाधीशो वनितारूपमाययौ ॥१२१॥
चीरवस्त्रं ततो बद्ध्वा छिद्रकञ्चुकरञ्जिता ।
ब्रह्माणं च शिशुं कृत्वा यष्टिं कृत्वा महेश्वरम् ॥१२२॥
ब्रह्माण्डं जगदाधारं त्रैगुण्यं गुल्ममेव च ।
आकीर्य केशपुङ्खानि पञ्चाशद्वर्षसंयुता ॥१२३॥
गुञ्जामणिविभूषाङ्गशङ्खबद्धसुहारिका ।
वेणुगुल्मं स्वशिरसि दधाना धान्यपूरितम् ॥१२४॥
लम्बोदरी लम्बकर्णा लम्बितार्धपयोधरा ।
अदन्ता शुष्कवदना तदाऽभूद् धर्मदेवता ॥१२५॥
ब्रह्माणं नाभिसञ्जातं सप्तवासवयोयुतम् ।
रुदन्तं शुष्कवदनं कृशाङ्गी दीर्घबाहुकम् ॥१२६॥
शिशुं बद्ध्वा चीरवस्त्रे नृत्यन्ती जगदीश्वरी ।
यष्टिं धृत्वा करे चागात् सबला धर्मदेवता ॥१२७॥
नारायणपुरं प्राप्ता नारदाब्जजवन्दिता ।
पुरीं समागत्य जगर्ज चेत्थं पतीन् सुतान् बन्धुगणान् ददामि ॥१२८॥
श्रुत्वा वचस्तद्गदितं पुराङ्गना ऊचुस्तदा तां नृपवल्लभां प्रति ॥१२९॥
पुल्कसीरूपधारिभगवता पद्मावतीजनन्याश्चान्योन्यसंवादः ।
ग्रामिकोवाच ।
धर्मदेवी समायाता नरनारायणाश्रमात् ।
वृद्धा सा वर्तते ह्यम्ब मितभाषेव दृश्यते ॥१३०॥
मनोगतं वदामीति वदतीयं पुनः पुनः ।
तमाह्वय महाभागे धर्मदेवीं पतिव्रताम् ॥१३१॥
तामित्थमावेदितचित्तवेदिता विद्यां निजग्रामभवाङ्गनागणैः ।
आह्वापयत् तत्र सखीभिरादरात् सम्प्राप्तभाग्याऽहमिति स्मरन्त्यसौ ॥१३२॥
आज्ञप्ता धरणीदेव्याः सखीभूता वराङ्गनाः ।
ऊचुस्तामग्रगाः सर्वा सबालां धर्मदेवताम् ॥१३३॥
ग्रामिकोवाच ।
याहि मङ्गलदे देवि राजभार्यामिमामिति ।
सा श्रुत्वा वचनं तासां मन्दमाह मनस्विनी ॥१३४॥
धर्मदेव्युवाच ।
अहं दरिद्रा कुटिला सबालाऽभाग्यसंयुता ।
आह्वानं किं विनोदार्थं हास्यार्थं हसिताननाः ॥१३५॥
मद्वस्त्रं पश्यत छिद्रं मदाभरणमण्डलम् ।
नवधान्यसमाकीर्णगुल्मं गुञ्जाविभूषितम् ॥१३६॥
अन्नहीनं शिशुं मां च दृष्ट्वा देव्येति नो ध्रुवम् ।
नागच्छामि विशालाक्ष्यः किं कार्यं राजमन्दिरे ॥१३७॥
धर्मदेवीवचः श्रुत्वा जग्मुस्ता धरणीं प्रति ।
यथोक्तं धर्मदेव्या तु तदाचख्युश्च तां प्रति ॥१३८॥
तासां तद्वचनं श्रुत्वा धरणी तां ययौ स्वयम् ।
उवाच धर्मदेवीं तां धरणी राजसुन्दरी ॥१३९॥
धरण्युवाच ।
एहि भद्रे महाभागे साक्षात् त्वं धर्मदेवता ।
दैवयोगादागताऽसि मम कल्याणवर्धिनी ॥१४०॥
मनोरथो मनःसंस्थस्तथ्यं मे कथ्यतामिति ।
भाषिता राजपत्न्या सा सत्यमाह धरां प्रति ॥१४१॥
धर्मदेव्युवाच ।
कठिनं मम वाक्यं तु शृणु राजन्यवल्लभे ।
मया तु गदितं वाक्यमसत्यं चेन्मनस्विनी ॥१४२॥
पुरान्निष्कास्य मां देवि जिह्वायाश्छेदनं कुरु ।
नरनारायणः स्वामी मद्भर्ता राजसुन्दरि ॥१४३॥
तद्वीर्यजातपुत्रं तु प्रजापतिमिमं विदुः ।
तेनाऽज्ञप्ता त्वदर्थे च सम्प्राप्ता तव मन्दिरम् ॥१४४॥
भूतं भव्यं भविष्यच्च जानामि जगदीश्वरि ।
इत्युक्ता धर्मदेव्या सा राजपत्नी पतिव्रता ॥१४५॥
सुवचोभिः सान्त्वयित्वा धरणी धर्मदेवताम् ।
प्रापयद् भवनं स्वस्याः मन्दं मन्दं मुदाऽन्विता ॥१४६॥
तामादाय गृहं प्राप्य वरं सिंहासनं ददौ ।
सिंहासनगता सा च धर्मदेवी वचोऽब्रवीत् ॥१४७॥
धर्मदेव्युवाच ।
मज्जनं कुरु कल्याणि वस्त्रालङ्कारभूषिता ।
गुरुदेवनमस्कारं कुरु देवि हरिप्रियम् ॥१४८॥
एवमुक्ताऽथ कल्याणी तथा चक्रे यथोदितम् ।
तस्याश्चाभिमुखीभूय पश्चाद् वाक्यमुवाच सा ॥१४९॥
धरण्युवाच ।
किं कार्यं वद भद्रं मे करोमि तव शासनात् ।
पुलिन्दोवाच ।
वायनं देहि कल्याणि देवानां प्रीतिसाधकम् ॥१५०॥
इत्थं पुलिन्दावचनं श्रुत्वा सा धरणी तदा ।
स्वर्णशूर्पं समादाय मुक्तातण्डुलपूरितम् ॥१५१॥
निक्षिप्य पुरतः शीघ्रं धर्मदेवीं वचोऽब्रवीत् ।
धरण्युवाच ।
सत्यं वद महाप्राज्ञे मम दुःखं प्रणोदय ॥१५२॥
धरणीवाक्यमाकर्ण्य धर्मदेवी वचोऽब्रवीत् ।
धर्मदेव्युवाच ।
सत्यं वदामि सुश्रोणि शिशोरन्नं प्रयच्छ मे ॥१५३॥
अहःकृतं रात्रिकृतं सुपक्वरससंयुतम् ।
श्रुत्वा तद्वचनं रम्यं त्वरयाऽऽनीय भामिनी ॥१५४॥
क्षीरान्नं स्वर्णपात्रस्थमर्भकाय ददौ नृप ।
तद् दृष्ट्वा स्वर्णपात्रस्थं मानुषान्नं न भुक्तवान् ॥१५५॥
रुरोद च शिशुस्तस्या धर्मदेव्याः स भूमिप ।
रुदन्तमात्मजं दृष्ट्वा विनिन्द्य च तताड सा ॥१५६॥
दरिद्रोऽसि दुराचार कन्दमूलफलाशनः ।
कथं न भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम् ॥१५७॥
सदाऽपि रोदनं मातः किं करोमीति भूमिप ।
शिशुं तं भर्त्सयित्वाऽथ सम्भोज्यान्नमनुत्तमम् ॥१५८॥
ममोदरगतं चान्नं पुत्रस्य हितकारणम् ।
इत्युक्त्वा सा धर्मदेवी शिशोर्दत्तं नृपोत्तम ॥१५९॥
क्षीरान्नं स्वर्णपात्रस्थं भुक्त्वा स्वस्था तदाऽब्रवीत् ।
सत्यं वदामि सुश्रोणि ताम्बूलं देहि मेऽङ्गने ॥१६०॥
इत्युक्ता धरणीदेवी धर्मदेव्या पुलिन्दया ।
एलालवङ्गकर्पूरनागवल्लीदलैर्युतम् ॥१६१॥
ताम्बूलमर्पयामास पुलिन्दायै पतिव्रता ।
ततः सा प्राङ्मुखीभूत्वा पुत्रमङ्के निधाय च ॥१६२॥
निक्षिप्य पुरतो गुल्मं पादावास्तीर्य संस्थिता ।
एवंरूपं गतं कृष्णं श्रीनिवासं सुरोत्तमाः ॥१६३॥
द्रष्टुकामाः समायाता वैखरीं प्राकृतोचिताम् ।
सम्पश्यन्तस्तस्य खस्थाः सविमानगणास्तथा ॥१६४॥
संलापं चक्रुरन्योन्यं सम्भ्रमात् कौतुकान्विताः ।
किं तया सुकृतं राज्ञ्या कृतं पूर्वं यथाऽधुना ।
लक्ष्मीसहायो भगवान् क्रीडते प्राकृतो यथा ॥१६५॥
एवं हरेश्चित्रविचित्रकर्म गायन्ति कञ्जोद्भवशम्भुशक्राः ।
कलौ युगे पापकृतां नराणां ह्युद्धारणार्था जगदीशचेष्टाः ॥१६६॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य पुलिन्दस्त्रीरूपवर्णनं नामाऽष्टमोऽध्यायः ।
नवमोऽध्यायः ।
धरण्यै पुलिन्दोक्तपद्मावतीदेहशोषणनिवृत्त्युपायः ।
शतानन्द उवाच ।
भोजनान्तेऽस्मरद् देवी देवान् स्वकुलपूजितान् ।
आदौ नारायणं ध्यात्वा पश्चाल्लक्ष्मीं पितामहम् ॥१॥
सरस्वतीमुमाकान्तमुमामिन्द्रमतः परम् ।
शचीमग्नियमाद्यांश्च सदारान् दिक्पतीनथ ॥२॥
देवानृषीन् पितॄन् राजन् गन्धर्वान् राजसत्तमान् ।
काशीशं विश्वनाथं च बिन्दुमाधवमेव च ॥३॥
विष्णुपादं प्रयागं च गोदातीरनिवासिनम् ।
नारसिंहं जगन्नाथं पाण्डुरङ्गमहोबिलम् ॥४॥
पम्पाध्यक्षं विरूपाक्षं श्रीशैलं पुण्यकाननम् ।
श्रीवेङ्कटगिरीशं च कालहस्तीश्वरं हरम् ॥५॥
घटिकाचलसंस्थानं वृद्धाचलनिवासिनम् ।
वरदं सर्वलोकेशं श्रीरङ्गं श्वेतरूपिणम् ॥६॥
कुम्भघोणालयं कृष्णं शार्ङ्गपाणिं महीपते ।
सेतुं रामकृतं राजन् पद्मनाभं जनार्दनम् ॥७॥
सुब्रह्मण्यं कुमाराख्यं मधुसूदनशङ्करौ ।
चन्द्रेश्वरं च गोकर्णं तथा हरिहरौ नृप ॥८॥
गङ्गां गोदावरीं कृष्णां तुङ्गभद्रां मलापहाम् ।
कावेरीं कपिलां क्षीरां सुवर्णमुखरीं तथा ॥९॥
मूकाम्बिकां भैरवं च कालभैरवमेव च ।
कामाक्षीं च विशालाक्षीं मत्स्याक्षीमपि सौख्यदाम् ॥१०॥
सस्मार लोकभावेन चोवाच मधुरं वचः ।
रमे कोल्लापुराध्यक्षे पाहि मां परदेशगाम् ॥११॥
इति स्वकीयभावेन स्मरन्ती धर्मदेवता ।
कृत्वा मौक्तिकराशींस्त्रीन् मध्यराशौ विचिन्त्य ताम् ॥१२॥
हस्ते दत्त्वा परां यष्टि'मेष्वेकमनया स्पृश' ।
इत्युक्तया तया देव्या मध्यराशौ विलोडिते ॥१३॥
भावसाम्यं ततो ज्ञात्वा प्रहृष्टा वाक्यमब्रवीत् ।
धर्मदेव्युवाच ।
वदेयं कारणं देवि दुहिस्तुस्तेऽङ्गशोषणे ॥१४॥
आगतः पुरुषेणास्याः येन केनाप्युपद्रवः ।
इतः पूर्वदिने कञ्चित् पुरुषं तुरगास्थितम् ॥१५॥
दृष्ट्वा मोहवशं याता कामज्वरसुपीडिता ।
शृणु मातः सविस्तारं शपे गुल्मं सपुत्रगम् ॥१६॥
भर्तारं बदरीवासं मातरं पितरं गुरुम् ।
पतिं श्रीवेङ्कटाधीशं कर्तुमिच्छति ते सुता ॥१७॥
तथा भविष्यति शुभं वागियं नान्यथा भवेत् ।
स्वात्मानं तु शपे राज्ञि सत्यमित्यवधारय ॥१८॥
सत्यं वदामि सुश्रोणि ताम्बूलं देहि मेऽङ्गने ।
एलालवङ्गकर्पूरजातीपत्रैः सपूगकैः ॥१९॥
नागवल्लीदलैर्युक्तं पुनर्देहि वरानने ।
इत्युक्ता धरणीदेवी ताम्बूलं पुनरप्यदात् ॥२०॥
पुनरालोचयन्ती सा पुलिन्दा वाक्यमब्रवीत् ।
योऽसौ तुरगमारूढः पुरुषः पूर्वमागतः ॥२१॥
किरातरूपधारी स साक्षान्मन्मथमन्मथः ।
तं दृष्ट्वा मोहमायाता कामज्वरसुपीडिता ॥२२॥
दुहिता तेऽभवद् राज्ञि ततोऽस्या अङ्गशोषणम् ।
तच्छान्त्यर्थं वरारोहे तस्मै सा सम्प्रदीयताम् ॥२३॥
इत्युक्ता धरणीदेवी धर्मदेवीं वचोऽब्रवीत् ।
धरण्युवाच ।
क्वास्ते किरातरूपी स दुहितुर्मेऽङ्गशोषकः ॥२४॥
वद तन्नाम किं भद्रे वरं दास्ये तवेप्सितम् ।
इति पृष्टा धर्मदेवी धरणीं वाक्यमब्रवीत् ॥२५॥
धर्मदेव्युवाच ।
वैकुण्ठस्थो हरिः साक्षाद् वर्तते वेङ्कटाचले ।
श्रीनिवास इति ख्यातो विद्यावान् धनवान् बली ॥२६॥
तस्याश्वं त्वत्सुता बाला ताडयामास चाश्मभिः ।
आरामद्वारनिकटे पतितः स हयोत्तमः ॥२७॥
अश्मभिस्ताडितोऽत्यन्तं विह्वलः पृच्छ तत्सखीः ।
गौरवाद् राजपुत्र्यास्तु क्षमते पुरुषः स तत् ॥२८॥
इति मे सत्यवचनं दत्त्वा तां सुखमेष्यसि ।
अदत्त्वा दुःखमाप्नोषि न मे वाणी मृषा भवेत् ॥२९॥
अदाने दिनमात्रे सा म्रियेत न हि संशयः ।
इति तस्या वचः श्रुत्वा धरणी पुनरब्रवीत् ॥३०॥
धरण्युवाच ।
किं मां वदसि दुर्वाक्यमसत्यं वामलोचने ।
इति तस्या वचः श्रुत्वा पुनराह मनस्विनी ॥३१॥
धर्मदेव्युवाच ।
नासत्यं वचनं देवि मयोक्तं पूर्वमेव तत् ।
इति भीता तद्वचनाद् राज्ञी वाक्यमथाब्रवीत् ॥३२॥
धरण्युवाच ।
अयाचिता मया कन्या कथं देया भविष्यति ।
इति चिन्तापरा राज्ञी धर्मदेवीं वचोऽब्रवीत् ॥३३॥
धर्मदेव्युवाच ।
अद्यैव घटिकान्ते त्वामागमिष्यति काचन ।
अबला बहुवृद्धा च धर्मार्थकुशला भुवि ॥३४॥
मद्वाक्यं विश्वसन्ती त्वं राजानं परिचोदय ।
तोण्डमानं च ते भर्तुर्भ्रातरं ससुहृद्गणम् ॥३५॥
सम्बोध्य साधुमार्गं त्वं समाश्रय नृपप्रिये ।
सन्निधौ मम सङ्कल्पं कुरु कन्यानिमित्तकम् ॥३६॥
धरण्युवाच ।
येन केनाप्युपायेन जीविता स्यात् सुता मम ।
सुतां तस्यैव दास्यामि गिरिगह्वरवासिनः ॥३७॥
धर्मदेव्युवाच ।
एवं चेत् ते सुता राज्ञि जीविष्यति न संशयः ।
पतिर्मे वर्तते यत्र देवि तत्र व्रजाम्यहम् ॥३८॥
इत्युक्त्वा तद्वचः सत्यं द्रष्टुकामा धराऽब्रवीत् ।
धरण्युवाच ।
तदा ते वचनं सत्यं यद्येवं सम्भविष्यति ॥३९॥
इत्युक्ताऽसौ जगामाशु निर्जगाम पुराद् बहिः ।
कक्षे बद्ध्वा सुतं राजन् स्वर्णशूर्पं सगुल्मकम् ॥४०॥
जगामोत्तरमभ्येत्य पुलिन्दा मिथिलेश्वर ।
पुलिन्दायां गतायां तु धरणी वामलोचना ॥४१॥
पुत्र्या निकेतनं प्राप्य रुदन्ती भृशदुःखिता ।
किं ते मनोगतं पुत्रि यत् त्वमिच्छसि तद् वद ॥४२॥
न च मातृसमं मित्रं पुत्रीणामस्ति नन्दिनि ।
किन्नु कार्यमकार्यं वा तन्माचक्ष्व भामिनि ॥४३॥
पूरयामि मनःस्थं च किमर्थं तव शोषणम् ।
अभाग्याहं महाभागे विषपानं करोमि च ॥४४॥
इत्युक्त्वा सा पराधीना दुःखिता रुदिताऽभवत् ।
दुःखितां जननीं दृष्ट्वा मन्दमाह मनोगतम् ॥४५॥
पद्मावत्युवाच ।
किं वदिष्यामि हे मातः सूतिकादुःखमागतम् ।
अथवा पुत्रलाभं किं प्रवदामि निगूढजम् ॥४६॥
नाकृत्यं तादृशं किञ्चिज्जाता क्वापि तु मे वरे ।
काङ्क्षां सम्प्रति तामद्य वक्तुं शक्नोमि न स्वयम् ॥४७॥
तथापि तव वक्ष्यामि मातृत्वाच्छृणु भामिनि ॥४८॥
पद्मावतीकथितभगवल्लक्षणतद्भक्तलक्षणानि ।
त्वयाऽज्ञप्ताऽगमं मातः पुण्यारामं सखीयुता ।
तत्रायातः पुमान् कश्चित् पुराणपुरुषोत्तमः ॥४९॥
मातः स्मरामि तद्वक्त्रं पुण्डरीकनिभेक्षणम् ।
तं विना न हि जीवामि सत्यमित्यवधारय ॥५०॥
चरितं तस्य कृष्णस्य जानन्ति विबुधेश्वराः ।
पातालजाश्च मनुजा न जानन्ति हरिं परम् ॥५१॥
सत्यं सर्वोत्तमः साक्षात् स एव पुरुषोत्तमः ।
दक्षिणं पाणिमाश्रित्य राजते चक्रमुत्तमम् ॥५२॥
तथा सव्ये शङ्खराजो राजते राजवल्लभे ।
यत्कण्ठे कौस्तुभं रत्नं श्रुत्योर्मकरकुण्डले ॥५३॥
यस्य चक्रप्रभावेण दग्धा वाराणसी पुरी ।
यस्य शङ्खध्वनिं श्रुत्वा विद्रवन्त्यसुरादयः ॥५४॥
तद्भक्तलक्षणं वक्ष्ये शृणु मातः सविस्तरम् ।
वेदशास्त्रपरा ये च स्वधर्माचरणे रताः ॥५५॥
वेदोक्तं कर्म कुर्वन्ति तद्भक्तान् विद्धि वैष्णवान् ।
शङ्खचक्राङ्किता ये चाप्यूर्ध्वपुण्ड्रधराश्च ये ॥५६॥
नासत्यवचना ये तु पितृमातृमते स्थिताः ।
तद्भक्तलक्षणं त्वेतत् तं विना को नु जीवति ॥५७॥
तनयावचनं श्रुत्वा सानन्दा वाक्यमब्रवीत् ।
धरण्युवाच ।
सत्यं वद महाप्राज्ञे भ्रमो वा ज्वरकारणम् ॥५८॥
पद्मावत्युवाच ।
सत्यं वदामि मातर्यो दृष्टपूर्वो महाप्रभुः ।
तद्दर्शनधियो मेऽद्य जायते देहशोषणम् ॥५९॥
शतानन्द उवाच ।
सान्त्वयित्वा सुतां भद्रा भर्तुर्भवनमभ्यगात् ।
पाकार्थं परमानन्दा भरिता भाग्यसम्पदा ॥६०॥
पुत्र्यङ्गशोषसङ्क्षुब्धं कृच्छ्रसन्तापसंयुतम् ।
अवदत् स्वपतिं प्राप्य पुत्रीकायविशोषणे ॥६१॥
कारणं धर्मदेव्युक्तमथ तच्छान्तिकारणम् ।
सर्वं सम्बोधयामास पुत्र्या हृद्गतमादरात् ॥६२॥
धरणीशं प्रति पद्मावतीसखीभिः सह बकुलागमनम् ।
एतस्मिन्नेव समये कन्याश्च बहुलान्विताः ॥६३॥
अभिषिच्याप्यगस्त्येशं शङ्करं ब्राह्मणैः सह ।
सम्भाराञ्छिरसा धृत्वा ब्राह्मणैः सुपुरोहितैः ॥६४॥
राजधानीं समासाद्य भर्तुर्भवनमभ्ययुः ।
समागतान् द्विजान् सर्वान् सम्पूज्य विधिपूर्वकम् ॥६५॥
गन्धपुष्पाक्षताद्यैश्च वस्त्रालङ्कारभूषणैः ।
विप्राशीर्वादमान्त्रैश्च मार्जयित्वा स्वकां सुताम् ॥६६॥
अभुङ्क्त च स्वयं राजा ब्राह्मणानामथाऽज्ञया ।
सा भुक्त्वाऽथ महाभागा धरणी बहिरागता ॥६७॥
ददर्श तां महाराज बकुलां नवरूपिणीम् ।
धर्मदेव्या वचः स्मृत्वा तत्समीपमुपागमत् ॥६८॥
पप्रच्छ तास्तदा कन्या एतद्वृत्तान्तकोविदाः ।
धरण्युवाच ।
कैषा कस्मादुपायाता पूज्येव प्रतिभाति मे ॥६९॥
पृच्छ्यतां कन्यका अस्याः किमागमनकारणम् ।
एवमुक्ताः कन्यकास्तु धरणीमब्रुवंस्तदा ॥७०॥
कन्यका ऊचुः ।
वासः पन्नगशैलेऽस्याः स्वामी श्रीवेङ्कटेश्वरः ।
तदाज्ञाकारिका काचिन्नाम्ना बकुलमालिका ॥७१॥
अनया धरणीदेव्याः सन्निधौ मम किञ्चन ।
कार्यमस्तीति कथितं ततस्तु सहितास्तया ॥७२॥
वयं प्राप्ता महाभागे त्वत्समीपमिहाधुना ।
पृच्छ्यतां सैव वृत्तान्तं तदागमनकारणम् ॥७३॥
एवमुक्ताऽथ कल्याणी बकुला समभाषत ।
तिष्ठ भद्रे वरारोहे रत्नपीठे सुनिर्मले ॥७४॥
इत्युक्ताऽऽनन्दभरिता बकुला तत्र संस्थिता ।
मेने कृतार्थमात्मानं साफल्यं जन्मनोऽपि च ॥७५॥
धरण्युवाच ।
स्वागतं ते वरारोहे मम पुण्यसमुच्चयात् ।
मन्ये कृतार्थमात्मानं सफलं साधुसङ्गमात् ॥७६॥
निर्देष्टव्यं भवत्कर्म तदद्य विदधीमहि ।
किमर्थमागमो मातः शीघ्रं तत् कथ्यतामिति ॥७७॥
बभाषे बकुला भार्यां राज्ञस्तस्य महात्मनः ॥७८॥
धरणीं प्रति बकुलोक्तस्वागमनकारणम् ।
बकुलोवाच ।
कन्यापेक्षा मुख्यकार्यं पुनः कार्यशतेन किम् ।
मुख्यकार्यं ततः श्रुत्वा बकुलामब्रवीदिदम् ॥७९॥
धरण्युवाच ।
सम्यगुक्तं त्वया देवि वरापेक्षाऽपि वर्तते ।
को वरः कश्च देशोऽस्य गोत्रं नक्षत्रकं च किम् ॥८०॥
किं नाम जनकश्चास्य माता चापि महात्मनः ।
किं कुलं कोऽस्य चाचारो जातिर्वा तस्य का वद ॥८१॥
कुलाचारादिकं पृष्टा बकुला वाक्यमब्रवीत् ।
बकुलोवाच ।
शृणु राज्ञि सविस्तारं गोत्रं बन्धुजनं तथा ॥८२॥
देवकी जननी तस्य जनकः शूरनन्दनः ।
निशाकरकुलं तस्य नाम कृष्ण इति स्मृतम् ॥८३॥
वसिष्ठगोत्रे चोत्पत्तिर्नक्षत्रं श्रवणं तथा ।
आवासो वेङ्कटगिरिर्विद्यावान् धनवान् बली ॥८४॥
बहुलाचारसम्पन्नो वयसा पञ्चविंशकः ।
पाणिग्रहणकाले तु तं दृष्ट्वा तोषमेष्यसि ॥८५॥
किमत्र बहुनोक्तेन दर्शनात् ते सुखं भवेत् ।
तद्वृत्तमखिलं श्रुत्वा तामाहानन्दनिर्भरा ॥८६॥
धरण्युवाच ।
शङ्का जाता वरारोहे मम ते वचनात् सखि ।
सभाग्यश्च कुलीनश्च बुद्धिमांश्च युवा बली ॥८७॥
वाग्मी चोक्तोऽस्य चैतावद् विवाहो न कुतः कृतः ।
सा तद्वचनमाकर्ण्यानपत्यमनुचिन्त्य तम् ॥८८॥
धैर्येण वचनं प्राह धरणीं राजवल्लभाम् ।
बकुलोवाच ।
कृतवैवाहिको देवि बाल्ये भागीरथीपिता ॥८९॥
तत्रापत्यमनालोक्य द्वितीयं कर्तुमुत्सुकः ।
न दोषमितरं विद्धि श्रीनिवासे निरामये ॥९०॥
तद्वृत्तमखिलं श्रुत्वा समाहूय स्वकं सुतम् ।
नृपमाह्वापयामास धरणी पतिमात्मनः ॥९१॥
एकान्ते राजशार्दूलमिदं वचनमब्रवीत् ।
धरण्युक्त्या वियन्नृपपद्मावत्याश्वासनप्रकारः ।
धरण्युवाच ।
कन्यार्थमागता राजन् बकुला वेङ्कटाचलात् ॥९२॥
सुतं सम्प्रेक्ष्य चापि त्वं स्वपुरोहितमन्त्रिभिः ।
वरस्यापि विचार्याशु कुलविद्याबलादिकम् ॥९३॥
गोत्रर्क्षाद्यानुकूल्यं च ब्राह्मणैर्वेदपारगैः ।
विचार्य वरवध्वोश्च योनिनाडीसुसङ्गतिम् ॥९४॥
सर्वं सम्यक् समालोच्य कन्यादानं कुरु प्रभो ।
कन्यार्थमागता साध्वी दुहितुर्विदितं मनः ॥९५॥
तमेवेच्छति ते पुत्री वेङ्कटाचलवासिनम् ।
धर्मदेवीवचः सत्यं शुभं शीघ्रं विधीयताम् ॥९६॥
इति पत्न्या वचः श्रुत्वा सोऽभूदानन्दनिर्भरः ।
आकाशराज उवाच ।
अहो मङ्गलमस्माकं सम्प्राप्तं पूर्वपुण्यतः ॥९७॥
अस्माकं पितरः सर्वे कृतार्था मुक्तिभागिनः ।
त्वद्वाक्यामृतपानेन रोमहर्षस्तु जायते ॥९८॥
कदा पश्यामि कल्याणं वधूवरसमागतम् ।
सभर्तृकां राजपुत्रीं राजसिंहासने स्थिताम् ॥९९॥
कदा पश्यामि नेत्राभ्यां बन्धुमण्डलमध्यगाम् ।
इत्युक्त्वा भवने चागाद् दुहितुर्दुहितृप्रियः ॥१००॥
नृपः पद्मावतीं प्राह सान्त्वयन् वचसा सुताम् ।
नृप उवाच ।
भद्रे दुःखं मनःस्थं ते त्यज शीघ्रमतः परम् ॥१०१॥
हृदये तव कल्याणि काऽपेक्षा वर्तते वद ।
तामद्याहं करिष्यामि नात्र कार्या विचारणा ॥१०२॥
जनकस्य वचः श्रुत्वा जननीं वाक्यमब्रवीत् ।
पद्मोवाच ।
मातस्ते कथितं सर्वं जनकाय वचो मम ॥१०३॥
समाचक्ष्वाद्य सङ्कोचान्नाहं वक्तुं समुत्सहे ।
पुत्रीगिरं विदित्वा सा भर्तारं वाक्यमब्रवीत् ॥१०४॥
धरण्युवाच ।
साधयस्व महाभाग विवाहं विधिपूर्वकम् ।
विलम्बो नैव कर्तव्यः शुभार्थं तु शुभानन ॥१०५॥
राजोवाच ।
तस्मै दास्यामि कृष्णाय श्रीनिवासाय धीमते ।
इत्याश्वास्य सुतां राजा पुत्रमिन्द्रनिकेतनम् ॥१०६॥
प्रेषयामास राजेन्द्र गुर्वानयनकाङ्क्षया ।
विलिख्य पत्रिकां राजा पुत्रीकल्याणसूचिकाम् ॥१०७॥
सम्प्रेषयामास तदा स्वपुत्रेण वियन्नृपः ॥१०८॥
वियन्नृपाज्ञया धरातलं प्रति बृहस्पत्यागमनम् ।
स गत्वा वायुवेगेन चन्द्रांशत्वात् तु भूमिप ।
अवन्दताऽनन्दपूर्णो गुरुमिन्द्रस्य च क्षणात् ॥१०९॥
सपत्रं राजपुत्रं च समालोक्यागतं गुरुः ।
प्रतिष्ठाप्यासने तं च तेनानीतां तदा शुभाम् ॥११०॥
पपाठ च महाराज पत्रिकां शुभसूचिकाम् ।
तत्क्षणादागमद् राजन् राजानं स पुरोहितः ॥१११॥
प्राप्तं पुरोहितं दृष्ट्वा कृत्वाऽर्चां विधिपूर्वकम् ।
कालोचितं वाचयित्वा वन्दमान उवाच सः ॥११२॥
राजोवाच ।
तवाऽज्ञया करिष्यामि विवाहं दुहितुर्मम ।
श्रीनिवासस्य सम्बन्धो विदितस्य प्रशस्यते ॥११३॥
कन्यार्थमागता साध्वी विदिते गोत्रनामनी ।
तथापि तव वाक्येन विवाहं कर्तुमुत्सहे ॥११४॥
स राज्ञो वचनं श्रुत्वा राजानं प्रत्यभाषत ।
गुरुरुवाच ।
सफलं वृक्षमाश्रित्य जीवन्ति बहवो भुवि ।
तथा वयं च जीवामस्तव भाग्यावलम्बिनः ॥११५॥
अहं कदाचिदेवात्र समागच्छामि भूतलम् ।
न जानामि ततः सम्यक् शुक आश्रितवान् सदा ॥११६॥
स जानाति महाराज स्थितिमेतस्य शार्ङ्गिणः ।
अत्रैवोत्तरदिग्भागे पञ्चक्रोशमिते नृप ॥११७॥
शुकोऽस्ति व्यासतनयः श्रीनिवासपरायणः ।
तमाह्वय महाराज शीघ्रं ते पृथिवीपते ॥११८॥
स वक्ष्यत्यात्मनः सौख्यं वृत्तान्तं तस्य चादितः ॥११९॥
बृहस्पत्युक्त्या वियन्नृपकृतशुकाह्वानम् ।
एवमुक्तोऽथ गुरुणा भ्रातरं ब्राह्मणप्रियम् ।
सन्दिदेश महाराज शुकाश्रममरिन्दमः ॥१२०॥
स गत्वा वायुवेगेन रथेनादित्यवर्चसा ।
ध्यानयोगादुत्थितं तं दृष्ट्वा शुकमुवाच ह ॥१२१॥
तोण्डमानुवाच ।
शृणु तापसशार्दूल वचनं राजभाषितम् ।
पद्मावती विवाहार्हा सम्पन्ना गुरुपूजिता ॥१२२॥
श्रीनिवासाय तां कन्यां प्रदातुं काङ्क्षते नृपः ।
युक्तायुक्तविचिन्तायै गुरुमाहूतवानपि ॥१२३॥
तदर्थमेव चाद्य त्वां समाह्वयति भूमिपः ।
युक्तायुक्ते विचिन्त्याथ लेखितुं शुभपत्रिकाम् ॥१२४॥
अवकाशं च कृत्वाऽद्य गच्छ तन्नगरीं प्रति ।
एवमुक्तो महीदेव महीपालेन भूमिप ॥१२५॥
स सम्भ्रमात् समुत्थाय व्यभ्रमद् विभ्रमन्निव ।
भिन्दन् कमण्डलुं राजंश्छिन्दन् कृष्णमृगत्वचम् ॥१२६॥
विच्छिद्य मणिमालाश्च स ननर्त महामुनिः ।
मुहूर्तमित्थं राजेन्द्र तद्बुद्धिरवशं गता ।
उवाच पश्चाद् राजानं कार्ष्णद्वैपायनिर्मुनिः ॥१२७॥
श्रीशुक उवाच ।
साधूदितं वाक्यमुदारविक्रम त्वया हरेर्वेङ्कटशैलवासिनः ।
कन्याप्रदानं पुरुषार्थसाधनं समस्तलोकस्य पवित्रकारकम् ॥१२८॥
आकाशराजधिषणौ श्रीनिवासकृपाबलात् ।
महादानपरावित्थं भूयास्तां च दिने दिने ॥१२९॥
इत्याशिषा प्रशस्याथ पद्मतीर्थेऽवगाह्य च ।
कृत्वा माध्याह्निकीं सन्ध्यां त्यक्त्वा जीर्णोपबर्हणम् ॥१३०॥
स नवानि कुशाग्राणि निकृत्य मुनिसत्तमः ।
किरीटं बन्धयित्वा तैरुत्तमाङ्गनिबन्धनम् ॥१३१॥
कवचं कल्पयामास कुशाग्रैः कुसुमैस्तथा ।
तुलसीमणिमालाभिः कण्ठकर्णविभूषितः ॥१३२॥
आपादलम्बिकृष्णत्वक्कवचैः समलङ्कृतः ।
अश्वयानेऽधिरोप्यैनं निनाय स नृपानुजः ॥१३३॥
तमायान्तं मुनिं दृष्ट्वा चतुरङ्गबलान्वितः ।
पुरोहितं पुरस्कृत्य कुशमूलफलोदकैः ॥१३४॥
अभियातस्तदा राजा सन्तोषं प्राप सा पुरी ।
यानादुत्तीर्य राजेन्द्र साष्टाङ्गं प्रणिपत्य तम् ।
गजमारोप्य नगरीं सपुरोहित आनयत् ॥१३५॥
निकेतनान्तर्भवने निवेश्य निधिं मुनीनां प्रवरं स राजा ।
सम्पूजयामास विधानवित्तमो विद्यागुरुं ज्ञानगुरुं च नत्वा ॥१३६॥
राजोवाच ।
तापसं परिपप्रच्छ कन्यार्थं धिषणाग्रतः ।
पद्मावतीं प्रदास्यामि भवद्भ्यामनुमोदितः ॥१३७॥
श्रीनिवासाय कृष्णाय निश्चितो हि मया वरः ।
स तद्वचनमाकर्ण्य राजानं राजसत्तम ॥१३८॥
शुकोऽब्रवीद् गिरं पुत्रीकारणात् करुणान्वितः ।
पद्मावतीपरिणयोद्युक्तवियन्नृपं प्रति शुककृतश्लाघाक्रमः ।
श्रीशुक उवाच ।
मा कुरुष्व महाराज सन्देहं दानकर्मणि ॥१३९॥
धन्योऽसि त्वं महीपाल कुलं पावनतां गतम् ।
पितरस्तु दिवं प्राप्ता नात्र कार्या विचारणा ॥१४०॥
किं त्वयाऽऽचरितं पुण्यं पूर्वजन्मनि भूमिप ।
भगवानरविन्दाक्षः श्रीनिवासः सतां गतिः ॥१४१॥
जामातृत्वं समापन्नस्तस्मान्नास्ति तवाधिकः ।
विलम्बो नैव कर्तव्यः शुभं शीघ्रं विधीयताम् ॥१४२॥
वयं धन्याः कृतार्थाः स्मस्तव सङ्गेन भूमिप ।
वयं तु तपसाऽराध्य कन्दमूलफलाशनाः ॥१४३॥
सर्वसङ्गं परित्यज्य न पश्यामोऽत्र तं विभुम् ।
सङ्गतेस्तव पश्यामः श्रीनिवासं श्रिया युतम् ॥१४४॥
सङ्गतिस्तव भद्रा नो भवेज्जन्मनि जन्मनि ।
एवं तमुक्त्वा राजर्षिं तूष्णीमास स तापसः ॥१४५॥
शुकवाक्यं ततः श्रुत्वा स राजाऽऽनन्दनिर्भरः ।
वैयासकेर्वचः श्रुत्वा प्रशशंस प्रजापतिः ॥१४६॥
मन्ये कृतार्थमात्मानं व्यासपुत्र नमोऽस्तु ते ।
ग्रहाणां च गतिस्तात तयोर्योगो विचिन्त्यताम् ॥१४७॥
ऋक्षयोगं गोत्रयोगं पश्य विप्र बलाबलम् ।
इति राज्ञो वचः श्रुत्वा सुराचार्यः ससम्भ्रमम् ॥१४८॥
छायाशास्त्रविधानज्ञो बकुलां वाक्यमब्रवीत् ।
गुरुकृतपद्मावतीश्रीनिवासविवाहयोगाद्यानुकूल्यविचारः ।
बृहस्पतिरुवाच ।
गोत्रं श्रीवेङ्कटेशस्य तन्नामाचक्ष्व भामिनि ॥१४९॥
नक्षत्रं च वरारोहे कथ्यतामिति चाब्रवीत् ।
सा तस्य वचनं श्रुत्वा किञ्चित्कोपान्विताऽब्रवीत् ॥१५०॥
बकुलोवाच ।
ब्राह्मणाः सत्यसम्पनाः कलौ मिथ्याप्रवादिनः ।
जानन्तोऽपि महाराज न वदन्ति हिताहितम् ॥१५१॥
श्रीशुक उवाच ।
अविश्वासश्च विप्रेषु क्षत्रियाणां वरानने ।
धर्मोऽप्यधर्मतामेति ह्यधर्मो धर्मतां गतः ॥१५२॥
तस्मात् त्वया महाभागे कथनीयं हिताहितम् ।
बकुलोवाच ।
नक्षत्रं श्रवणं तस्य गोत्रं वासिष्ठसञ्ज्ञकम् ॥१५३॥
ऊचुः पुरातना मत्स्यकूर्मकृष्णादिरूपिणः ।
राजोवाच ।
गोत्रमत्रेर्महाभाग नक्षर्त्रं मृगशीर्षकम् ॥१५४॥
सीतासत्यादिरूपायाः पद्मावत्या विदुर्बुधाः ।
उभयोर्वचनं श्रुत्वा गुरुर्योगं विचिन्त्य सः ॥१५५॥
हर्षोद्रिक्तमना भूत्वा सत्यमाह महामतिः ।
गुरुरुवाच ।
नाडीकूटं विशेषेण सूत्रकूटं विशेषतः ॥१५६॥
योनिकूटं चानुकूलं ग्रहाश्च शुभदर्शनाः ।
सर्वं विचार्य भूपालः स्वार्थभावं समाश्रितः ॥१५७॥
सम्मन्त्र्य बन्धुमित्राद्यैः कन्यादानं कुरु प्रभो ।
एवं गुरुवचः श्रुत्वा विचार्याशु विचक्षणः ॥१५८॥
भक्त्या परमया राजा स्वार्थभावं समाश्रितः ।
ज्ञातिबान्धवसम्बन्धिसुहृन्मित्रजनैर्युतः ॥१५९॥
मन्त्रं चकार राजेन्द्रः कन्यादाननिमित्तकम् ।
ते सर्वे बन्धुवर्गाश्च राजानं प्रत्यपूजयन् ॥१६०॥
सभां च कारयामास रत्नसिंहासने स्थितः ।
वाचयित्वाऽथ पुण्याहं कन्यानिश्चयकारणात् ॥१६१॥
ताम्बूलं दक्षिणां चादात् पूजयित्वा गणाधिपम् ।
भुजमुद्धृत्य राजेन्द्रः सभामध्ये वचोऽब्रवीत् ॥१६२॥
राजोवाच ।
पद्मावतीं प्रदास्यामि श्रीनिवासाय शार्ङ्गिणे ।
यूयं बन्धुगणाश्चात्र दयां कुरुत मां प्रति ॥१६३॥
प्रतिज्ञामकरोदित्थं कन्यायै वेङ्कटेशितुः ।
स चोवाच महाराजो गुरुं गुरुजनप्रियः ॥१६४॥
राजोवाच ।
किं कार्यं वद विप्रेन्द्र सङ्कल्पानन्तरं मया ।
राजानमब्रवीद् राजन्नङ्गिरा देवतागुरुः ॥१६५॥
बृहस्पतिरुवाच ।
विलिख्य पत्रिकां राजन् श्रीनिवासाय विष्णवे ।
विप्रं प्रेषय राजेन्द्र तस्यागमनकारणात् ॥१६६॥
स्वर्गुरोर्वाक्यमाकर्ण्य राजा गुरुमभाषत ।
राजोवाच ।
किं लेख्यं प्राकृतैर्विद्वन्नप्राकृतशरीरिणः ॥१६७॥
तथापि लेखनीयं यत् तद् ब्रूहि गुरुसत्तम ।
आकाशराजवचनं श्रुत्वा गीष्पतिरादरात् ॥१६८॥
लिखित्वा बोधयामास राज्ञस्तस्य महात्मनः ।
गुरूपदिष्टमार्गेण विलिलेख स पत्रिकाम् ॥१६९॥
श्रीनिवासं प्रति वियन्नृपलिखितविवाहपत्रिकाप्रकारः ।
अप्राकृताय नित्याय सच्चिदानन्दमूर्तये ।
स्वतन्त्रायाद्वितीयायानन्तरूपाय शार्ङ्गिणे ॥१७०॥
भक्तप्रियाय भक्त्यैकवेद्योपादेयरूपिणे ।
देवाधिदेवपूज्याय ब्रह्मपूज्याय विष्णवे ॥१७१॥
श्रीनिवासाय कृष्णाय वेङ्कटाचलवासिने ।
साङ्गैः सर्वैश्च वेदाद्यैरागमैः सपुराणकैः ॥१७२॥
अवेदितानन्तगुणकर्मणे श्रीधराय ते ।
आशीर्वादं करिष्यामि बन्धुत्वात् ते सुरोत्तम ॥१७३॥
त्वत्पादपद्मसंवीक्षाकाम आकाशनामकः ।
त्वदाश्रयं समाकाङ्क्षंल्लेखयाम्यद्य माधव ॥१७४॥
स्त्रीपुत्रभ्रातृभिः साकं सर्वे कुशलिनो वयम् ।
त्वदनुग्रहमात्रेण वसामोऽत्र हरेः पुरे ॥१७५॥
सर्वेषां भवतां क्षेमं पत्रद्वारा निबोधय ।
चैत्रशुक्लत्रयोदश्यामेतत् पत्रं विलिख्यते ॥१७६॥
कन्यां पद्मावतीं तुभ्यं ददामीति मतिर्मम ।
तामङ्गीकुरु गोविन्द विवाहविधिपूर्वकम् ॥१७७॥
शुको वेत्ति गुरुर्वेत्ति हृदयं मम सर्वतः ।
मा कुरुष्वात्र सन्देहं कन्यार्थं पुरुषोत्तम ॥१७८॥
वैशाखशुक्लदशमीभृगुवारे शुभे दिने ।
बन्धुभिः सह सम्प्राप्य मामुद्धृत्य गणैः सह ॥१७९॥
हर्षेण पाणिग्रहणं कर्तव्यं मे मनोगतम् ।
अधिकं लेखनीयं ते किमस्ति पुरुषोत्तम ।
शुको वदति यत् सत्यं तत् सर्वं कुरु केशव ॥१८०॥
इत्याशिषः सन्तु महानुभाव ते समस्तकल्याणगुणार्णव प्रभो ।
नित्याय सत्याय सुखस्वरूपिणे समस्तलोकप्रभवे महात्मने ॥१८१॥
इत्थं लिखित्वा वरपत्रिकां शुभामाकाशराजो जगदीशसन्निधिम् ।
सम्प्रेषयामास शुकं महान्तं सपुत्रमित्रमित्रः सहबान्धवानुगः ॥१८२॥
क्रोशमात्रमुपागम्य शुकं वचनमब्रवीत् ।
राजोवाच ।
येन केन प्रकारेण तस्य चित्तं वशीकुरु ।
अयुतं स्वर्णलक्षं वा कोटिं वाऽर्बुदमेव वा ॥१८३॥
दास्यामि द्रव्यनिचयं नात्र कार्या विचारणा ।
एवमुक्तो महीदेवो गतः शेषाचलं प्रति ॥१८४॥
मध्यं गते दीप्तकरे महात्मा समागतस्तत्र शुकः सशिष्यः ।
हरेर्जनन्याऽनुगतो विरागी तद्दर्शनाह्लादगताध्वशेषः ॥१८५॥
अम्बामवीक्ष्य चायान्तीं वेङ्कटाद्रिशिखामणिः ।
माता च नागता कस्मादिति चिन्तापरो हरिः ॥१८६॥
एतस्मिन्नेव काले तु कृष्णद्वैपायनात्मजम् ।
ददर्श सशिरःपाणिं कृतकार्यविनिश्चयम् ॥१८७॥
शुकं प्राह स्म भक्त्यैव चासनादुत्थितो हरिः ।
श्रीश्रीनिवास उवाच ।
कार्यं मदीयं विप्रेन्द्र पक्वं वाऽपक्वमेव वा ॥१८८॥
श्रीशुक उवाच ।
कार्यं तव कृपासिन्धो पक्वमेव न संशयः ।
शुभं वाक्यमिदं श्रुत्वा दण्डवत् प्रणतं भुवि ॥१८९॥
समालिङ्ग्य शुकं कृष्णो भक्त्या हर्षवशं गतः ।
अतिचित्रचरित्रात्मा शुकमाह महीपते ॥१९०॥
श्रीश्रीनिवास उवाच ।
वदन्ति लोका अनृतान् सहस्रान् विवाहकामा नरजन्मनो ये ।
ते यान्ति मद्धाम किमत्र वाच्यं जगत्कुटुम्बस्य विवाहकामे ॥१९१॥
नरो बिभर्ति स्वसुतं स्वभार्यां स्वजनं गृहम् ।
ब्रह्माण्डं भुवनं विद्वन् ब्रह्मा मे नाभिसम्भवः ॥१९२॥
या लक्ष्मीर्मम कल्याणी ये चान्ये मम चौरसाः ।
चतुर्नवति लक्षाणि जीवाः सन्ति ह्यसङ्ख्यकाः ॥१९३॥
एतेषं रक्षणे बद्धदीक्षोऽहं मुनिसत्तम ।
महाकुटुम्बयुक्तस्य मम कल्याणकारणात् ॥१९४॥
यन्मिथ्या भाषितं स्वामिंस्त्वयाऽद्य मुनिसत्तम ।
त्वत्कृतस्योपकारस्य प्रतिदातुं न विद्यते ॥१९५॥
तथापि तत्र दास्यामि शरीरालिङ्गनं मुने ।
मच्छरीराद् गरिष्ठं तु न विजानामि ते शुभम् ॥१९६॥
एवमुक्त्वाऽङ्गसङ्गं च तस्यादात् पुरुषोत्तमः ।
त्वत्पुण्यस्यावधिर्नास्ति मत्सङ्गस्तव पुण्यजः ॥१९७॥
यथा त्वया कृतं कर्म तथा पूर्वं कपीश्वरः ।
सीतानिमित्तं यः कर्म कृतवान् मारुतात्मजः ॥१९८॥
तस्मै प्रादां महीदेव सन्तुष्टः सहभोजनम् ।
सत्यलोकाधिपत्यं च सीतावार्तावलम्बिने ॥१९९॥
तस्माद् वरिष्ठं ते कर्म मुने तापसपुङ्गव ।
एवमुक्त्वा सुभद्राणि वाक्यानि विविधानि च ॥२००॥
ततः प्रोवाच भगवान् कक्षे किं भाति भानुवत् ।
श्रीश्रीनिवाससन्निधौ वियन्नृपप्रेषितशुकोक्तविवाहोदन्तः ।
श्रीशुक उवाच ।
राजराजेन लिखिता पत्रिका पुरुषोत्तम ॥२०१॥
प्रोक्तं तव महाभाग पूर्वमेवास्य कारणम् ।
इत्युक्तः सन् रमाकान्तः पत्रिकां शिरसा दधौ ॥२०२॥
श्रीश्रीनिवास उवाच ।
कुशली वर्तते राजा भार्या तस्य पतिव्रता ।
भ्राता तस्य महाभागः पुत्रस्तस्य विशां पतेः ॥२०३॥
श्रीशुक उवाच ।
सर्वं तु कुशलं तस्य भगवन् भूतभावन ॥२०४॥
वियन्नृपं प्रति श्रीनिवासविलिखितशुभपत्रिका ।
एवमुक्तः पपाठाथ पत्रिकां पुरुषोत्तमः ।
पठन् हृष्टमना भूत्वा वाचमूचे रमापतिः ॥२०५॥
श्रीश्रीनिवास उवाच ।
पत्रिका लिख्यते विप्र मयाऽऽकाशनृपाय च ।
तद्वाचमनुसृत्यैव राज्ञः प्रीतिविधायिका ॥२०६॥
ततः स पत्रं पुरुहूतमित्रं स्वयं लिलेखाथ महार्थसंयुतम् ।
अत्यन्तसंहृष्टमनःप्रसूचकं कृष्णावतारे प्रति रुक्मिणीमिव ॥२०७॥
राजाधिराजपूज्याय सुधर्मतनयाय च ।
नमो नमोऽति भक्त्यैव कृत्वेयं पत्रिकाऽधुना ॥२०८॥
लिख्यते श्रीनिवासेन शुभविज्ञप्तिगर्भिणी ।
श्रीमद्राजाधिराजेन्द्रकिरीटाघृष्टपादुक ॥२०९॥
अस्मद्बन्धुवरेण्याढ्यगुणपूर्णसमृद्धिमन् ।
नमो नमोऽस्तु ते राजन् श्रीनिवासस्य शार्ङ्गिणः ॥२१०॥
श्रीनिवासेन बालेन विज्ञप्तिः क्रियते त्वियम् ।
भवद्भिर्लिखितं दृष्ट्वा सन्तोषो ह्यभवन्मम ॥२११॥
वैशाखशुद्धदशमीभृगुवारे महोत्सवे ।
अङ्गीकरोमि राजेन्द्र कन्यां तव विशां पते ॥२१२॥
यथा पुरा सागरो मे कन्यादानसुकीर्तिमान् ।
तथा दत्त्वा तु मे कन्यां भवेस्त्वं बहुकीर्तिमान् ॥२१३॥
यथा वै सागरान् पूर्वान् कपिलेन निपातितान् ।
भगीरथो महाराजो गङ्गामादाय वै पुरा ॥२१४॥
उद्धृत्य कीर्तिमापेदे तथा त्वं राजसत्तम ।
दत्त्वा मे सुभगां कन्यां तव पूर्वोत्तरं कुलम् ॥२१५॥
उद्धृत्य बहुलां कीर्तिं लभस्वेतरदुर्लभाम् ।
लिखितव्यं विशेषेण किं तेऽस्ति नृपसत्तम ॥२१६॥
विशेषज्ञोऽसि धर्मात्मा वेत्ति सर्वं शुको मुनिः ।
इति विज्ञापनं ज्ञेयं मम प्रणतिपूर्वकम् ॥२१७॥
इत्थं लिखित्वा वरपत्रिकां शुभां शेषाद्रिनाथो मुनिना शुकेन ।
सम्प्रेषयामास सुरेन्द्रपूज्यं पुरं नृपेन्द्रस्य वियन्नृपस्य ॥२१८॥
श्रीश्रीनिवास उवाच ।
अविदित्वा कुलं गोत्रं नाम संस्थानमन्दिरम् ।
कथं दास्यति राजेन्द्रः कन्यां मम महीसुर ॥२१९॥
श्रीशुक उवाच ।
न कुलं न च गोत्रं ते न जन्ममरणे हरे ।
न जरा न च वृद्धिश्च न च स्थानं न चाश्रयः ॥२२०॥
विडम्बमात्रं गोविन्द कुरुषे पुरुषोत्तम ।
न तेऽपेक्ष्यं कुलं गोत्रं विदितस्य जगत्पतेः ॥२२१॥
मम वाक्याद् वियद्राजः कन्यां ते सम्प्रदास्यति ।
मम वाक्याज्जगन्नाथ दयां कृत्वा वियन्नृपे ॥२२२॥
इयं च क्न्या गोविन्द स्वीकार्या कृपया त्वया ।
श्रीनिवासाज्ञया शुकस्य वियन्नृपनगरं प्रत्यागमनम् ।
इति स्तुत्वा शुकस्तीव्रं विसृष्टो हरिणा पुनः ॥२२३॥
हरिसन्दर्शनाल्लब्धहर्षो राजपुरं ययौ ।
गते तु मुनिशार्दूले भगवान् भक्तवत्सलः ॥२२४॥
मातरं सन्ददर्शाथ मार्गश्रान्तां वयोगताम् ।
बकुलां प्रणिपत्याथ माधवो वाक्यमब्रवीत् ॥२२५॥
श्रीनिवासाय बकुलाकथितपद्मावतीपरिणयोदन्तः ।
श्रीश्रीनिवास उवाच ।
अम्ब कालविलम्बस्ते किमर्थं कमलानने ॥२२६॥
का तत्र वार्ता नगरे तन्मामचक्ष्व भामिनि ।
बकुलोवाच ।
साधिता बहुयत्नेन् कन्या ते पुरुषोत्तम ॥२२७॥
दैवमेव परं मन्ये पौरुषं नैव कारणम् ।
नारायणाश्रमात् कृष्ण धर्मदेवी समागता ॥२२८॥
दैवयोगेन सा भद्रा सम्प्राप्ता राजमन्दिरम् ।
उवाच तां भवद्दानयोग्यां कन्यां नृपात्मजाम् ॥२२९॥
कन्याऽपि त्वदृतेऽन्यं सा नैवाकाङ्क्षति लौकिकम् ।
तयोर्वाक्यं समाकर्ण्य दातुं ते सोऽन्वमन्यत ॥२३०॥
इमां दास्यामहे पुत्रीं वेङ्कटाद्रिनिवासिने ।
इत्थं सङ्कल्पयामास सभामध्ये मुदा नृपः ॥२३१॥
त्वयैव जातमेतद्धि न दैवं भवतः परम् ।
इति मातृवचः श्रुत्वा किञ्चिद्धास्यमुखो हरिः ॥२३२॥
मातरं प्रतिनन्द्याथ चिन्तयन् वाक्यमब्रवीत् ॥२३३॥
इति भविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पद्मावतीपरिणयनिश्चयो नाम नवमोऽध्यायः ।
दशमोऽध्यायः ।
श्रीनिवासाज्ञया ब्रह्माद्यानयनार्थं शेषगरुडगमनम् ।
जनक उवाच ।
मातुर्वचनमाकर्ण्य कृतवान् किं रमापतिः ।
तन्माचक्ष्व भगवन् सविस्तारं सतां प्रिय ॥१॥
शतानन्द उवाच ।
त्वं हरेरसि भक्तेषु प्रथमोऽतिप्रियः सदा ।
तस्माद्धरिकथासक्तमनास्ते तु वदामि तत् ॥२॥
स्वयमानन्दपूर्णोऽपि कर्मभुङ्नरवद्धरिः ।
मात्रा चोदितमाकर्ण्य तामूचे मधुरं वचः ॥३॥
श्रीनिवास उवाच ।
महोत्सवं विधातुं हि मम बुद्धिर्न जायते ।
अबन्धोर्बन्धुयुक्तस्य सम्बन्धो न प्रशस्यते ॥४॥
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥५॥
विवाहश्च विवादश्च समयोरेव शोभते ।
अहमेकः सोऽपि बन्धुसमेतो धरणीपतिः ॥६॥
कथं नृपस्यास्य मयोचितं स्यादबन्धुना बन्धुयुतस्य सङ्गः ।
भवेत् सुखं नेति वदन्ति सन्त इत्यद्य चिन्ता खलु बाधते माम् ॥७॥
बन्धुहीनस्य मे राजा कथं कन्यां प्रदास्यति ।
वासुदेववचः श्रुत्वा बकुला वाक्यमब्रवीत् ॥८॥
बकुलोवाच ।
त्वादृशः पुरुषो लोके नासत्यं वदति क्वचित् ।
सत्यमेव प्रशंसन्ति मुनयो वीतकल्मषाः ॥९॥
शुकस्त्वत्कार्यनिष्ठस्तु देवानां गुरुरङ्गिराः ।
सद्धर्मिणो महीशस्य तस्याशां मा वृथा कुरु ॥१०॥
स्मर बन्धून् सुरान् सर्वान् ब्रह्मरुद्रपुरोगमान् ।
पुत्रान् पौत्रांस्तथा भ्रातॄन् स्नुषाश्च पुरुषोत्तम ॥११॥
तदाऽगतिस्तु गोविन्दं दुर्लभं च कलौ युगे ।
सोऽपि पश्यतु राजर्षिस्त्वत्सम्बन्धिजनानिह ॥१२॥
मातुर्वचनमाकर्ण्य मनसा शेषपक्षिणौ ।
सस्मार पृथिवीपाल श्रीनिवासः सतां गतिः ॥१३॥
तावागतौ शेषवियच्चरौ तदा क्षणेन शेषाचलवल्लभान्तिकम् ।
ददर्श भक्त्या पुरतः स्थिताविमौ निवेदयामास पुराणपूरुषः ॥१४॥
श्रीनिवास उवाच ।
पक्षिराट् गच्छ मे पुत्रं सत्यलोकेश्वरं नृप ।
गच्छाहिभूषणं शेष मम पौत्रमुमापतिम् ॥१५॥
इत्युक्त्वा पत्रिका ताभ्यां विलिख्यादाच्छुभात्मिकाम् ।
प्रणिपत्याथ विश्वेशं खगमार्गेण जग्मतुः ॥१६॥
सत्यलोकं ततो गत्वा ब्रह्माणं भास्करोपमम् ।
दृष्ट्वा नत्वाऽथ भक्त्यैव पक्षिराट् पत्रिकामदात् ॥१७॥
पितामहस्तु तां दृष्ट्वा गरुडं प्रत्यभाषत ।
ब्रह्मोवाच ।
चिरकालेन सम्प्राप्तः पक्षिराट् कश्यपात्मज ॥१८॥
कुत्रास्ति श्रीनिवासः स वासुदेवः पिता मम ।
पितामहवचः श्रुत्वा पक्षिराड् वाक्यमब्रवीत् ॥१९॥
गरुड उवाच ।
वासुदेवो वसत्यङ्ग वैकुण्ठगिरिमूर्धनि ।
तद्विवाहार्थमायान्तं मां विद्धि चतुरानन ॥२०॥
नारायणेन लिखितां पत्रिकामवलोकय ।
पपाठ पत्रिकामित्थं चोदितोऽनेन वै विधिः ॥२१॥
चिरञ्जीवाय पुत्राय ब्रह्मणे नाभिजन्मने ।
श्रीवेङ्कटाद्रिनाथस्य श्रीनिवासस्य मङ्गलाः ॥२२॥
वैदिक्य आशिषः सर्वाः सर्वदा सन्तु पुष्कलाः ।
कलावाकाशराजो मे कन्यादानं करिष्यति ॥२३॥
पत्रिकादर्शनादेव सपुत्रः सपरिग्रहः ।
सलोकपालः सस्त्रीकः सगन्धर्वः सहोरगः ॥२४॥
समागत्याशु कल्याणं दृष्ट्वा गच्छ यथासुखम् ।
पत्रिकार्थमिदं ज्ञात्वा किञ्चिद्ध्यानमुपागतः ॥२५॥
सन्तोषमतुलं लेभे विधिः कल्याणकौतुकी ।
श्रीश्रीनिवासविवाहदर्शनार्थं शेषाचलं प्रति ब्रह्माद्यागमनम् ।
द्वारपालान् समाहूय चेदं वचनमब्रवीत् ॥२६॥
चतुर्मुख उवाच ।
भेरीदुन्दुभयश्चाद्य वाद्यन्तां सर्वतोमुखम् ।
भवद्भिर्मे ख्यापयद्भिर्गमनं धरणीतले ॥२७॥
इत्युक्ता द्वारपालास्ते वाद्यानि समवादयन् ।
ब्रह्माणं प्रणिपत्याथ निदेशज्ञो वचोऽब्रवीत् ॥२८॥
प्रयाणभेरीनिनदः सुमङ्गलः संश्रूयते सर्वजनैः कुतूहलात् ।
कं देशमुद्दिश्य पितामहाद्य सन्ताड्यते वाद्यगणो वदाद्य ॥२९॥
भारतेऽस्मिन् महावर्षे जम्बूद्वीपस्य दक्षिणे ।
शेषाचलं समुद्दिश्य नियुङ्क्ष्व चतुरङ्गिणीम् ॥३०॥
सेनां परां ममेत्युक्त्वा सेनापतिमथाब्रवीत् ।
स्कन्दाह्वय सुरान् सर्वान् सर्वान् दिक्पालकानिति ॥३१॥
सत्यलोकजनान् सर्वान् स्वयमाह पितामहः ।
भवन्तो रसिकाः सर्वे कल्याणार्थं कलौ युगे ॥३२॥
श्रीनिवासस्य कृष्णस्य पितुर्मे पुरुषोत्तमाः ।
समागच्छन्तु सर्वे मे सेनाधीशा मया सह ॥३३॥
इति ब्रह्मवचः श्रुत्वा सेनानाथास्तमब्रुवन् ।
सेनापतय ऊचुः ।
वार्षिकं देहि नो ब्रह्मन्नागच्छामस्त्वया सह ॥३४॥
एवमुक्तो धनं तेषां दत्तवान् स पितामहः ।
वाहनानि विचित्राणि रथांश्च विविधानपि ॥३५॥
भूषणानि च वस्त्राणि रत्नानि विविधानि च ।
पत्नीः सन्देशयामास विवाहार्थं पितामहः ॥३६॥
स्वयमन्तर्गतः श्रीमानात्मानं समभूषयत् ।
दधार शिरसा शीघ्रं किरीटं पश्चिमेन तु ॥३७॥
अन्येन शिरसा धाता रक्तोष्णीषमधारयत् ।
दक्षिणेनोत्तमाङ्गेन शिरोवेष्टमबन्धयत् ॥३८॥
कुशकेतुं कुशश्रेष्ठैर्धृतवानन्यमूर्धनि ।
नीलमौक्तिकवैडूर्ययुते मकरकुण्डले ॥३९॥
कर्णयोर्भूषयामास करौ कनककङ्कणैः ।
कवचं धारयामास नवरत्नसमाकुलम् ॥४०॥
काञ्चीदामसमाबद्धां मुक्तामणिविभूषिताम् ।
सरस्वतीं च सावित्रीं गायत्रीं वै ततः परम् ॥४१॥
पुत्रान् पौत्रांस्तथा सर्वान् सवाजिरथकुञ्जरान् ।
मनःपुत्रान् वीर्यपुत्रान् समाहूय पितामहः ॥४२॥
अलङ्कारयुतान् कृत्वा गमनाभिमुखोऽभवत् ।
स्वसेनां पुरतः कृत्वा नाभिजो निर्ययौ पुरात् ॥४३॥
हंसं चन्द्रप्रतीकाशमारुरोह पितामहः ।
विमानानि विचित्राणि वध्व आरुरुहुस्तदा ॥४४॥
घण्टाचामरनिर्घोषैः सहिता नृप रेजिरे ।
शूरा वीरासना धीरा गजाश्वरथसंस्थिताः ॥४५॥
समुच्छ्रितैर्ध्वजैर्दीर्घपताकैः समलङ्कृताः ।
नानायुधधरा वीरास्तेषां मध्ये पितामहः ॥४६॥
रराज चन्द्रमा राजंस्ताराभिर्गगने यथा ।
श्वेतच्छत्रं हेमदण्डं रत्नकुम्भयुतं धृतम् ॥४७॥
योजनत्रयविस्तीर्णं दशलक्षजनैर्वृतम् ।
नभः प्रकाशयामास देवदेवस्य वै तदा ॥४८॥
अवादयन् महाराज वाद्यानि विविधानि च ।
भेरीश्च नवसाहस्रं दुन्दुभीनां शतत्रयम् ॥४९॥
मृदङ्गपणवान् ढक्कामड्डुनिस्साणडिण्डिमान् ।
गोमुखान् मुरजान् वीणास्तथा वै झर्झरादिकान् ॥५०॥
बर्बरैः शतशृङ्गैश्च दीर्घशृङ्गैश्च सस्वरैः ।
सप्तस्वरैः सप्तरागैः सर्पाणामपि मोहकैः ॥५१॥
फूत्कारैश्च वषट्कारैर्ध्वनयद्भिश्च वारिजान् ।
गन्धर्वैर्गाननिपुणैः स्वरभेदविचक्षणैः ॥५२॥
वीणादण्डस्थसूत्रैश्च वादयद्भिः सुखावहैः ।
नर्तकैर्नटकैश्चैव हाहाहूहूमुखैर्वृतम् ॥५३॥
स्तूयमास्तुम्बुरुणा सूतमागधबन्दिभिः ।
सुराः सर्वे श्रीनिवासमहोत्सवदिदृक्षवः ॥५४॥
अनुजग्मुर्महाराजं ब्रह्माणं यान्तमग्रतः ।
सत्यलोके तपोलोके जनोलोके ततः परम् ॥५५॥
महर्लोके सुवर्लोके स्वर्गलोके महीतले ।
एवं क्रमान्महाभागं ब्रह्माणं ददृशुर्जनाः ॥५६॥
ऋषयः सत्त्वसम्पन्नास्तदात्यद्भुतदर्शनम् ।
वासुदेवसमाकारं वैश्वानरसमाननम् ॥५७॥
ददृशुः सर्वलोकेशं साक्षाद् ब्रह्माणमग्रजम् ।
केचिन्नारायणं तं हि गाम्भीर्यादब्रुवंस्तदा ॥५८॥
केचिन्नारायणो नायं वदनानां विपर्ययात् ।
इत्यब्रुवंस्ततः सर्वे मत्वा तं चतुराननम् ॥५९॥
हंसस्थं भूषणैर्युक्तं कवचाडम्बरान्वितम् ।
अपृच्छंस्ते महीदेवा ब्रह्मणोऽनुचरान् जनान् ॥६०॥
महीदेवा ऊचुः ।
कं वा देशं प्रति जनाः कुतो वा गमनं विधेः ।
जना ऊचुः ।
गच्छामोऽद्य विवाहार्थं श्रीनिवासस्य भूतलम् ॥६१॥
तेनैवाकारिताः सर्वे सत्यलोकान्महीसुराः ।
तच्छ्रुत्वा वचनं तेषामनुजग्मुर्महर्षयः ॥६२॥
साग्निहोत्राः सपुत्राश्च सशिष्याः सपरिग्रहाः ।
एवं विभवमास्थाय ब्रह्माऽगाद् वेङ्कटाचलम् ॥६३॥
वादित्राणां स्वनेनैव दुन्दुभीनां च निःस्वनैः ।
आपूरितं जगदिदं सशैलवनकाननम् ॥६४॥
श्रीनिवासं प्रति चारादिज्ञापितब्रह्मागमनम् ।
एतस्मिन्नेव काले तु भगवाँल्लौकिकैः समः ॥६५॥
अदृष्ट्वा खगराजं तं मातरं वाक्यमब्रवीत् ।
श्रीनिवास उवाच ।
किं नागतोऽम्ब खगराट् पुत्रार्थं प्रेषितो मया ॥६६॥
मार्गे निरोधितः केन किं वा स्यात् कारणं वद ।
एवं वदति गोविन्दे चारो दृष्टिपथं गतः ॥६७॥
चारं दृष्ट्वाऽतिसन्तोषं स लेभे पुरुषोत्तमः ।
श्रीनिवास उवाच ।
क्व चार मम पुत्रस्तु केन वै प्रेषितो भवान् ॥६८॥
चार उवाच ।
आगमिष्यति गोविन्द गङ्गां तरति ते सुतः ।
एवं वदति तच्चारे पुनरेकोऽभ्यभाषत ॥६९॥
द्वितीय उवाच ।
गोदावरीं तरति ते पुत्रः पौरजनैः सह ।
स दूतवचनं श्रुत्वा किञ्चिद्धास्यमुखोऽभवत् ॥७०॥
तदाऽऽजगाम गरुडः पक्षिराड् ब्रह्मचोदितः ।
प्रणिपत्य श्रीनिवासं प्रोवाच स वचस्तदा ॥७१॥
गरुड उवाच ।
कृष्णां तीर्त्वा तु ते पुत्रः श्रीशैलमुपगम्य च ।
अहोबिलं चाससाद तत्राज्ञप्तोऽहमागतः ॥७२॥
इत्येवमुच्यमाने तु गरुडेन महात्मना ।
तत्क्षणेनैव राजेन्द्र विष्वक्सेनोऽभिवन्द्य च ॥७३॥
विनीतो वाक्यमूचेऽथ श्रीनिवासं परात्परम् ।
विष्वक्सेन उवाच ।
तुम्बुरोस्तीर्थमासाद्य हरे तत्रावगाहते ॥७४॥
पुत्रस्तव महाराजः परमात्मा चतुर्मुखः ।
पुत्रस्तवागच्छतीह भवद्दर्शनकौतुकी ॥७५॥
सेनापतौ वदत्येवं भगवानुत्थितो मुदा ।
गरुडस्कन्धमारूढः प्रयाणाभिमुखो हरिः ॥७६॥
उत्तराभिमुखः प्रायात् पुत्रस्नेहेन भूमिप ।
विष्वक्सेनोऽतिवेगेन ब्रह्माणमुपगम्य च ॥७७॥
आनम्य शिरसा भक्त्या प्रोवाच वचनं विधिम् ।
चतुर्मुखश्रीनिवासयोः परस्परप्रयाणावलोकनसंवादः ।
विष्वक्सेन उवाच ।
भगवानरविन्दाक्षस्तव दर्शनलालसः ॥७८॥
गरुडस्कन्धमारुह्य समागच्छति तेऽन्तिकम् ।
तच्छ्रुत्वा वचनं तस्य विष्वक्सेनस्य धीमतः ॥७९॥
चन्द्रबिम्बनिभाद्धंसादवरुह्य पितामहः ।
पादाभ्यामागमच्छीघ्रं यत्रागच्छति केशवः ॥८०॥
स ददर्श महाराज जनकं चतुराननः ।
दण्डवत् प्रणिपत्याथ चाग्रे बद्ध्वा करौ स्थितः ॥८१॥
च चावरुह्य गरुडादाससाद पितामहम् ।
उत्थाप्यालिङ्ग्य चाप्येनमुवाच मधुसूदनः ॥८२॥
श्रीनिवास उवाच ।
उत्तिष्ठ तात भद्रं ते पश्य मामातुरं कृशम् ।
बहुकालेन ते बुद्धिर्मम दर्शनलालसा ॥८३॥
तदेव परमं मन्ये त्वद्बुद्धिर्मम दर्शने ।
कौतूहलं नोपनीता कदाचिदपि येन वै ॥८४॥
न कश्चिद्ध्रियते क्वापि त्वां विना चतुरानन ।
वदत्येवं हृषीकेशे नोवाच चतुराननः ॥८५॥
मुहूर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ।
आनन्दबाष्पसम्पूर्णनयनौ तौ परस्परम् ॥८६॥
स्नेहात् प्रफुल्लवदनौ मुखं ददृशतुर्मुदा ।
पितुर्मुखं सुतोऽपश्यत् सुतवक्त्रं हरिस्तथा ॥८७॥
ततः सन्तुष्टमनसौ लेभाते परमां मुदम् ।
तौ क्रीडन्तौ श्रीनिवासब्रह्माणौ देवसंसदि ॥८८॥
पितापुत्रौ तदा दृष्ट्वा सत्यलोकनिवासिनः ।
लेभिरे परमानन्दं तन्मायामोहिताः सुराः ॥८९॥
देवा ऊचुः ।
न तेन सदृशः पुत्रो न तेन जनको भुवि ।
इत्येवं प्रशशंसुस्ते भक्तिस्नेहवशं गताः ॥९०॥
ततः सुतं समाश्वास्य परिमृज्याक्षिजं जलम् ।
ब्रह्मणः पाणिमुद्धृत्य स्वनेत्रजलमुन्मृजन् ॥९१॥
वल्मीकस्थानमाश्रित्य पुत्रेण सह तस्थिवान् ।
तत्र च श्रीनिवासस्तमुवाच पुरुषोत्तमः ॥९२॥
श्रीभगवानुवाच ।
कच्चित्ते कुशलं तात स्नुषाया मम सम्प्रति ।
पुत्रपौत्रप्रपौत्राणां क्षेमं प्रब्रूहि मे सुत ॥९३॥
ब्रह्मोवाच ।
सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव ।
तात मे वद ते क्षेमं पुराणपुरुषोत्तम ॥९४॥
चतुर्मुखं प्रति श्रीनिवासज्ञापितस्वपरिणयोदन्तः ।
श्रीभगवानुवाच ।
द्वापरान्ते कृतं कर्म शृणु पुत्र समाधिना ॥९५॥
वैकुण्ठे शेषतल्पस्थं भृगुः पादतलेन माम् ।
तताडोरसि ते मातुरास्पदे कमलासन ॥९६॥
तदा ते जननी पुत्र करवीरपुरं गता ।
तेन दुःखेन सन्तप्तस्त्यक्त्वा वैकुण्ठमुत्तमम् ॥९७॥
इहागतो वेङ्कटाद्रिं नात्रापश्यं निकेतनम् ।
अत्र वल्मीकगं नित्यं चोलभृत्यः कुठारतः ॥९८॥
प्राहरन्मां राजभार्याताडितो धेनुकोपतः ।
बृहस्पतेः प्रसादेन जीवामि करुणानिधेः ॥९९॥
अभिवादय कल्याणीं मातरं मम नन्दन ।
इत्युक्तो बकुलां ब्रह्मा ववन्दे हरिमातरम् ॥१००॥
ब्रह्मोवाच ।
जननी तव गोविन्द कुत्रेयं जनिता पुरा ।
एतदाख्याहि भगवञ्छ्रोतुं कौतूहलं हि मे ॥१०१॥
श्रीभगवानुवाच ।
यशोदा बकुला भूत्वा वर्तते वेङ्कटाचले ।
रक्षितोऽहं तया भद्र बहुकालं पितामह ॥१०२॥
आपत्काले तु यो रक्षेत् तं विद्यात् पितरं गुरुम् ।
कदाचिन्मृगयासक्तः पद्मतीर्थसमीपतः ॥१०३॥
आगामहं तत्र पुष्पवने कन्या उपागमन् ।
तासां मध्ये विराजन्ती कन्या काचिदुपागमत् ॥१०४॥
यामाकाशप्रभोः पुत्रीं नाम्ना पद्मावतीं विदुः ।
तामवेक्ष्यातिमोहान्मे मनस्तामेव काङ्क्षते ॥१०५॥
तामेव घटयाशु त्वं पुत्रोऽसि परमो मम ।
वदत्येवं हृषीकेशे शुश्रुवे दुन्दुभिस्वनः ॥१०६॥
श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुद्राद्यागमनम् ।
श्रीभगवानुवाच ।
कस्य वाद्यमिदं ब्रह्मन् कश्च मामुपगच्छति ।
वदत्येवं परे धाम्नि नीलकण्ठोऽन्वपद्यत ॥१०७॥
पितामहं च पितरं ववन्दे वसुधाधिप ।
पार्वत्या षण्मुखेनापि प्रमथाधिपसेवकैः ॥१०८॥
तमालिङ्ग्य हृषीकेशः प्राह शङ्करमागतम् ।
वत्सात्रायाहि निकटं तिष्ठ भद्र वरासने ॥१०९॥
एवं सम्भाषमाणे तु नीलकण्ठेन केशवे ।
ततः समागमत् सद्यः कुबेरो नरवाहनः ॥११०॥
यक्षेन्द्रपुत्रभृत्यैश्च भार्याबन्धुभिरन्वितः ।
तमायान्तमुपालक्ष्य भगवानाह भूमिप ॥१११॥
धनाधिप महाप्राज्ञ धनवान् भव सर्वदा ।
इत्याशिषाऽऽनन्दयति हृषीकेशे धनेश्वरम् ॥११२॥
स्वाहास्वधाभ्यां सहित आरूढो मेषवाहनम् ।
अग्निश्चागात् सपुत्रश्च सबन्धुर्वेङ्कटाचले ॥११३॥
स जातवेदसं दृष्ट्वा जाताह्लादो जगत्पतिः ।
तमालिङ्ग्यातिवेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥११४॥
ततः प्रेतपतिश्चापि स्वदूतैश्च स्वभार्यया ।
स्ववाहनं समारुह्य प्राप शेषगिरिं स्वयम् ॥११५॥
चित्रगुप्तो महाप्राज्ञः सम्प्राप्तो राजसत्तमम् ।
ततो जलपतिश्चागान्नक्रमारुह्य भक्तिमान् ॥११६॥
भार्यया बहुरत्नाढ्यो नारायणगिरिं प्रति ।
आरुह्य गजराजं स्वमिन्द्रः साक्षाच्छचीपतिः ॥११७॥
भोगिराजगिरिं राजन् सर्वभोगालयो महान् ।
पौलोम्या सह पुत्रेण सम्प्राप्तस्त्रिदशेश्वरः ।
यथार्हं श्रीनिवासेन सत्कृतो निषसाद च ॥११८॥
एवं समारुह्य च भारतीयुतः सुगन्धयुक्तः समुपाययौ गिरिम् ।
भक्तोऽथ वायुस्तमिमं जनार्दनः क्षेमं च पप्रच्छ तदा मुदाऽन्वितः ॥११९॥
स्थीयतामिति राजेन्द्र हरिर्वायुमभाषत ।
एतस्मिन्नेव काले तु सम्प्राप्तौ चन्द्रभास्करौ ॥१२०॥
मन्मथोऽप्यागमद् भूप सरतिस्तुरगोपरि ।
मुनयश्च महाराज समाजग्मुर्महागिरिम् ॥१२१॥
कश्यपोऽत्रिर्भरद्वाजो वामदेवश्च गौतमः ।
विश्वामित्रो वसिष्ठश्च वाल्मीकिर्जमदग्निजः ॥१२२॥
पुलस्त्यश्च दधीचिश्च शुनःशेपश्च गालवः ।
गार्ग्यः कृष्णो महाराज सपुत्राः सपरिग्रहाः ॥१२३॥
गन्धर्वाप्सरश्चैव सर्वे सिद्धाः सहोरगाः ।
एवं महर्षयो देवा राजानश्च समागताः ॥१२४॥
विवाहार्थं समाजग्मुः सर्वे सम्भ्रमकातराः ।
समाश्वास्याथ गोविन्दो यथायोग्यं तदा नृप ॥१२५॥
स्थीयतामिति चोवाच सर्वेषां पुरतो हरिः ।
ब्रह्माज्ञया विश्वकर्मकृतपरिणयार्हपुरनिर्माणक्रमः ।
ततोऽभूद् वासुदेवस्य विश्वकर्माऽक्षिगोचरः ॥१२६॥
तमालोक्य हृषीकेश इन्द्रमाह स्म मन्युमान् ।
इन्द्रास्य गर्वबाहुल्यं पश्य विश्वकृतोऽधुना ॥१२७॥
भ्रातुर्बाहुबलादेष न जानाति हिताहितम् ।
यथाऽन्यान् पश्यति सुरांस्तथा मामपि पश्यति ॥१२८॥
साधु जातं सुरश्रेष्ठ त्यजैनमसमञ्जसम् ।
अन्यं शालाकर्मरतं शुद्धं मद्भक्तिसंयुतम् ॥१२९॥
नियोजय सुरश्रेष्ठ देवतागृहकर्मणि ।
इत्यप्रियं वचः श्रुत्वा विश्वकर्मा नरेश्वर ॥१३०॥
प्रणिपत्याह गोविन्दं वर्धकी भयविह्वलः ।
वर्धक्युवाच ।
भगवंस्त्वदभीष्टं यदज्ञानान्न मया कृतम् ॥१३१॥
क्षमस्व मम दौरात्म्यं भगवन् करुणानिधे ।
देवादिदेव देवेश स्वल्पस्य मम कारणात् ॥१३२॥
इयान् कोपः किमर्थं ते सञ्जातो भगवन् हरे ।
एवं सम्प्रार्थितः शक्रं श्रीनिवास उवाच ह ॥१३३॥
सभां कारय देवेन्द्र देवार्थं मुनिकारणात् ।
पञ्चाशद्योजनगणविशालां सुमनोहराम् ॥१३४॥
सुविचित्रां च महतीं त्रिंशद्योजनमायताम् ।
इत्येवं शासितः शक्रस्तेन वर्धकिना तदा ॥१३५॥
कारयामास विपुलां विचित्रां महतीं सभाम् ।
चक्रे शक्राज्ञया तत्र विश्वकर्मा ममाग्रजः ॥१३६॥
अनन्तरं वाक्यमूचे शतक्रतुमनामयम् ।
श्रीभगवानुवाच ।
आकाशराजनगरं शीघ्रं गच्छ शचीपते ॥१३७॥
राजानं सान्त्ववचनैः कार्ये कर्मणि बोधय ।
तत्राप्यनेन कर्तव्यं सभागेहादि कारय ॥१३८॥
वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ।
जगाम राजनगरं सहितो विश्वकर्मणा ॥१३९॥
विस्तार्य नगरं राज्ञः परितो बहुयोजनम् ।
सञ्छिद्य च महाराज वनानि गिरिगह्वरान् ॥१४०॥
विषमां च समां चक्रे धरां तां धरणीपते ।
गृहाणि च विचित्राणि सभाश्च पटमण्डपान् ॥१४१॥
कल्याणवेदीं स ददर्श रत्नसम्पूर्णकक्षैः सुकृतां विचित्राम् ।
स्तम्भैर्युतां मौक्तिकरत्ननिर्मितैर्नारायणस्यैव नृपेण निर्मिताम् ॥१४२॥
वासुदेवस्य भवनं वासवो विश्वकर्मणा ।
कारयामास राजेन्द्र सरत्नस्तम्भगोपुरम् ॥१४३॥
धनधान्यसमाकीर्णं रत्नतोरणमण्डितम् ।
वापीकूपशतं वाजिगजानां भवनं तथा ॥१४४॥
वासवे तु गते राजन् वासुदेवोऽवदत् सुरान् ॥१४५॥
देवादिकृतपरिणयार्थं भगवत्प्रार्थनाभ्युपगमः ।
श्रीभगवानुवाच ।
आकाशराजस्य सुताऽस्ति या सुराः इच्छामि कर्तुं किल तत्करग्रहम् ।
अङ्गीकृतं चेद् भवदीयमण्डलैरङ्गीकरोम्यद्य तु राजकन्यकाम् ॥१४६॥
वासुदेववचः श्रुत्वा वासुदेवात्मजादिकाः ।
वाक्यमाहुर्महाराज वासुदेवपरायणाः ॥१४७॥
ब्रह्मादिदेवा ऊचुः ।
वयं तु दासभावेन तिष्ठामः पुरुषोत्तम ।
त्वत्प्रसादाद् वयं सर्वे पश्यामोऽत्र महोत्सवम् ॥१४८॥
शङ्कर उवाच ।
विनोदवचनं कृष्ण भाषसे प्राकृतो यथा ।
मनसस्ते प्रशस्तं चेत् क्रियतामिति चाब्रवीत् ॥१४९॥
शङ्करस्य वचः श्रुत्वा प्रशशंस हसन् हरिः ।
ततश्चतुर्मुखः प्राह शेषाचलपतिं प्रति ॥१५०॥
ब्रह्मोवाच ।
सर्वज्ञस्त्वं दयासार सत्यसङ्कल्पवानसि ।
अष्टवर्गं ततः कार्यं विवाहात् पूर्वमेव हि ॥१५१॥
तस्मादाज्ञां देहि मम पुण्याहे पुरुषोत्तम ।
स पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् ॥१५२॥
वसिष्ठादीन् प्रति भगवत्कृतविवाहकार्यनियोजनप्रकारः ।
वसिष्ठं च महाभागं पौरोहित्ये न्ययोजयत् ।
यजुःशाखामहामन्त्रैः कर्तव्यं स्वस्तिवाचनम् ॥१५३॥
सर्वेषामपि देवानां यजमानो भवानिति ।
देवानां च ऋषीणां च मानने शङ्करं न्यधात् ॥१५४॥
देवाह्वाने कुमारं तु प्रत्युत्थाने च मन्मथम् ।
दत्वा तेषां वीटिकां तु कृष्णवर्त्मानमाह्वयत् ॥१५५॥
गृहाण त्वं वीटिकां च पाकार्थं हव्यवाहन ।
ऋषीणां सर्वदेवानां तव पाकस्तु सम्मतः ॥१५६॥
तस्मात् पाकं कुरुष्व त्वं स्वधास्वाहासमन्वितः ।
इति शिष्टो यज्ञमूर्तिस्तथाऽस्त्वित्यब्रवीद्धरिम् ॥१५७॥
ततः स प्राह वरुणं जलार्थं सर्वदेहिनाम् ।
दुष्टानां दण्डने राजञ्छिष्टानां परिपालने ॥१५८॥
यमं स कल्पयामास सुगन्धे वायुमादिशत् ।
धनदाने ब्राह्मणार्थे वस्त्रालङ्कारदापने ॥१५९॥
कुबेरं योजयामास भगवान् नृपसत्तम ।
प्रदीपधारणे राजन् निशाकरमयोजयत् ॥१६०॥
वसून् सन्देशयामास भाण्डानां शुद्धिकारणात् ।
ग्रहांश्च द्रोणपात्रेषु न्ययोजयदरिन्दम ॥१६१॥
एवं संशासिताः सर्वे पुराणपुरुषेण च ।
आज्ञामादाय तेऽभूवन् सर्वे स्वस्थाः स्वकर्मसु ॥१६२॥
ततो वाक्यमुवाचेदं ब्रह्मा लोकपितामहः ।
ब्रह्मोवाच ।
मज्जनं कुरु गोविन्द मङ्गलं मधुसूदन ॥१६३॥
पुण्याहपूर्वकर्माणि स्वेष्टदेवप्रपूजनम् ।
कुलदेवप्रतिष्ठां च साङ्गं कुरु रमापते ॥१६४॥
विवाहार्थं करवीराद् रमाह्वापनम् ।
स पुत्रवचनं श्रुत्वा सस्मार जगदीश्वरः ॥१६५॥
रमां राजीवनयनां करवीरपुरालयाम् ।
मत्वा वियोगिनीं राजन् दुःखितः सुरसत्तमः ॥१६६॥
रुरोद लोकरीत्यैव भगवाँल्लौकिकैः समः ।
न शोभते सभा दिव्या तया विरहिता सुत ॥१६७॥
भवानहं महाप्राज्ञ देवाश्च सपरिग्रहाः ।
न शोभन्ते यथाऽऽकाशे तारास्तारापतिं विना ॥१६८॥
अपादपं यथाऽरण्यं अपक्षाश्च विहङ्गमाः ।
अफलाश्च यथा वृक्षा अधनाः सुहृदो यथा ॥१६९॥
तथा वयं महाप्राज्ञ रहिता रमया तया ।
वासुदेववचः श्रुत्वा वासुदेवमभाषत ॥१७०॥
शङ्करः पृथिवीपाल समुत्तिष्ठन् महाभुजः ।
शङ्कर उवाच ।
किमर्थं रोदनं तात किं ते कार्यं विडम्बनम् ॥१७१॥
असङ्गस्याप्रमेयस्य चाक्रूरवरदस्य च ।
अक्लेशकस्य देवेश किमर्थं रोदनं वृथा ॥१७२॥
स च तद्वचनं श्रुत्वा नीलकण्ठमभाषत ।
श्रीभगवानुवाच ।
त्वं न जानासि भोः शम्भो बालभावेन पौत्रक ॥१७३॥
यदा ब्रह्माऽवसाने च न किञ्चिदवशिष्यते ।
तदा क्षीरोदके शम्भो निरालम्बे निराश्रये ॥१७४॥
सा मे शय्या सखी भूत्वा क्रीडते हितकारिणी ।
एतादृशीं विना शम्भो मम सौख्यं कथं भवेत् ॥१७५॥
वदत्येवं जगन्नाथे वेधा वाक्यमभाषत ।
ब्रह्मोवाच ।
नोक्तं त्वयेदं गोविन्द पूर्वमेव जनार्दन ॥१७६॥
अद्य मां कमलानाथ रमाह्वाने नियोजय ।
सोऽपि पुत्रवचः श्रुत्वा द्युमणिं शीघ्रमाह्वयत् ॥१७७॥
षण्मुखेन महाराज सोऽपि तत्र समागतः ।
ननाम भक्त्या स्तुत्वाऽथ प्राञ्जलिः सम्मुखे स्थितः ॥१७८॥
भास्करं भक्तिनम्राङ्गं भगवानाह हृद्गतम् ।
भगवदुक्त्या रमानयनाय करवीरपुरं प्रति सूर्यगमनम् ।
श्रीश्रीनिवास उवाच ।
शृगालवासुदेवस्य नगरं गच्छ भानुमन् ॥१७९॥
तत्रास्ते जगतां माता तामानय ममान्तिकम् ।
भारतीं वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः ॥१८०॥
विनयेन समायुक्तः शिरसाऽऽनम्य चावदत् ।
भानुरुवाच ।
कथं तां लोकजननीमानयिष्ये तवान्तिकम् ॥१८१॥
तन्ममाचक्ष्व गोविन्द कथं मां विश्वसेद् रमा ।
श्रीभगवानुवाच ।
अस्ति तस्यास्त्वयि स्नेहः सदा लोकमहोदये ॥१८२॥
त्वदागमनसंहृष्टा समायाति ममान्तिकम् ।
उपायं प्रवदिष्यामि तदागमनकर्मणि ॥१८३॥
अश्रु मुञ्चन्नपमृजंस्तद्वारि कुरु संस्थितिम् ।
त्वां तु दृष्ट्वा जगन्माता सान्त्वयिष्यति भानुमन् ॥१८४॥
एवं वदन्ती वाक्यं त्वां किञ्चिद्दुःखसमाकुला ।
शासनं ते हृतं केन धरण्यां कथ्यतामिति ॥१८५॥
त्वं समाचक्ष्व तां देवीमित्थमत्यन्तदुःखितः ।
न शासनं हृतं मेऽद्य मातः केनापि भूतले ॥१८६॥
शयनं तु कृतं तेन तव भर्त्राऽद्य भूतले ।
येन वै शासनं दत्तं मातर्मे कृपयेदृशम् ॥१८७॥
निश्चेतनोऽद्य पतितो भर्ता जीवति ते न वा ।
भर्ता तव जगन्नाथस्त्वशक्तोऽद्य विभाति मे ॥१८८॥
कदा द्रक्ष्यामि देवीं तामित्यास्ते प्रलपन्निति ।
सा त्वद्वचनमाकर्ण्य समायाति न संशयः ॥१८९॥
उपायं तु ततः श्रुत्वा किञ्चिद्धास्यमुखान्वितः ।
बभाषे भक्तिनम्राङ्गो भयभक्तिसमन्वितः ॥१९०॥
सर्वज्ञा सर्वलोकेषु विश्रुता कमलालया ।
जानाति हृद्गतं सर्वं कथं मां विश्वसेद् विभो ॥१९१॥
अरोगस्य च रोगं हि कथं वक्ष्यामि ते हरे ।
स भानोर्वचनं श्रुत्वा भानुमाह मनोगतम् ॥१९२॥
श्रीभगवानुवाच ।
मन्मायया मोहिता सा भविष्यति न संशयः ।
इत्युक्तः प्रणिपत्याथ वासुदेवं रथे स्थितः ॥१९३॥
करवीरपुरं गत्वा यथोक्तं तत् तथाऽकरोत् ॥१९४॥
करवीरपुराच्छेषाचलं प्रति रमागमनम् ।
सा तद्वचनमाकर्ण्य यथाऽदेशं तदा रमा ।
रथमारुह्य खेदेन भानुवाक्यादरेण सा ॥१९५॥
सम्प्राप्ता वायुवेगेन रवियुक्ता रमापतिम् ।
तदागमनवार्तां च श्रुत्वा तस्मिन् क्षणे हरिः ॥१९६॥
जगाम दर्शनापेक्षी ह्यशक्त इव सम्मुखम् ।
तादृशीमाकृतिं प्राप्य तदद्भुतमिवाकरोत् ॥१९७॥
देवानां पूर्वदेवानां मुनीनामूर्ध्वरेतसाम् ।
भुजे भुजङ्गभूषस्य वामं संस्थाप्य वै भुजम् ॥१९८॥
तथाऽपरं ब्रह्मकण्ठे निधायागाद् भुजं स्वभूः ।
एवम्भूतं श्रीनिवासं ददर्श कमलालया ॥१९९॥
रथादुत्तीर्य वेगेन किञ्चिद्धास्यमुखाम्बुजा ।
चाम्पकं पुष्पनिचयं विकीर्य पदपङ्कजे ॥२००॥
समालिङ्ग्यातिभक्त्यैव मुहूर्तद्वयमास्थिता ।
तदालिङ्गनमात्रेण पुष्टाङ्गो विष्टरश्रवाः ॥२०१॥
कुशलं परिपप्रच्छ तस्याः साऽपि हरेस्तदा ।
पितरौ सर्वलोकानां रमानारायणावुभौ ॥२०२॥
सम्प्राप्तौ स्वस्थतां राजन् सर्वदेवनमस्कृतौ ।
रमायै श्रीनिवासकथितपद्मावतीपरिणयोदन्तः ।
श्रीरमोवाच ।
मां मोहयति गोविन्द तव माया दुरत्यया ॥२०३॥
भानुना मयि गोविन्द कर्म चित्रं त्वया कृतम् ।
त्वन्मायामोहिताः सर्वे ब्रह्मेशानादयः सुराः ॥२०४॥
वदाऽदेशं वासुदेव ममाद्याऽह्वानकारणम् ।
स रमावचनं श्रुत्वा साध्वीमाह महीपते ॥२०५॥
श्रीनिवास उवाच ।
त्वया रामावतारे तु कथितं स्मर भामिनि ।
वेदवत्या विवाहस्य सम्प्राप्तः काल एष वै ॥२०६॥
त्वत्सन्निधौ वोढुमेनां कामयेहं कलौ युगे ।
वदत्येवं हृषीकेशे साऽस्मरत् पूर्विकां गिरम् ॥२०७॥
श्रीरमोवाच ।
तामङ्गीकुरु गोविन्द विवाहे विधिपूर्वकम् ।
इति मे वचनं कृष्ण सफलं कुरु वत्सल ॥२०८॥
इत्युक्त्वा श्रीनिवासं सा ननाम च मुदान्विता ।
हरिस्तु लोकजननीमानन्दयदुदारधीः ॥२०९॥
स रमागिरमाकर्ण्य परिपूर्णमनोरथः ।
परमानन्दसम्पूर्ण उरगाद्रौ व्यराजत ॥२१०॥
सन्तोषसंसूचकसर्वगात्र आनन्दबाष्पेण समृद्धनेत्रः ।
ब्रह्मादिदेवैर्नुतसच्चरित्रस्तदा बभौ वेङ्कटशैलमित्रः ॥२११॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य वेदवतीविवाहाय बन्धुलक्ष्याम्याद्यागमनं नाम दशमोऽद्यायः ।
एकादशोऽध्यायः ।
भगवतः पद्माकारितपरिणयार्हमङ्गलाभिषेकक्रमः ।
जनक उवाच ।
ततः किमकरोत् कृष्णः श्रीनिवासं सतां गतिः ।
तन्ममाचक्ष्व भगवन् विस्तरेण महामुने ॥१॥
शतानन्द उवाच ।
श्रीलक्ष्मीसहितः श्रीमाञ्छ्रीनिवासः पितामहम् ।
अब्रवीत् प्रीतमनसा प्रयुञ्जानः प्रयोजने ॥२॥
श्रीनिवास उवाच ।
कर्माणि पुत्र कार्याणि कुरु शीघ्रमतन्द्रितः ।
स तद्वचनमाकर्ण्य ससन्तोषः पितामहः ॥३॥
कटाहभाण्डनिचयमानेतुं प्रैषयत् सुरान् ।
गरुडप्रमुखान् वीरान् नारायणपरायणान् ॥४॥
ते तस्य वचनं श्रुत्वा क्षणेन गरुडादयः ।
कटाहादीन् गृहीत्वाऽथ समाजग्मुरनेकधा ॥५॥
अपूरयत् ततस्तेषु स वायुः सलिलाधिपः ।
सुगन्धं तोयनिचयं दिव्यतीर्थोद्भवं शुभम् ॥६॥
ततः सर्वाः सुवासिन्यो वस्त्रालङ्कारमण्डिताः ।
अरुन्धतीं पुरस्कृत्य कृतमङ्गलकौतुकाः ॥७॥
सदीपकलशान् राजन् पार्वतीप्रमुखाः स्त्रियः ।
चक्रुः समन्तान्मङ्गल्यान् ससावित्रीपुरोगमाः ॥८॥
गायन्त्यः शुभगानानि निरातङ्ककृतं तथा ।
कृष्णावतारविभवं गायन्त्यश्चामराङ्गनाः ॥९॥
सिद्धाङ्गनाश्च राजेन्द्र तस्थुर्वैखानसाङ्गनाः ।
एवं प्रवृत्ते पुण्येऽस्मिन् विवाहे वेङ्कटेशितुः ॥१०॥
स्नुषाश्च वासुदेवस्य जहसुश्चारुलोचनाः ।
श्वश्रूं च पुरतः कृत्वा मातरं बकुलां हरेः ॥११॥
एवं महोत्सवस्तत्र समभूत् सप्तमीदिने ।
चतुर्दिक्षु च संस्थाप्य कलषान् जलपूरितान् ॥१२॥
सूत्रेण वेष्टयित्वा तु तन्मध्ये रत्नपीठकम् ।
संस्थाप्य सम्भ्रमैर्युक्ता इदमाहुः सुराङ्गनाः ॥१३॥
उत्तिष्ठ पुरुषश्रेष्ठ तिष्ठ त्वं सूत्रमण्डले ।
स इत्थमुक्तो भगवान् योषितां पुरतो हरिः ॥१४॥
प्रोवाच दीनवदनः प्रस्रवन् नेत्रजं जलम् ।
पितामह महाप्राज्ञ विवाहविभवे मम ॥१५॥
कः करोत्यभिषेकं तु तैलेनाशीःक्रमेण वै ।
यस्य नास्ति महाराज माता वाऽपि पिता तथा ॥१६॥
विवाहे च विपत्तौ च तस्य धिग् जन्म जीवनम् ।
भगिन्यो भ्रातरश्चैवं मातुला भागिनेयकाः ॥१७॥
न मे सन्ति महाप्राज्ञ कः करोत्यभिषेचनम् ।
मातृपितृविहीनानां का गतिर्वै भविष्यति ॥१८॥
न च मातृसमं मित्रं जनकेन समं सुखम् ।
न भार्यासदृशं भाग्यं न पुत्रेण समा गतिः ॥१९॥
न हि भ्रातृसमो बन्धुर्न विष्णोर्देवता परा ।
इति सम्भाष्य गोविन्दो लीलामानुषविग्रहः ॥२०॥
रुरोद लोकरीत्यैव पश्यन् ब्रह्माननं हरिः ।
उपधार्य हरेर्वाक्यं स भवः कञ्जसम्भवः ॥२१॥
सान्त्वयन् वासुदेवं तु भारतीमाह भूपते ।
ब्रह्मोवाच ।
किमर्थं मोहयसि नो मायापञ्जरवासिनः ॥२२॥
कोऽपि नास्तीति यत्प्रोक्तं तदसत्यं चतुर्भुज ।
पुत्रोऽहं तव कल्याण पौत्रः साक्षात् त्रिलोचनः ॥२३॥
मन्मथोऽन्यः पुमान् पुत्रः पौत्रपुत्रः षडाननः ।
जगत्प्राणो ज्येष्ठपुत्रः स्नुषा ते भारती हरे ॥२४॥
सरस्वत्यादिकाः सर्वाः स्त्रियस्त्वत्पादसेविकाः ।
त्वं पुमान् परमः साक्षाज्जगद्धात्री तवाङ्गना ॥२५॥
क्रीडामात्रमिदं मन्ये त्वत्कृतं पुरुषोत्तम ।
एवं विभवमापन्नस्त्वं नो मोहयसे वृथा ॥२६॥
इत्थमुक्त्वा चतुर्वक्त्रो वासुदेवरमासखम् ।
रमां सङ्केतयामास सा रमा वाक्यमब्रवीत् ॥२७॥
श्रीरमोवाच ।
विदितं हृदयं देव तव वेङ्कटवल्लभ ।
तैलाभ्यङ्गादि कर्माणि करिष्ये पुरुषोत्तम ॥२८॥
उत्तिष्ठ त्यज दुःखं ते समारोह वरासनम् ।
स रमागिरमाकर्ण्य सन्तोषान्नययनाज्जलम् ॥२९॥
मुञ्चन् मुनिवरान् राजन् नन्दयन् नरसारथिः ।
कश्यपात्रिभरद्वाजविश्वामित्रपुरोगमान् ॥३०॥
प्रणिपत्य वसिष्ठं स आह विश्वं विडम्बयन् ।
श्रीनिवास उवाच ।
अनुज्ञां देहि मे ब्रह्मन् मज्जनार्थं महामुने ॥३१॥
तथाऽस्त्वित्यब्रवीत् कृष्णं वसिष्ठः स पुरोहितः ।
सपत्नीकान् सुरान् सर्वान् सभार्यानृषिमण्डलान् ॥३२॥
अनुज्ञाप्यानुगैः सार्धमुदतिष्ठत् सुरोत्तमः ।
विकीर्य केशमूलानि पूर्वाशाभिमुखं ततः ॥३३॥
आरोपयन् रत्नपीठे श्रीनिवासं सुयोषितः ।
तासां मध्ये सिन्धुपुत्री रमा कमललोचना ॥३४॥
रुक्मपात्रं समादाय तैलपूरितमादरात् ।
अभ्याञ्चयत् तदा देवी स्वाशीर्भिरभिनन्द्य तम् ॥३५॥
रमोवाच ।
दीर्घायुर्भव गोविन्द बहुपुत्रो धनाधिपः ।
चतुर्दशानां लोकानामेकच्छत्राधिपो भव ॥३६॥
एवमुक्त्वा तदा देवी साऽभ्यनक्ति स्म माधवम् ।
देवाङ्गं मर्दयामास तैलेनातिसुगन्धिना ॥३७॥
तदा ददौ ब्रह्मपत्नी चन्द्रकाश्मीरकर्दमम् ।
तेन मार्जारतैलेन तथा मृगमदेन च ॥३८॥
हरिद्राचूर्णपिष्टेन निर्मृज्य च वृषाकपिम् ।
सुमङ्गलैर्वाद्यघोषैः सह सर्वपरिच्छदैः ॥३९॥
समन्तात् सर्ववीथीषु करिकुम्भैरुपाहृतैः ।
समन्तात् पुण्यतीर्थस्थपुण्यतीर्थाभिपूरितैः ॥४०॥
सरत्नैः काञ्चनैः कुम्भैः स्नापितोदकमिश्रितैः ।
अभिषेकं ततश्चक्रे कमला जगदीशितुः ॥४१॥
आपादमौलिपर्यन्तं सा कृत्वोद्वर्तनं हरेः ।
मेने कृतार्थमात्मानं सेवया केशवस्य तु ॥४२॥
चतस्रस्तु सुवासिन्यः पाणिभिः कलशान् नृप ।
धृत्वा मौक्तिकतोयैस्तमभ्यषिञ्चन् सुरेश्वरम् ॥४३॥
जलैर्नीराजयामसुः पुत्रवान् धनवान् भव ।
इत्याशिषाऽभिनन्द्यन्त्यः श्रीनिवासं सुराङ्गनाः ॥४४॥
गायन्त्यः शुभगीतानि कौङ्कुमैः सलिलैस्तथा ।
आरार्तिकं माङ्गलिकीं सर्वाश्चक्रुस्तथाऽङ्गनाः ॥४५॥
तदा ददौ ब्रह्मपत्नी सावित्री वस्त्रमुत्तमम् ।
तेन वस्त्रेण सर्वाङ्गं ममार्ज विधिवद् रमा ॥४६॥
पार्वती धूपमादाय ददौ लक्ष्मीकराम्बुजे ।
धूपयित्वा सुधूपेन विकीर्योज्झितबन्धनान् ॥४७॥
बबन्ध कमला देवी मूर्धजान् मधुघातिनः ।
आदर्शं दर्शयामास सावित्री स्वर्णभूषितम् ॥४८॥
रतिशच्यौ चामरे च वीजयन्त्यौ स्थिते तदा ।
छत्रं दधार सा देवी भारती भक्तिसंयुता ॥४९॥
पादुके प्रददौ भद्रा गङ्गा गङ्गापितुस्तदा ।
निधाय पादौ वरपादुकाद्वये ययौ प्रपन्नार्तिहरो हरिः स्वयम् ॥५०॥
याभ्यां पुरा पावनतां गतो मुनेः शापेन चाश्मत्वमुपागताऽबला ।
पादुकाभ्यां चरन् भूमिं वरासनमगाद्धरिः ॥५१॥
श्रीभगवानुवाच ।
ब्रह्मादयः सुरश्रेष्ठा इन्द्राद्या लोकपालकाः ।
कश्यपादिमुनिश्रेष्ठा वसिष्ठादितपोधनाः ॥५२॥
सनकाद्याश्च योगीन्द्रा भृग्वाद्याश्च ऋषीश्वराः ।
अर्यमाद्याश्च पितरस्तुम्बुर्वाद्याश्च गायकाः ॥५३॥
रम्भाद्याश्चैव नर्तक्यः सूतमागधबन्दिनः ।
उपासताऽसने रम्ये पश्यन्तः पुरुषोत्तमम् ॥५४॥
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनम् ।
अष्टमीन्दुकलाकारे ललाटे दर्पणस्फुटे ॥५५॥
ऊर्ध्वपुण्ड्रं दधाराथ श्रीनिवासः सतां गतिः ।
तदाह कमलां राजन् बकुला लोकमातरम् ॥५६॥
रेखां रचय कल्याणि ललाटे कुङ्कुमेन तु ।
एवमुक्ता देवमात्रा रमा कुङ्कुममालिखत् ॥५७॥
तदा मुहूर्तकालस्तु दर्शितो दैवचिन्तकैः ।
भूषणानि स्वपुत्रस्य पौत्रं तु जगदीशितुः ॥५८॥
याचयित्वा महाराज कुबेरमथ सा रमा ।
आदाय तं ददर्शाथ भगवानाह तान् नृप ॥५९॥
श्रीभगवानुवाच ।
सम्भूषय वरारोहे भूषणैर्मां वरानने ।
एवमुक्ता हसन्ती सा भूषणैस्तमभूषयत् ॥६०॥
पीताम्बरं दधाराशु कटिसूत्रमनर्घ्यकम् ।
स्वर्णैराभरणैर्वस्त्रैर्भूषितस्तु ततो हरिः ॥६१॥
कश्यपात्रिभरद्वाजवसिष्ठादिन् महामुनीन् ।
नमश्चक्रे विरिञ्चेशविनुतोऽपि विडम्बयन् ॥६२॥
सन्ध्यामुपास्य विधिवत् कृत्वा तात्कालिकक्रियाः ।
वसिष्ठमाहूयोवाच सन्तोषोद्रिक्तमानसः ॥६३॥
श्रीभगवानुवाच ।
मुनिश्रेष्ठ वसिष्ठ त्वमुत्तरं कार्यमाचर ।
वासुदेववचः श्रुत्वा वसिष्ठो वदतां वरः ॥६४॥
विरच्य वेदिकां तत्र मौक्तिकैश्चतुरश्रिकाम् ।
श्रीनिवासं प्रतिष्ठाप्य सकल्पविधिपूर्वकम् ॥६५॥
चक्रे पुण्याहकर्माथ वरयित्वा द्विजन्मनः ।
अष्टवर्गं ततश्चक्रे सृष्टिकर्ता पितामहः ॥६६॥
ततो नियुक्तविधिना दत्वा ताम्बूलदक्षिणाः ।
विप्राणां वेदविदुषां तथा मङ्गलवादिनाम् ॥६७॥
ददुर्देवा धनं वस्त्रं वासुदेवस्य ये प्रियाः ।
ततः समाप्य कर्माणि शास्त्रोक्तानि यथाविधि ॥६८॥
कुलदैवमपृच्छत् तं वसिष्ठो वसुधाधिप ।
स तस्य वचनं श्रुत्वा भगवानाह वै मुनिम् ॥६९॥
भगवत्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठानविधानम् ।
श्रीभगवानुवाच ।
वसिष्ठ मम कल्याणी कुलदेवी शमी स्मृता ।
ममापि पाण्डवानां च नात्र कार्या विचारणा ॥७०॥
क्व चास्ति स द्रुमश्रेष्ठ इत्युक्तेऽगस्त्य ऊचिवान् ।
अगस्त्य उवाच ।
अत्रैवोत्त्तरदिग्भागे तीर्थे कौमारसञ्ज्ञके ॥७१॥
वर्तते वृक्षराजश्च तत्र गत्वा तमानय ।
अगस्त्यवचनेनैवं तत्र गत्वाऽथ तं द्रुमम् ॥७२॥
कृत्वा प्रदक्षिणं राजन् भगवाँल्लौकिकैः समः ।
नमश्चक्रे शमीवृक्षं कुलदेवं वृषाकपिः ॥७३॥
श्रीभगवानुवाच ।
शमि पापं शमय मे शमि शत्रुविनाशिनि ।
अर्जुनस्य धनुर्धात्रि रामस्य प्रियदर्शिनि ॥७४॥
मातर्मे कुरु कल्याणमविघ्नेन सुरप्रिये ।
कलहः सर्वदेवानां राज्ञस्तस्य न चोद्भवेत् ॥७५॥
इति सम्प्रार्थ्य देवेशः कुलदेवीं सुरार्चिताम् ।
अर्चयित्वा विधानेन स्कन्धमल्पं महीपते ॥७६॥
निकृत्य शिरसा धृत्वा वादित्राणां स्वनेन च ।
पूरयन्नम्बरं सर्वं पुनः स्वस्थानमागतः ॥७७॥
श्रीनिवास उवाच ।
सा कुत्र स्थाप्यते ब्रह्मन् वसिष्ठ कुलदेविका ।
वदत्येवं वासुदेवे वसिष्ठं वसुधाधिप ॥७८॥
नारदश्चान्तिकं गत्वा प्रोवाच मधुसूदनम् ।
श्रीनारद उवाच ।
वराहशरणे देव स्थाप्यतां कुलदेवता ॥७९॥
यस्मिन् स्थाने स्वकं धाम तत्र तां कृष्ण पूजयेत् ।
एवं विद्वन्मतं पूर्वं निर्मितं परमेष्ठिना ॥८०॥
स नारदवचः श्रुत्वा वसिष्ठसहितो हरिः ।
वराहशरणं गत्वा वच एतत् तमब्रवीत् ॥८१॥
श्रीनिवास उवाच ।
प्रसादात् तव गोविन्द विवाहं कर्तुमुत्सुकः ।
सहितो धरया सार्धं त्वमागच्छ नृपालयम् ॥८२॥
गुरुस्त्वं सर्वलोकानां कृतकृत्यं च मां कुरु ।
श्रीनिवासवचः श्रुत्वा भूधरो वाक्यमब्रवीत् ॥८३॥
श्रीवराह उवाच ।
ममस्थाने महाराज बकुलां विद्धि मे सखीम् ।
क्षेत्रं पक्वं मदीयं यत् तस्मात् मां त्यक्तुमर्हसि ॥८४॥
वराहवचनं श्रुत्वा वासुदेवोऽभ्यभाषत ।
श्रीनिवास उवाच ।
कुलदेवीप्रतिष्ठां च करिष्ये शरणे तव ॥८५॥
इत्येवं प्रार्थयन्तं तं श्रीनिवासं परात्परम् ।
तथाऽस्त्वित्यब्रवीद् राजन् कोलरूपी हरिः स्वयम् ॥८६॥
कलशे स्वर्णखचिते मुक्ताराशिं प्रपूर्य च ।
वस्त्रेण वेष्टयित्वाऽथ पूजां कृत्वा विधानतः ॥८७॥
प्रतिष्ठाप्य वराहस्य सन्निधौ प्राकृतो यथा ।
स्वस्थानं पुनरागत्य श्रीनिवासः सतां गतिः ॥८८॥
अभोजनेन गन्तव्यं नारायणपुराह्वयम् ।
आकाशराजनगरमिति निश्चित्य चेतसि ॥८९॥
ब्रह्माणमब्रवीद् राजंस्त्वरया गमने रतः ।
कुबेराच्छ्रीनिवासकृतः स्वपरिणयार्थमृणादानप्रकारः ।
श्रीनिवास उवाच ।
विधेऽद्यैव नियुङ्क्ष्वैतां सेनां ते चतुरङ्गिणीम् ॥९०॥
शीघ्रं गन्तुं चतुर्वक्त्र नारायणपुरं प्रति ।
माऽभूत् कालो वृथैवात्र दूरोऽध्वा ह्यस्य वर्तते ॥९१॥
बलं सर्वं वने तात वृद्धबालबलान्वितम् ।
शनैर्गच्छतु राजेन्द्र मुनिमण्डलपूर्वकम् ॥९२॥
स तस्य वचनं श्रुत्वा चक्रपाणेश्चतुर्मुखः ।
वचनं व्याहरच्छीघ्रं पितरं पुरुषोत्तमम् ॥९३॥
ब्रह्मोवाच ।
कृत्वा पुण्याहकर्माणि प्रतिष्ठाप्य कुलेश्वरीम् ।
नोपवासेन गोविन्द गन्तव्यमिति मे मतिः ॥९४॥
मुनयः क्षुधिताः सर्वे बालवृद्धादयस्तथा ।
वदत्येवं चतुर्वक्त्रे चक्रपाणिरभाषत ॥९५॥
श्रीनिवास उवाच ।
वचनानि महार्हाणी तव पुत्र पितामह ।
कथं कार्यमकार्यं च नैव जानासि पुत्रक ॥९६॥
देशकालावनालोच्य भाषसे बालिशो यथा ।
द्रव्याणामयुतं तात गतं मे काननं गिरौ ॥९७॥
एवं व्ययं समापन्नं कथं पश्यसि चक्षुषा ।
ज्ञात्वाऽपि रिक्ततां वाचा त्वेवमुक्ते कथं भवेत् ॥९८॥
वदत्येवं स्वपितरि ब्रह्मा लोकपितामहः ।
तूष्णीमभून्महाराज भगवत्पुरतस्तदा ॥९९॥
नीलकण्ठोऽब्रवीद् वाक्यं पितरं स्वपितुस्तत्दा ।
नीलकण्ठ उवाच ।
श्रोतव्यं वचनं तात मम बालस्य माधव ॥१००॥
विवाहकरणे देव तथा भवनकर्मणि ।
प्रारब्धस्यान्तपर्यन्तं यो हि यत्नं समाचरेत् ॥१०१॥
स एव पुण्यवाँल्लोके कीर्तिमेति न संशयः ।
सम्पाद्याः सर्वसम्भाराः शुभकार्येषु पुष्कलाः ॥१०२॥
बहुलार्थव्ययेनापि तदभावे त्वृणं चरेत् ।
स शम्भुवचनं श्रुत्वा शम्बरारिपिताऽब्रवीत् ॥१०३॥
श्रीभगवानुवाच ।
सभायां किमिदं प्रोक्तं पौरुषेण वचः शिव ।
को वाऽद्य ऋणदाताऽस्ति विवाहस्यास्य पुष्कलम् ॥१०४॥
पुरुषः पौरुषं यत्नमाचरन्नैव भाषयेत् ।
एवमुक्त्वा शिवं प्राह कुबेरं पुरुषोत्तमः ॥१०५॥
श्रीभगवानुवाच ।
निमित्तं वर्तते किञ्चिदित एहि धनाधिप ।
इत्येवमुक्तो धनदः पितामहसमन्वितः ॥१०६॥
समुत्तस्थौ सभामध्यात् त्वरितं शिवसंयुतः ।
ब्रह्मणा स कुबेरेण शङ्करेण रमापतिः ॥१०७॥
एकान्ते स्वामितीर्थस्य पश्चिमेऽश्वत्थसन्निधौ ।
गत्वोवाच धनेशानं श्रीनिवासः सतां गतिः ॥१०८॥
श्रीनिवास उवाच ।
साधयस्व महाभाग कल्याणं मे कलौ युगे ।
दत्वा धनं यावदिष्टं पुत्रस्य नरवाहन ॥१०९॥
वासुदेववचः श्रुत्वा वसुपालोऽब्रवीद्धरिम् ।
कुबेर उवाच ।
त्वदधीनं देव सर्वं जगतेदच्चराचरम् ॥११०॥
बहूनां जीवराशीनां मध्ये कोऽहं जगत्पते ।
नियोजितेन भवता रक्षितं त्वद्धनं मया ॥१११॥
तद्दानादानयोः शक्तिर्मम नास्ति खगध्वज ।
ग्रहीता त्वं च दाता च स्वतन्त्रोऽत्र त्वमेव हि ॥११२॥
ब्रुवत्येवं धनपतौ श्रीपतिर्वाक्यमब्रवीत् ।
श्रीनिवास उवाच ।
एकस्मिन् ब्रह्मदिवसे त्ववतारा दश स्मृताः ॥११३॥
ममावतारसमये नानयामि धनं गृहात् ।
भूगतं च धनं राजन् नैव नेष्यामि मद्गृहम् ॥११४॥
यथायुगं यथाकालं यथादेशं यथावयः ।
अवतारमहं कुर्वन् रमेऽत्र रमया सह ॥११५॥
निमित्तमात्रमपि मे धनं त्वं धनदाऽधुना ।
युगानुसारिणे देहि देशकालानुसारतः ॥११६॥
स तस्य वचनं श्रुत्वा कुबेरो वाक्यमब्रवीत् ।
कुबेर उवाच ।
युगानुसारिणस्तेऽद्य कथं दास्यामि चक्रभृत् ॥११७॥
यदि दत्तं त्वया पत्रं तदा दास्यामि ते वसु ।
अधनः सधनं लोके यथा काङ्क्षति माधव ॥११८॥
तथैव नरशार्दूल भगवाँल्लौकिकैः समः ।
एवं तद्वचनं श्रुत्वा हरिर्ब्रह्माणब्रवीत् ॥११९॥
श्रीनिवास उवाच ।
कथं लेख्यं मया पत्रमृणदाने वदाद्य मे ।
ब्रह्मोवाच ।
ऋणग्राही श्रीनिवासो धनदायी धनेश्वरः ॥१२०॥
आत्मकार्यनिमित्तं तु कल्याणार्थं कलौ युगे ।
वैशाखे शुक्लसप्तम्यां विलम्बे चैव वत्सरे ॥१२१॥
निष्काणां राममुद्राणां लक्षाणि च चतुर्दश ।
द्रव्यं दत्त्तं धनेशेन वृद्धिग्रहणकारणात् ॥१२२॥
सवृद्धि दित्सता मूलं स्वीकृतं चक्रपाणिना ।
विवाहवर्षमारभ्य सहस्रान्ते धनं पुनः ॥१२३॥
दातव्यं यक्षराजाय श्रीनिवासाय शार्ङ्गिणा ।
एकः साक्षी चतुर्वक्त्रो द्वितीयस्तु त्रिलोचनः ॥१२४॥
तृतीयोऽश्वत्थराजस्तु वेत्ति सर्वमिदं दृढम् ।
इत्येतदृणपत्रं तु श्रीनिवासोऽलिखत् स्वयम् ॥१२५॥
एवं पत्रार्थमाकर्ण्य ऋणपत्रं रमापतिः ।
लिखित्वा तत्करे दत्वा धनेशं चाब्रवीद्धरिः ॥१२६॥
धनं देहि धनेशान पत्रे लिखितमात्रकम् ।
एवमुक्तो वसुपतिर्वासुदेवेन भूमिप ॥१२७॥
ददौ धनं कुबेरस्तु कॢप्तसङ्ख्यं वृषाकपेः ।
दृष्ट्वा तद्धनराशिं तु तत्करेऽदाद्धरिर्नृप ॥१२८॥
श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसज्जीकरणप्रकारः ।
श्रीभगवानुवाच ।
कुबेरमब्रवीद् देवः सम्भारानयनं प्रति ।
आनीयतां तण्डुलं च मितं प्रस्थैर्धनेश्वर ॥१२९॥
माषादिकं च मुद्गादीन् गोधूमांश्च समानय ।
गुडतैलमधुक्षीरशर्कराज्यदधीनि च ॥१३०॥
वस्त्राणि योग्यमूल्यानि सोत्तरीयाणि चानय ।
तिलहिङ्गुमरीचादिजीरसर्षपमेथिकान् ॥१३१॥
हरिद्राक्तानि कुर्वीथा वस्त्राणि द्विजयोषिताम् ।
कम्बलाश्च धनाधीश क्रीयन्तामिति चाब्रवीत् ॥१३२॥
देवानामुत्तरीयं च देवस्त्रीणां दुकूलकम् ।
पूगीफलानि दिव्यानि नागवल्लीदलानि च ॥१३३॥
एलालवङ्गकर्पूरमृगनाभिरसं तथा ।
माङ्गल्यतन्तुं कन्यार्थं पादाङ्गुष्ठादिमुद्रिकाम् ॥१३४॥
हस्ताङ्गुलीयकं मेऽद्य कुबेर कुरु शीघ्रतः ।
इति गोविन्दवचनं श्रुत्वाऽसौ निर्ममे क्षणात् ॥१३५॥
त्वत्प्रसादेन गोविन्द सर्वंसज्जीकृतं मया ।
पाकार्थं पुण्डरीकाक्ष नियुङ्क्ष्वाग्निमतः परम् ॥१३६॥
भगवदाज्ञया वह्निकृतदिव्यान्नसज्जीकरणप्रकारः ।
एवमुक्तः कुबेरेण श्रीनिवासः सतां गतिः ।
षण्मुखं प्रेषयामास वह्नेराह्वानकारणात् ॥१३७॥
स गत्वा त्वरितं स्कन्दः शासनं ज्ञापयन् हरेः ।
सम्प्राप्तो वायुवेगेन सहितो जातवेदसा ॥१३८॥
ततः प्रोवाच भगवान् त्वरितं हव्यवाहनम् ।
श्रीभगवानुवाच ।
क्षणाद् भक्ष्यान्नशाकादि पच स्वाहासमन्वितः ॥१३९॥
इति नारायणवचः श्रुत्वाऽग्निस्तमभाषत ।
अग्निरुवाच ।
पाकार्थं भाजनं कृष्ण नास्त्येकमपि मे हरे ॥१४०॥
कार्यः पाको महाराज बहूनां भक्तवत्सल ।
इति तस्य वचः श्रुत्वा शार्ङ्ग्यग्निं प्रत्यभाषत ॥१४१॥
श्रीभगवानुवाच ।
भवतां भवने तात किञ्चिज्जाते महोत्सवे ।
भाजनानि महाभाग वर्धन्ते वटबीजवत् ॥१४२॥
मम कल्याणसमये भाण्डमेकं न दृश्यते ।
दैवमेव परं मन्ये सर्वेषां सर्वसाधने ॥१४३॥
उपायं शृणु सप्तास्य पाकार्थं भाजनैर्विना ।
अन्नं स्वामिसरोमध्ये सूपं पापविनाशने ॥१४४॥
वियद्गङ्गाजले वह्ने परमान्नं गुडान्वितम् ।
देवतीर्थे शाकमग्ने तुम्बुतीर्थे तु चित्रकम् ॥१४५॥
कुमारधारिकातीर्थे भक्ष्याणि विविधानि च ।
पाण्डुतीर्थे च कर्तव्यस्तिन्त्रिणीरस उत्तमः ॥१४६॥
व्यञ्जनान्यतीर्थेषु कन्दमूलफलैः सह ।
क्रियतां लेह्यपेयानि तीर्थेष्वन्येषु पावक ॥१४७॥
इति देवस्य वाक्यानि प्रशसंसुर्महर्षयः ।
तथा च कृतवान् जातवेदा वेदविशारदः ॥१४८॥
एवं विचित्रकर्माणि हरेर्वैकुण्ठवासिनः ।
युगानुसारिणस्तस्य तदद्भुतविडम्बनम् ॥१४९॥
अचिन्त्यं देवताकार्यमवाङ्मनसगोचरम् ।
अग्निरुवाच ।
दध्योदनतिलान्ने च परमान्नं मधुस्रवम् ॥१५०॥
माषापूपा गुडापूपाः शाकद्वयमतः परम् ।
सर्वं सुपक्वतां नीतं त्वत्प्रसादेन केशव ॥१५१॥
आमन्त्रय द्विजेन्द्रांश्च सुरानपि मुनीनपि ।
अग्निवाणी समाकर्ण्य श्रीनिवासो निरामयः ॥१५२॥
सम्प्रैषयच्छिवसुतं षण्मुखं मिथिलेश्वर ।
श्रीशेषाद्रौ कश्यपादिभ्यो ब्रह्मादिकृतोपचारप्रकारः ।
स जगामातिवेगेन जपतोऽग्निपरायणान् ॥१५३॥
ब्राह्मणान् वेदविदुषः आजुहाव जनाधिप ।
पाकः सम्पूर्णतां प्राप्त उत्तिष्ठत सुरद्विजाः ॥१५४॥
इति तेन समाहूताः कश्यपात्रिपुरोगमाः ।
देवाश्च निकटं तस्य पाकस्थानस्य भेजिरे ॥१५५॥
विभज्य तत्र विधिवत् पात्रभूतान् पृथक् पृथक् ।
पङ्क्तीश्च कारयित्वाऽथ तारतम्यानुसारतः ॥१५६॥
पात्राणि व्यस्तृणोच्छम्भुः पात्रापात्रविचक्षणः ।
पाण्डुतीर्थं समारभ्य श्रीशैलावधि भूसुराः ॥१५७॥
देवाश्च निबिडीभूतास्तस्मिन् कृष्णमहोत्सवे ।
स्थिता देवद्विजास्तत्र स्वस्वपात्रान्तिके पृथक् ॥१५८॥
तदाऽह भगवान् राजन् ब्रह्माणं चतुराननम् ।
श्रीभगवानुवाच ।
अनर्पितं न दातव्यं देवानां च द्विजन्मनाम् ॥१५९॥
ब्रह्मोवाच ।
सर्वज्ञं सर्वभोक्तारं सर्वलोकेश्वरेश्वरम् ।
त्वामेव वेद्मि गोविन्द न त्वत्तुल्यो न चाधिकः ॥१६०॥
कस्मै निवेदयेयं भोः प्रशाधि कमलापते ।
स पुत्रवचनं श्रुत्वा पुत्रमाह हसन्निव ॥१६१॥
श्रीभगवानुवाच ।
अहोबिलनृसिंहस्य पूजां कृत्वा निवेदय ।
इत्युक्तो वासुदेवेन नृसिंहस्यार्पणं नृप ॥१६२॥
ब्रह्मा चकार सर्वेषां मुनीनामपि सम्मतम् ।
गृहाराधनदेवांश्चाऽमन्त्र्याऽऽनर्च ततः परम् ॥१६३॥
अक्षतार्घ्याम्बुगन्धैश्च धूपदीपानुलेपनैः ।
विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ॥१६४॥
ननामानन्दसम्पूर्णो हरिस्ताँलौकिकैः समः ।
परिवेषं ततश्चक्रुरष्टौ दिक्पालकास्तदा ॥१६५॥
पात्रसंस्कारपूर्वं च चक्रुस्ते परिवेषणम् ।
परिवेषं च सम्पूर्णमाकर्ण्याग्निमुखाद्धरिः ॥१६६॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥१६७॥
इत्थं कृष्णार्पणं चक्रे श्रीनृसिंहाय विष्णवे ।
कश्यपाद्यांश्च गोविन्दो जुषध्वमिति चाब्रवीत् ॥१६८॥
भवतां ज्ञानपूर्णानां किमनेनाद्य पूर्णता ।
भविष्यति महाप्राज्ञा दयावन्तस्तपोधनाः ॥१६९॥
दरिद्रं मां च जानन्तस्त्वन्नं मे सजलं लघु ।
बहूकृत्य स्वीकुरुत कृपया नितरामिति ॥१७०॥
प्रार्थनां ब्राह्मणानां तु कृतवान् प्राकृतो यथा ।
वासुदेववचः श्रुत्वा वाक्यमाहुर्महीसुराः ॥१७१॥
ऋषय ऊचुः ।
तवान्नममृतप्रख्यं मुक्तिमार्गस्य साधनम् ।
वयं धन्याः कृतार्थाः स्म कलौ पापाकुले हरे ॥१७२॥
अभिनन्द्य तमित्थं ते सुसन्तुष्टा अभुञ्जत ।
भोजनानन्तरं राजन् ब्राह्मणानां यथार्हतः ॥१७३॥
ताम्बूलं दक्षिणां चैव प्रददौ भगवान् हरिः ।
स विप्रभोजनस्यान्ते स्वयं भोजनमाचरत् ॥१७४॥
पुत्रेण पुत्रपुत्रेण भार्यया बन्धुभिर्युतः ।
साग्निः सलोकपालश्च सशेषो गरुडान्वितः ॥१७५॥
भोजनान्ते दिनाधीशो रात्रिस्थानमुपागतः ।
शयनं कृतवान् कृष्णः पर्यङ्के रमया सह ॥१७६॥
स्वयं निद्राविहीनोऽपि रेमे प्राकृतवद्धरिः ।
ब्रह्मादयः सुरश्रेष्ठाः कश्यपात्रिपुरोगमाः ॥१७७॥
शयनं चक्रिरे राजन् कन्दरेषु गृहेषु च ।
वृक्षमूलेषु शैलानां गह्वरेषु दरीषु च ॥१७८॥
भगवदाज्ञया ब्रह्मकृतसैन्यसज्जीकरणप्रकारः ।
ततः प्रभाते विमले श्रीनिवासः सतां गतिः ।
गरुडं प्रेषयामास ब्रह्माणं प्रति भूमिप ॥१७९॥
स गत्वा वायुवेगेन ब्रह्माणं तल्पसंस्थितम् ।
प्रत्युवाच महाराज पक्षिराट् परमं वचः ॥१८०॥
गरुड उवाच ।
गच्छ तातान्तिकं ब्रह्मन् वस्त्रालङ्कारभूषितः ।
हंसमारुह्य चन्द्राभं गन्तुं राजेन्द्रपत्तनम् ॥१८१॥
वाद्यतां च विचित्राणि वादित्राणि महान्ति च ।
गजमारोप्य महती भेरी चाद्यानुवाद्यताम् ॥१८२॥
वाहनानि विचित्राणि रथा आन्दोलिका अपि ।
अलङ्क्रियतां राजेन्द्रपुरीं गन्तुं ससम्भ्रमम् ॥१८३॥
पक्षिराड्वचनं श्रुत्वा पक्षिवाहननन्दनः ।
नियोजयामास तदा बलं देवगणस्य च ॥१८४॥
गजानां च हयानां च वृषभाणां च मण्डलम् ।
पदातीनां च शूराणां मण्डलं समलङ्कृतम् ॥१८५॥
शूराश्च कृतविद्याश्च धृतशस्त्रास्त्रपाणयः ।
पितामहं पुरस्कृत्य जग्मुर्नारायणान्तिकम् ॥१८६॥
तं दृष्ट्वा सर्वदेवेशं भगवानाह भूपते ।
श्रीनिवास उवाच ।
विलम्बः क्रियते कस्माद् गमनार्थं पितामह ॥१८७॥
नियोजय बलं सर्वं राजधान्यै नृपस्य च ।
इत्थं हरेर्वचः श्रुत्वा वासुदेवात्मजोऽब्रवीत् ॥१८८॥
ब्रह्मोवाच ।
सज्जीकृतं बलं सर्वं धृतायुधमरिन्दम ।
उत्तिष्ठ पुरुषश्रेष्ठ समारोह खगेश्वरम् ॥१८९॥
वियद्राजपुरं प्रति सपरिकरश्रीनिवासगमनम् ।
स इत्थमुक्तो भगवान् गरुडस्कन्धमास्थितः ॥१९०॥
ब्रह्माणमग्रतः कृत्वा रुद्रं कृत्वा तु दक्षिणे ।
वामे वायुं ततः कृत्वा कुमारं पृष्ठतस्ततः ॥१९१॥
रमामारोपयामास रथं काञ्चननिर्मितम् ।
मातरं बकुलां राजन् विमानं सूर्यसन्निभम् ॥१९२॥
समारोप्य महाराज भगवान् भक्तवत्सलः ।
स्वयं तु गरुडारूढो जगाम च सतां गतिः ॥१९३॥
शेषो दधार राजेन्द्र श्वेतच्छत्रं शशिप्रभम् ।
चामरे चन्द्रसङ्काशे वीजयामास मारुतः ॥१९४॥
व्यजनेन विचित्रेण रत्नदण्डेन माधवम् ।
वीजयामास राजेन्द्र विष्वक्सेनः प्रतापवान् ॥१९५॥
भेरीदुन्दुभिनिर्घोषैर्वादित्राणां महास्वनैः ।
नर्तकैर्नटनैश्चैव हाहाहूहूयुतोऽञ्जसा ॥१९६॥
ययौ विभवमापन्नः सर्वात्मा सर्वतोमुखः ।
गमने वासुदेवस्य देवानामपि भूमिप ॥१९७॥
ऋषीणां पूर्वदेवानां गन्धर्वाणां तपस्विनाम् ।
सम्मर्दः सम्बभूवात्र पशूनां मानुषात्मनाम् ॥१९८॥
वनितानां च वृद्धानां बालानां रक्षसामपि ।
अन्योऽन्यं कलहस्तत्र वनितानामभूत् तदा ॥१९९॥
ऋषीणामृषिकन्यानां देवस्त्रीणां च दैवतैः ।
तत्राधना तु गच्छन्ती मार्गमध्ये महीपते ॥२००॥
काचिद् भर्तारमालम्ब्य पुत्रमंसे निधाय च ।
भारमुद्धृत्य शिरसि पद्भ्यामेव स्म गच्छति ॥२०१॥
तस्मिन्काले महाराज रथस्थाः सुरयोषितः ।
पन्थानमनुरुन्धन्त्योऽतर्जयंश्चाधनान् कृशान् ॥२०२॥
तदा वियोगमापन्ना भर्त्रा सा भारपीडिता ।
कूजन्ती नाथ हा नाथ वने न त्यक्तुमर्हसि ॥२०३॥
एवमुक्त्वा विप्रपत्नी सपुत्रा पतिता भुवि ।
रुदिताः शिशवस्तत्र प्रहृष्टास्तत्र केचन ॥२०४॥
केचित् पयः स्म काङ्क्षन्ति केचिदन्नं महीपते ।
भुञ्जन्ति केचित् क्षीरान्नं केचिद् दध्योदनं नृप ॥२०५॥
हसन्ति केचित् प्ररुदन्ति केचित् प्रयान्ति केचित् प्रलपन्ति केचित् ।
पतन्तमन्ये करपल्लवेन समुद्धरन्ति स्म हसन्ति केचन ॥२०६॥
सुराङ्गनाश्च राजेन्द्र तथा वैखानसाङ्गनाः ।
ऋष्यङ्गनाश्च गन्धर्ववनिताश्चारुलोचनाः ॥२०७॥
अवारोहन् गिरेश्चैव श्रीनिवासपरायणाः ।
शेषाचलं समारभ्य नारायणपुरावधि ॥२०८॥
तिलमात्रावकाशः स्म मार्गमध्ये न दृश्यते ।
मध्ये कृत्वा पद्मतीर्थं गता सा वाहिनी हरेः ॥२०९॥
ऋग्यजुःसामाथर्वाद्यैर्गीयमानो जगद्गुरुः ।
श्रीपतिः पद्मतीर्थाख्यं महातीर्थं महीपते ॥२१०॥
आससाद जगद्योनिः सच्चिदानन्दविग्रहः ।
ससुरासुरगन्धर्वसिद्धसाध्यमरुद्गणः ॥२११॥
प्राप्तं गरुडमारूढं कृष्णद्वैपायनात्मजः ।
साष्टाङ्गन्यसनं राजन् प्रणिपत्य शुकोऽब्रवीत् ॥२१२॥
भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः ।
तपश्च सफलं मन्ये कृतं मे पुरुषोत्तम ।
यो भवान् ब्रह्मरुद्राद्यैरगम्यो वेदगोचरः ॥२१३॥
तं भवन्तं प्रपश्यामि नेत्राभ्यां पुरुषोत्तम ।
यो भवान् ब्रह्मरुद्राद्यैरगम्यो वेदगोचरः ॥२१४॥
तं भवन्तं प्रपश्यामि नेत्राभ्यां पुरुषोत्तम ।
सपुत्रमित्राखिललोकपालं शेषेण लक्ष्म्या च युतो यतोऽहम् ॥२१५॥
पश्यामि भाग्योदयशालिदृग्भ्यां त्वत्पादपूजा सफला ततो मे ।
विज्ञापनं मे शृणु देवराज प्रसादहेतोस्तव वासुदेव ॥२१६॥
कृत्वा कृपां वेङ्कटशैलनाथ भुक्त्वा मदीयं फलकन्दमूलम् ।
इत्युक्तो मुनिना तेन वासुदेवोऽभ्यभाषत ॥२१७॥
श्रीभगवानुवाच ।
शृणु तापसशार्दूल वचनं साधुसम्मतम् ।
भवान् कृशो विरागी च ब्रह्मचारी दृढव्रतः ॥२१८॥
वयं संसारनिरता बहवश्चात्र भूसुर ।
अद्यैव नगरीं गत्वा राज्ञस्तस्य महात्मनः ॥२१९॥
तत्रैव भोजनं कुर्म इति मे वर्तते मनः ।
वदत्येवं हृषीकेशे व्यासपुत्रोऽभ्यभाषत ॥२२०॥
श्रीशुक उवाच ।
निष्किञ्चनोऽहं गोविन्द निष्किञ्चनजनप्रिय ।
त्वयि भुक्ते जगद् भुक्तं नात्र कार्या विचारणा ॥२२१॥
वदत्येवं शुके कृष्णं बकुला वाक्यमब्रवीत् ।
बकुलोवाच ।
शृणु तद्वचनं कृष्ण त्वद्विवाहे रमापते ॥२२२॥
यत्नं बहुविधं चक्रे राजानं स हि बोधयन् ।
इति मातुर्वचः श्रुत्वा माधवः शुकमब्रवीत् ॥२२३॥
श्रीनिवास उवाच ।
त्वद्वाक्यामृतपानेन तृप्तिर्मेऽभून्मुनीश्वर ।
किमन्येन प्राकृतेन फलेनाल्परसेन मे ॥२२४॥
तथाऽपि तव वाक्येन करिष्ये भोजनं मुने ।
सान्त्वयित्वा मुनिवरं गरुडादवरुह्य सः ॥२२५॥
कुटीरं सम्प्रविश्याथ सपुत्रः सपरिग्रहः ।
मुञ्जैः कृतासने रम्ये संस्थितः परमेश्वरः ॥२२६॥
शुकः स्नात्वा पद्मतीर्थे कृत्वाऽन्नं भक्तिसंयुतः ।
अमृताबीजनिचयं मुष्टिभिः प्रविहत्य च ॥२२७॥
तत्तण्डुलैर्महाराज कृतवानन्नमुत्तमम् ।
बृहतीफलसंयुक्तं तिन्त्रिणीरससंयुतम् ॥२२८॥
स्वान्तरस्थस्य यद्योग्यं पूजासाधनमेव च ।
तेनैव बाह्यमूर्तेस्तु पूजनं साधुसम्मतम् ॥२२९॥
इति मत्वार्थतत्त्वज्ञः कृत्वा पादावनेजनम् ।
पद्मपत्राणि चास्तीर्य तत्रान्नं रससंयुतम् ॥२३०॥
विनिक्षिप्य विशेषेण कृतसाष्टाङ्गसन्नतिः ।
भोजनं कुरु गोविन्द सदा पूर्णमनोरथ ॥२३१॥
एवं सम्प्रार्थितो देवः शुकेन परमर्षिणा ।
तद्भक्तिपारवश्येन भगवानात्मभूः स्वयम् ॥२३२॥
ऋषीणामुचिताहारान् बुभुजे सर्वभोजनः ।
लक्ष्मीस्तस्याऽज्ञया मात्रा सार्धं बकुलमालया ॥२३३॥
बुभुजे मुनिना दत्तं तदन्नममृतप्रभम् ।
तस्मिन् भुक्तवति श्रीशे ऋषयः कोपपूरिताः ॥२३४॥
तदा शुकं भीषयन्तः समुत्तस्थुर्वरासनात् ।
शापानुग्रहसामर्थ्यसाधनाश्च तपोधनाः ॥२३५॥
तेषां मतं तु विज्ञाय भगवान् बहिरागतः ।
फूत्कारं कृतवान् कृष्णः सर्वेषां तृप्तिहेतवे ॥२३६॥
तन्मुखाम्भोजसम्भूतवायुना तृप्तिहेतुना ।
सुरधेन्वा यथा तृप्तास्तथैव मुनिपुङ्गवाः ॥२३७॥
शुकं सन्तोषयामासुर्वचनैः स्तोत्रमिश्रितैः ।
श्रीनिवासाभिमुखतया स्वपुरात् सपरिकरवियन्नृपागमनम् ।
कृत्वाऽऽष्टम्यां तत्र वासं नवम्यां गुरुवासरे ॥२३८॥
प्रभातसमये प्राप्ते श्रीनिवासस्त्वरान्वितः ।
पुनर्गरुडमारुह्य गुरुवारे जगद्गुरुः ॥२३९॥
चतुरङ्गबलाध्यक्षं ब्रह्माणं च पितामहम् ।
निधाय पुरतो राजन् जगाम जगदीश्वरः ॥२४०॥
अस्ताद्रिं प्रस्थिते भानौ तस्मिन् काले महीपते ।
अष्टवर्गं स्वयं कृत्वा कृतकौतुकमङ्गलः ॥२४१॥
पद्मावतीं स्नापयित्वा गन्धतैलेन भूमिप ।
अलङ्कृत्य वरां कन्यामलङ्कारैर्महीपतिः ॥२४२॥
गजमारोप्य तरसा पुत्रीं पुत्रीहिते रतः ।
आकाशराजो धर्मात्मा पुत्रेण सह संयुतः ॥२४३॥
पुरोहितेन शक्रेण तोण्डमानेन निर्ययौ ।
श्रीनिवासं जगद्योनिं द्रष्टुकामो रमापतिम् ॥२४४॥
चतुरङ्गबलैः सर्वैर्गजाश्वरथसंयुतैः ।
ध्वजैश्चैव पताकाभिश्चामरैर्व्यजनैरपि ॥२४५॥
भेरीदुन्दुभिनिर्घोषैर्वादित्राणां महास्वनैः ।
नर्तकैर्नटकैश्चैव सूतमागधबन्दिभिः ॥२४६॥
स्तूयमानो महाराज सैन्यमध्ये व्यराजत ।
यथाऽऽकाशे चन्द्रबिम्बं नक्षत्रगणमण्डले ॥२४७॥
श्रीनिवासवियन्नृपपद्मावतीनां परस्परावलोकनम् ।
राजा ददर्श गोविन्दं शक्रेण परिदर्शितम् ।
गरुडस्कन्धमारूढं श्वेतच्छत्रादिभिर्युतम् ॥२४८॥
सुकुमारं युवानं च सुन्दरं सुन्दराननम् ।
श्रीनिवासं जगद्योनिं सच्चिदानन्दविग्रहम् ॥२४९॥
दृष्ट्वा सन्तुष्टमनसा स रथादवरुह्य च ।
पद्मावतीं स्वपुत्रीं च निधाय पुरतो नृपः ॥२५०॥
पुरोहितं पुरस्कृत्य चेदं वचनब्रवीत् ।
आकाशराज उवाच ।
धन्योऽहं कृतकृत्योऽहं स्वर्गमार्गं समास्थितः ॥२५१॥
एवं वदन्तं तत्काले श्रीनिवासः सतां गतिः ।
ददर्श राजशार्दूल नारदेन प्रदर्शितम् ॥२५२॥
श्रीनारद उवाच ।
दीर्घश्मश्रुं दीर्घबाभुं सर्वदा दीर्घदर्शनम् ।
श्वशुरं तव गोविन्द पश्य माधव भूमिपम् ॥२५३॥
श्रीनिवास उवाच ।
धन्यं नारद मज्जन्म यदाकाशोऽद्य बान्धवः ।
सम्बन्धस्तेन सम्प्राप्तः किं मयाऽचरितं पुरा ॥२५४॥
वदत्येवं हृषीकेशे राजा सत्यपराक्रमः ।
द्वारतोरणमासाद्य श्रीनिवासं ददर्श ह ॥२५५॥
पूजयामास गोविन्दं वसनाभरणादिभिः ।
गन्धतैलेन राजेन्द्र जामातरमपूजयत् ॥२५६॥
सा ददर्श वरारोहा पतिं परमपावनम् ।
पद्मावती विशालाक्षी लज्जया परिमोहिता ॥२५७॥
तां ददर्श जगद्योनिः कमलाक्षीं महीपते ।
पद्मावतीश्रीनिवासौ वाहनादवरुह्य च ॥२५८॥
अन्योन्यालोकनं राजंश्चक्राते संस्थितौ ततः ।
वासुदेवस्य ये भक्तास्तेऽन्योन्यं परिरेभिरे ॥२५९॥
श्रीनिवासस्य पद्मावत्या सह दुर्गादर्शनपूर्वकं पुरप्रवेशः ।
नगरद्वारनिलयां दुर्गामासाद्य भक्तितः ।
पद्मावत्यानुगो मायी देवीं नत्वा विशेषतः ॥२६०॥
वरं ययाचे गोविन्दः कुरु भार्यामिमामिति ।
पद्मावती विशालाक्षी सावित्रीं वरमुत्तमम् ॥२६१॥
पतिं कुरु रमानाथं श्रीनिवासं जगन्मयम् ।
इति वृत्वा च सा देवी नत्वैरावतमाश्रिता ॥२६२॥
गरुडस्कन्धमारूढो भगवान् भक्तवत्सलः ।
दीपकैस्तैलसंसिक्तैः सहस्रायुतसङ्ख्यकैः ॥२६३॥
लाजान् पुष्पाण्यक्षतांश्च विकिरद्भिरितस्ततः ।
स्तुवद्भिर्बन्दिवृन्दैश्च ससूतैर्मागधैरपि ॥२६४॥
आशीर्वादं प्रकुर्वद्भिर्वेदघोषपुरःसरम् ।
ब्रह्मादिभिः सुरश्रेष्ठैर्भूसुरैः शुकपूर्वकैः ॥२६५॥
श्रीनिवासं प्रपश्यद्भिः पौरनारीनरैवृतः ।
वीणावेणुमृदङ्गांश्च पणवानकदुन्दुभीन् ॥२६६॥
वादयद्भिर्जनैश्चान्यैर्वारनारीगणैस्तथा ।
गन्धर्वैर्गाननिपुणैः सुतामात्यैश्च संयुतः ॥२६७॥
आकाशराजो धर्मात्मा श्रीनिवासपरायणः ।
पद्मावत्या समेतं तं श्रीनिवासं ससम्भ्रमम् ॥२६८॥
सञ्चारयन् समन्ताच्च नारायणपुरे शनैः ।
रम्भास्तम्भैरिक्षुदण्डैः पूगीपोतैर्लङ्कृतम् ॥२६९॥
रसालपल्लवयुतैः पूर्णकुम्भैरलङ्कृतम् ।
मुक्ताजालावृतैश्चान्यैः पद्मरागविराजितैः ॥२७०॥
वज्रवैडूर्यखचितैरिन्द्रनीलसमप्रभैः ।
तथा मरकतप्रख्यैस्तोरणैरुपशोभितम् ॥२७१॥
कुङ्कुमोदकसम्पूर्णकनत्कनकभाजनैः ।
स्त्रीभिर्नीराजयन्तीभी राजमानचतुष्पथम् ॥२७२॥
वेदित्रयं परिक्रम्य वासुदेवालयं ययौ ।
प्रवेशयामास वरं सुमन्दिरं श्रीवेङ्कटेशं बहुरत्नसम्मितम् ॥२७३॥
तद्बन्धुखण्डं मुनिवर्यगुप्तं बलं ययौ नाथनिकेतनेषु ॥२७४॥
श्रीनिवासाज्ञया तोण्डमान्नृपकृतं दिव्यान्नसज्जीकरणम् ।
रात्रिस्तु पञ्चघटिका समभूच्च तदा ततः ।
जगाम भवनं राजन् स्वकीयं राजवल्लभः ॥२७५॥
तदाऽऽगतो महाराज तोण्डमानो महीपते ।
तमाह करुणं श्रीमाञ्छ्रीनिवासः क्षुधाऽर्दितः ॥२७६॥
श्रीनिवास उवाच ।
वैवाहिकजनाः सर्वे उपवासपरायणाः ।
अहं च मम पुत्रश्च मम माता सुरादयः ॥२७७॥
भार्या पतिव्रता लक्ष्मीः क्षुधया परिमोहिताः ।
तेषामन्नं महाराज भक्ष्याणि विविधानि च ॥२७८॥
कुरु राजन् सत्वरस्त्वमृषीणामूर्ध्वरेतसाम् ।
पाकस्त्वत्र विशेषेण कर्तव्यो जातवेदसा ॥२७९॥
ममापि च प्रेषणीयं पक्वान्नं राजसत्तम ।
वासुदेववचः श्रुत्वा वसुधेशोऽब्रवीद्धरिम् ॥२८०॥
तोण्डमान उवाच ।
इदं शरीरं जगदीश राज्यं त्वदीयमेतद्धि मुकुन्दमूर्ते ।
नरो यथा लोकगतिं प्रपन्नस्तथा ममान्नं प्रति मुह्यसि त्वम् ॥२८१॥
एवमुक्त्वा महाराज जगाम भवनं स्वकम् ।
क्षणेन कारयामास पाकं राजा हविर्भुजा ॥२८२॥
ऋषीणां वेदविदुषां सुराणां सुरयोषिताम् ।
राजाऽन्नमर्पयामास विप्रानां चान्नकाङ्क्षिणाम् ॥२८३॥
भोजनं कृतवन्तस्ते भक्ष्यान्नरससंयुतम् ।
वासुदेवाय राजेन्द्रः प्रेषयामास सादरः ॥२८४॥
अन्नं बहुविधं भक्ष्यं समाषं मधुसंयुतम् ।
स्वयं समेत्य राजेन्द्रोऽकल्पयद् भोजनं हरेः ॥२८५॥
बुभुजे पुरुषश्रेष्ठो लक्ष्म्या च परमेष्ठिना ।
मात्रा च सहितो राजन् सशेषो गरुडान्वितः ॥२८६॥
दत्त्वा वस्त्राणि दिव्यानि जामातुः श्रीपतेर्नृप ।
जगाम भवनं राजा वासुदेवाज्ञया तदा ॥२८७॥
गते राज्ञि महाराज श्रीनिवासस्त्वरान्वितः ।
निद्रां चकार विधिवन्निर्दोषोऽपि सुखासने ॥२८८॥
एवं गता च सा रात्रिः प्रभातसमयोऽभवत् ।
पूर्वदेवगुरोर्वारः सम्प्राप्तो दशमीदिने ॥२८९॥
समुत्थितो वासुदेवः कृतमङ्गलमज्जनः ।
वसिष्ठमब्रवीद् राजन् भगवान् वेङ्कटेश्वरः ॥२९०॥
श्रीभगवानुवाच ।
सहैव भोजनं कार्यं लक्ष्म्या च परमेष्ठिना ।
मात्रा पुरोहितेनापि वयं पञ्चान्नवर्जिताः ॥२९१॥
राज्ञस्तु भवने राजा राजपत्नी पतिव्रता ।
कन्या पुरोहितो भ्राता तेऽपि पञ्चान्नवर्जिताः ॥२९२॥
एवमुक्त्वा वसिष्ठं तु पुरोहितमरिन्दम ।
कुबेरमब्रवीद् राजन् श्रीनिवासः सतां गतिः ॥२९३॥
श्रीनिवास उवाच ।
गच्छ यक्षगणाध्यक्ष राजानं विप्रकारणात् ।
इति तद्वचनं श्रुत्वा यक्षराड् राजसत्तमम् ॥२९४॥
गत्वाऽह भारतीं पुण्यां श्रीनिवासेन भाषिताम् ।
कुबेर उवाच ।
भोजनं त्वृषिमुख्यानां कर्तव्यं पूर्वमेव हि ॥२९५॥
मुहूर्तकालो रात्रौ तु नाडिकाः स्युस्त्रयोदश ।
तदाऽसाध्यं महाराज रात्र्यां ब्राह्मणभोजनम् ॥२९६॥
इति सन्दिश्य राजानं कुबेरं पुनरागतः ।
तथा चकार राजर्षिर्भोजनं ब्रह्मवादिनाम् ॥२९७॥
ददौ च दक्षिणां निष्कं ताम्बूलं च द्विजन्मनाम् ।
विवाहार्थं श्रीनिवासानयनाय तन्मन्दिरं प्रति नृपागमनम् ।
एवम्भूते महीपाल कल्याणदिवसे हरेः ॥२९८॥
शुक्रवारे दशम्यां च सायङ्काले वियन्नृपः ।
चतुरङ्गबलं सर्वं निधाय पुरतः सुतम् ॥२९९॥
वसुदानं महाराज तोण्डमानं च सोदरम् ।
पुरोहितं पुरस्कृत्य सह सम्बन्धिबान्धवैः ॥३००॥
ऐरावतं महानागं रत्नकम्बलभूषितम् ।
मेघराड्वर्णसंयुक्तं बद्धघण्टाकुलान्वितम् ॥३०१॥
रक्तदन्तं महारावं कर्णबद्धसुचामरम् ।
पुरन्दरं पुरस्कृत्य गजमैरावतं तथा ॥३०२॥
आह्वानकारणात् प्राप्तः श्रीनिवासालयं तदा ।
तस्मिन् महागृहे राजन्नयुतस्तम्भशोभिताम् ॥३०३॥
सभां चकार रत्नाढ्यां विश्वकर्मा विभोः प्रियाम् ।
तत्राऽसीना महाभागा ब्रह्माद्याः सर्वदेवताः ॥३०४॥
विश्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा ।
भृगुरत्रिः पुलस्त्यश्च वाल्मिकिर्मिथिलेश्वर ॥३०५॥
वैखानसश्च दुर्वासा मार्कण्डेयोऽथ गालवः ।
दधीचिश्च्यवनो राजन् सनकश्च सनन्दनः ॥३०६॥
एते श्रेष्ठतमा लोके मुनयो वीतकल्मषाः ।
जटामुकुटभूषाङ्गा ज्वलत्कृष्णाजिनाम्बराः ॥३०७॥
कश्यपं तु पुरस्कृत्य समासीनाः सभान्तरे ।
तन्मध्ये वासुदेवस्तु रत्नकम्बलसंयुतः ॥३०८॥
कृताञ्जलिपुटस्तस्थौ ब्रह्मा लोकपितामहः ।
तत्सभाद्वारमासाद्य राजा सत्यपराक्रमः ॥३०९॥
पुरोहितं पुरस्कृत्य सम्प्राप्तो हरिसन्निधिम् ।
समुत्तस्थौ वासुदेवो दृष्ट्वा राजानमागतम् ॥३१०॥
परिरम्भणमासाद्य भगवान् वाक्यमब्रवीत् ।
श्रीनिवास उवाच ।
भवान् श्रेष्ठतमोऽत्यन्तं वृद्धोऽसि नृपसत्तम ॥३११॥
किमर्थमागतोऽसि त्वं मद्गृहं राजसत्तम ।
वसुदानं तु राजेन्द्र समाह्वाने नियोजय ॥३१२॥
वदत्येवं श्रीनिवासे पुरोहितमभाषत ।
वियन्नृपोक्त्या वसिष्ठप्रेरितः धरणीकृतश्रीनिवासोपचारः ।
राजोवाच ।
विलम्बः क्रियते कस्मात् पूजां कुरु रमापतेः ॥३१३॥
स राजवचनं श्रुत्वा धरणीं वाक्यमब्रवीत् ।
वसिष्ठ उवाच ।
अरुन्धतीं पुरस्कृत्य कुरु पूजां रमापतेः ॥३१४॥
सा सम्भ्रमात् समुत्थाय बाष्पसन्दिग्धलोचना ।
मुखं विलोक्य राजेन्द्र कृष्णस्य नृपवल्लभा ॥३१५॥
मत्वा कृतार्थमात्मानमानन्दपरिपूरिता ।
सलज्जा पूजयामास सच्चिदानन्दविग्रहम् ॥३१६॥
तां दृष्ट्वा योषितः सर्वा विस्मयाकुलमानसाः ।
प्राहुः प्रहृष्टहृदया धरणीं राजवल्लभाम् ॥३१७॥
योषित ऊचुः ।
किं त्वया चरितं पुण्यं पूर्वजन्मनि हे धरे ।
वासुदेवार्चनविधौ निर्मिता परमेष्ठिना ॥३१८॥
या त्वमित्थं पूजयसि साक्षान्नारायणं स्वयम् ।
इत्येवं संस्तुता देवी धरणी राजवल्लभा ॥३१९॥
तैलकर्पूरगन्धेन चन्दनेन सुगन्धिना ।
अर्चयामास कल्याणी श्रीनिवासं सुरेश्वरम् ॥३२०॥
वस्त्रैर्नानाविधै रत्नैर्मुक्तानिर्मितभूषणैः ।
दिव्यालङ्कारालङ्कृत-श्रीनिवासस्य सपरिकरनृपमन्दिरप्रवेशः ।
ततः पुरोहिताज्ञप्तः पुराणपुरुषोत्तमम् ॥३२१॥
गजमारोपयद् राजा जामातरमनामयम् ।
सहितो वासुदेवस्तु ब्रह्मणा शम्भुना तथा ॥३२२॥
कुबेरेणाहिराजेन गरुडेनाग्निना तथा ।
वायुना वरुणेनापि यमेन मरुतां गणैः ॥३२३॥
वसिष्ठादिमुनिश्रेष्ठैः सदारैः ससुतैस्तथा ।
जगाम राजभवनं रत्नतोरणमण्डितम् ॥३२४॥
नानाजनसमाकीर्णं नानालङ्कारमण्डितम् ।
महावाद्यस्वनैर्युक्तं दीपायुतविदीपितम् ॥३२५॥
जामातृसहितो राजा द्वारतोरणसन्निधौ ।
चतुरङ्गबलं मुक्त्वा गृहान्तर्गन्तुमुद्यतः ॥३२६॥
तत्रान्तरे श्रीनिवासं नीराजयितुमागता ।
तोण्डमान्नृपतेर्भार्या कुङ्कुमोदकभाजनम् ॥३२७॥
समादायाशु कल्याणी वासुदेवमपूजयत् ।
ततः पश्चाच्छ्रीनिवासः प्राविशद् राजमन्दिरम् ॥३२८॥
द्वाराण्यतीत्याथ बहूनि माधवो राज्ञा समेतो भवनं प्रविष्य ।
रत्नासने राजविनिर्मिते हरी रराज राजीवसमाननेत्रः ॥३२९॥
चतुःस्तम्भां रत्नवेदीमधिष्ठाप्य खगध्वजम् ।
परिवार्य च तस्थुस्ते मुनयो वीतकल्मषाः ॥३३०॥
ब्रह्माणमग्रतः कृत्वा सर्वे देवा यथासुखम् ।
स्वर्णासने समासीनाः पश्यन्तो नयनोत्सवम् ॥३३१॥
ततः स राजा धर्मात्मा चक्रे मङ्गलमज्जनम् ।
सापि स्नात्वा महाराज तैलेन च सुगन्धिना ॥३३२॥
अलञ्चकारालङ्कारैः स्वात्मानं राजवल्लभा ।
वियन्नृपकृतवरपादाम्बुजक्षालनम् ।
स्वामिपुष्करिणीतोयं हेमकुम्भप्रपूरितम् ॥३३३॥
समानीय ब्राह्मणैश्च हरिपादावनेजनम् ।
सङ्कल्पं विधिवच्चक्रे कन्यादानस्य सादरम् ॥३३४॥
ततश्चकार राजेन्द्र मधुपर्कं पुरोहितः ।
पुरोहितोक्तमन्त्रेण तस्य पादावनेजनम् ॥३३५॥
सहस्रशीर्षा पुरुष इति मन्त्रं समुच्चरन् ।
धरण्या स्रावितैः कृत्वा स्वामितीर्थजलैः शुभैः ॥३३६॥
हरिपादोदकं पुण्यं दधार शिरसा नृपः ।
भार्यां पुत्रं भ्रातरं च भवनं कोशमेव च ॥३३७॥
गजागारं रथागारं वस्त्रागारं च तज्जलैः ।
मार्जयामास राजेन्द्रः श्रीनिवासपरायणः ॥३३८॥
राजोवाच ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
अद्य मे पितरस्तुष्टा वासुदेवपदोदकात् ॥३३९॥
एवमुक्त्वा महाराजः कन्यां कमललोचनाम् ।
अलञ्चक्रे विचित्रैस्तामलङ्कारैर्महीपते ॥३४०॥
ततस्तु घण्टिकाघोषं कृतवान् देवचिन्तकः ।
सुमुहूर्ते तदा प्राप्ते मङ्गलाष्टकमब्रवीत् ॥३४१॥
वराय वैवाहिकभूषणादिकम् ।
कन्याप्रदानसमये दक्षिणां राजसत्तमः ।
कोटिसङ्ख्यान् निष्कपुञ्जान् दत्तवान् वेङ्कटेशितुः ॥३४२॥
तं दृष्ट्वा धनराशिं तु भगवानाह भूमिपम् ।
श्रीनिवास उवाच ।
दातव्यं किं त्वया राजन् पुत्रस्य तव भूपते ॥३४३॥
विवाहकर्मनिपुणो भवान् दानपरायणः ।
ददस्व भूषणान्यङ्ग बहुरत्नान्वितानि च ॥३४४॥
इत्युक्तो वासुदेवेन भूषणानि ददौ नृपः ।
किरीटं शतभारं तु कण्ठिकामपि तावतीम् ॥३४५॥
पुनरेकां तदर्धं च तदर्धं चैव कण्ठिकाम् ।
पदकानि ददौ सप्तानर्घ्याण्यथ नृपोत्तमः ॥३४६॥
मालिकां मौक्तिकानां च भुजभूषणयुग्मकम् ।
कर्णभूषौ मौक्तिकाढ्यावंसपर्यन्तलम्बिनौ ॥३४७॥
कङ्कणे रत्नमाणिक्यवज्रवैडूर्यनिर्मिते ।
द्वात्रिंशाद्भारसंयुक्ते अनर्घे दत्तवान् नृपः ॥३४८॥
नागभूषणयुग्मं च बाहुपूरादिकांस्तथा ।
भूषणान्यङ्गुलीयांश्च दशानां वीरमुद्रिकाम् ॥३४९॥
कटिसूत्रं स्वर्णमयं वरवज्रसमन्वितम् ।
पादुके च ततो राजा दत्तवान् मधुघातिने ॥३५०॥
ददौ भोजनपात्रं च षष्टिभारयुतं प्रभोः ।
लघुपात्रसमोपेतं बृहत्पात्रमपां तथा ॥३५१॥
कम्बलानां चतुःषष्टिं दत्तवान् राजसत्तमः ।
भूषणैर्भूषिताङ्गस्य कन्यादानमथाकरोत् ॥३५२॥
कन्याप्रवरमूचेऽथ गुरुः साक्षाद् बृहस्पतिः ।
गुरुवसिष्ठकथितवधूवरप्रवरादिकम् ।
बृहस्पतिरुवाच ।
अत्रिगोत्रसमुद्भूतां सुवीरस्य प्रपौत्रिकाम् ॥३५३॥
सुधर्मणस्तु पौत्रीं च पुत्रीमाकाशभूपतेः ।
त्वमङ्गीकुरु गोविन्द कन्यां कमलोचनाम् ॥३५४॥
एवमुक्ते महाराजो मुदा रत्नाम्बरं ददौ ।
वसिष्ठ उवाच ।
प्रपौत्रस्य ययातेस्तु पौत्रस्यामिततेजसः ॥३५५॥
शूरसेनस्य राजेन्द्र वसुदेवस्य भूपतेः ।
पुत्रस्य वेङ्कटेशस्य गोत्रे वासिष्ठसञ्ज्ञके ॥३५६॥
जातस्यात्रिकुलोत्पन्नां कन्यां कनकभूषिताम् ।
ग्रहीष्यामो वयं राजन् तव पुत्रीं नृपोत्तम ॥३५७॥
कन्यावरप्रवरयोरित्युच्चारितयोरथ ।
धरण्या सह राजेन्द्रः कन्यादानपरायणः ॥३५८॥
प्रहृष्टहृदयः प्राह श्रीनिवासं परात्परम् ।
श्रीनिवासस्य वसिष्ठादिकारितपद्मावतीपाणिग्रहणोत्सवः ।
आकाशराज उवाच ।
कन्यामिमां प्रदास्यामि गृहाण पुरुषोत्तम ॥३५९॥
इत्युक्त्वा प्राक्षिपद् राजा धरण्या स्रावितां तदा ।
मन्त्रपूतां स्वामितीर्थधारां सकनकां करे ॥३६०॥
दक्षिणे श्रीनिवासस्य ददौ पद्मावतीं ततः ।
विधानं च ततश्चक्रे राजेन्द्रः सपुरोहितः ॥३६१॥
पूजयित्वा जगन्नाथं गन्धवस्त्रानुलेपनैः ।
कङ्कणं बन्धयामास वासुदेवकराम्बुजे ॥३६२॥
पद्मावत्याः कराम्भोजेऽबन्धयत् कङ्कणं गुरुः ।
तथा माङ्गल्यसूत्रस्य बन्धं वैवाहिकं तदा ॥३६३॥
श्रीनिवासेन देवेनाकारयत् स पुरोहितः ।
सुकन्या ऊचुः ।
सावित्रीव च कल्याणि बहुपुत्रवती भव ॥३६४॥
सर्वलोकस्य जननी भव मङ्गलदायिनी ।
इत्थं सुमङ्गलीस्त्रीषु गायन्तीषु शुभाशिषः ॥३६५॥
ब्राह्मणानां करस्पर्शाद् राज्ञश्चापि महात्मनः ।
बबन्ध पूतं माङ्गल्यसूत्रं मन्त्राभिमन्त्रितम् ॥३६६॥
कण्ठे पद्मावतीदेव्याः श्रीनिवासो जगत्पतिः ।
मुनिभिः सह विद्वद्भिर्लाजैर्होमं पुरोहितः ॥३६७॥
वसिष्ठोऽकारयत् पद्मावत्यञ्जल्यर्पितैस्ततः ।
यजुःशाखाक्रमेणैव जुहावाग्नौ यथाविधि ॥३६८॥
सर्वं वैवाहिकविधिं वसिष्ठोऽथ समापयत् ।
ततः पुरोहितो राज्ञः स्वस्तिवाचनपूर्वकम् ॥३६९॥
मुनीनामञ्जलिपुटे नवरत्नाक्षतान् ददौ ।
ते वेदमन्त्रैर्जगदीशमूर्ध्नि रत्नाक्षतान् वेदविदः प्रचिक्षिपुः ॥३७०॥
तदा नृणां तत्र महोत्सवोऽभूदाकाशराजस्य पुरीनिवासिनाम् ।
तस्मिन् काले महाराजो दक्षिणां ब्रह्मवादिनाम् ॥३७१॥
दापयामास सन्तुष्टो विप्रैस्ताम्बूलपूर्वकम् ।
गवां कोटिसहस्राणि चाश्वानामयुतं तथा ॥३७२॥
वस्त्राणां निचयं राजन् विप्रेभ्यो दत्तवान् विभुः ।
एवं महोत्सवस्तत्र समभूद् दशमीदिने ॥३७३॥
वधूवरौ प्रतिष्ठाप्य भोजयामास वै ततः ।
अन्नं बहुविधं सूपरसभक्ष्यसमन्वितम् ॥३७४॥
परमान्नं च सघृतं सक्षीरं शर्करायुतम् ।
पुरोहितेन सहितो भोजनं कृतवान् हरिः ॥३७५॥
मात्रा लक्ष्म्या च सहितः पुत्रेण सहितस्तथा ।
आकाशराजो धर्मात्मा भुक्तवान् कृष्णसन्निधौ ॥३७६॥
लक्ष्म्या समेता धरणी तथा बकुलमालया ।
अभुङ्क्तान्नं रसैर्युक्तं पतिपुत्रसमन्विता ॥३७७॥
ततः प्रभाते राजेन्द्र सुवासिन्यः सुरेशितुः ।
मज्जनं कारयामासुर्गन्धतैलैः सुनिर्मलैः ॥३७८॥
अन्योन्यमज्जनं तत्र चान्योन्योद्वर्तनं तथा ।
हरिपद्मावतीदेव्योस्ताः सहासमकारयन् ॥३७९॥
स राजा विप्रमुख्यानां सुराणां बहुभोजनम् ।
स्त्रीणां च पुरुषाणां च बहुमानपुरस्सरम् ॥३८०॥
यथेष्टं दापयामास हृष्ट आकाशभूमिपः ।
अपूपान् विविधांश्चक्रे सूपशाकादिकांस्तथा ॥३८१॥
घृतकुल्यां क्षीरकुल्यां दधिकुल्यां ततः परम् ।
तत उद्धृत्य निःक्षिप्तं बहिर्भुक्तवतां नृणाम् ॥३८२॥
उच्छिष्टपत्रजालं च पुष्कलान्नादिसंयुतम् ।
सारमेयगणैः कीर्णं राक्षसानां गणैस्तथा ॥३८३॥
एवं कोलाहलं चक्रे दिवसांश्चतुरस्तथा ।
हासस्तत्र विनोदेन नित्यमासीच्च मज्जनम् ॥३८४॥
दिवसे पञ्चमे प्राप्ते कृत्वा नाकबलिं तथा ।
कलशांश्चतुरो न्यस्य दीपज्वालाविराजितान् ॥३८५॥
वधूवरौ प्रतिष्ठाप्य रत्नसिंहासने नृप ।
पूजयामास गोविन्दं जामातरमनामयम् ॥३८६॥
आकाशराजो धर्मात्मा क्षीरपात्रं करे दधत् ।
मातरं वासुदेवस्य नाम्ना बकुलमालिकाम् ॥३८७॥
पूजयित्वा विधानेन वस्त्रालङ्कारभूषणैः ।
नाभिं क्षीरेण सम्मृज्य पुत्रीं पद्मावतीं तदा ॥३८८॥
अर्पयामास दुःखेन ब्रह्मण्यो राजसत्तमः ।
महालक्ष्म्या नाभिमूलं सघृतक्षीरसेचनम् ॥३८९॥
कृत्वाऽर्पयामास पुत्रीं रुदन् गद्गदकण्ठवान् ॥३९०॥
श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम् ।
श्रीनिवासस्य कृष्णस्य शेषाचलनिवासिनः ।
राजभार्या महाभागा रुदन्ती कुररीव च ॥३९१॥
पुत्रीहस्तं प्रदायाथ हस्ते राजकुलाङ्गना ।
क्षीरं संयोज्य कृष्णस्य नाभिमूलेऽतिदुःखिता ॥३९२॥
भृशं रुदन्ती मन्त्रेण दुग्धसन्दिग्धलोचना ।
अर्पयामास कृच्छ्रेण पुत्रीं पद्मावतीं ततः ॥३९३॥
प्रोवाच च श्रीनिवासं रुदती राजवल्लभा ।
धरण्युवाच ।
पालितां लालितां पुत्रीं नवमासधृतां मया ॥३९४॥
त्वदधीनां जगन्नाथ ! करिष्ये मम नन्दिनीम् ।
इत्येवमर्पयन्त्यां तु धरण्यां राजसत्तमः ॥३९५॥
स तस्या रोदनं दृष्ट्वा राजा दुःखपरायणः ।
रुरोद दीनवदनः पुत्रीमालिङ्ग्य भूपतिः ॥३९६॥
राजोवाच ।
हा पुत्रि ! मन्दभाग्योऽहं त्वद्वियोगेन केवलम् ।
जीवनं मम कल्याणि ! न स्थिरं च भविष्यति ॥३९७॥
कीडागृहे राजपुत्रि ! तथा भोजनसद्मनि ।
भ्राता तव कथं क्रीडां भोजनं वा करिष्यति ॥३९८॥
एवं रुदन्तमालोक्य भ्रातरं दीनचेतसम् ।
तोण्डमानो नृपश्रेष्ठो दुःखितो वाक्यमब्रवीत् ॥३९९॥
तोण्डमान उवाच ।
'वयं दरिद्रा निर्भाग्याः कृपणा दीनचेतसः ।
वयं मरणमापन्ना नात्र कार्या विचारणा ॥४००॥
एतादृशी च कल्याणी नैव लब्धा कलौ युगे ।
इत्थं वयं निश्चिनुमो वियोगभृशदुःखिताः ॥४०१॥
एवं तान् रुदतो दृष्ट्वा वसुदानोऽतिदुःखितः ।
भगिनीं दीनवदनां आलिङ्ग्याह रुदन् मुहुः ॥४०२॥
वसुदान उवाच ।
मातरं बालकं त्यक्त्वा यथा लोके धनार्जकः ।
गच्छेत् तथा मां भगिनि ! त्यक्ता त्वं क्व नु गच्छसि ॥४०३॥
एवं प्रसङ्गात् तत्रासीत् देवानामपि भूमिप ! ।
ऋषीणां कश्यपादीनां दुःखमत्यन्तदारुणम् ॥४०४॥
रुदन्तं नृपतिं दृष्ट्वा श्रीनिवासः सतां गतिः ।
स्वयं रुरोद गोविन्दो भगिनीं पार्थवल्लभाम् ॥४०५॥
स्मृत्वा श्रीदेवकीपुत्रः तदद्भुतमिवाभवत् ।
इत्थं कृत्वा लोकरीतिमैरावतमुपास्थितः ॥४०६॥
पद्मावत्या तया सार्धं सर्ववाद्यसमन्वितः ।
ग्रामं प्रदक्षिणीकृत्य रमया सहितो हरिः ॥४०७॥
स्वनिवेशगृहं भेजे पद्मासनभवादिकैः ।
ततो हरिः श्रीनिवासः स्वस्थानं गन्तुमैहत ॥४०८॥
गरुडस्कन्धमारूढः पत्नीं पद्मावतीमपि ।
आरोपयन् वरारोहामन्योन्यं परिरभ्य च ॥४०९॥
गरुडस्कधमारूढो गन्तुं स्वस्थानमुत्सुकः ।
हरिरामन्त्रणार्थं तु श्वश्रूश्वशुरयोस्तदा ॥४१०॥
पुनर्गृहं सम्प्रविश्य गमनेच्छुरभूदथ ।
श्वशुरौ पर्यपृच्छच्च साष्टाङ्गं प्रणिपत्य वै ॥४११॥
आशीर्वादं ततश्चक्रे स्वजामातुरनामयम् ।
आकाशराजः श्वशुरः श्वश्र्वा च धरया सह ॥४१२॥
आकाशराज उवाच ।
दीर्घायुभव गोविन्द ! सर्वलोकधुरन्धर ।
इत्याशिषाऽभिनन्द्याथ वासुदेवमभाषत ॥४१३॥
राजोवाच ।
मासान्ते गच्छ गोविन्द ! वध्वा सह वयोगतम् ।
श्वशुरं मां च ते श्वश्रूं मानयस्व महामते ॥४१४॥
इति तस्य वचः श्रुत्वा वासुदेवोऽब्रवीन्नृपम् ।
श्रीनिवास उवाच ।
नृप ! वाक्यं शृणु मम कार्यस्य महती त्वरा ॥४१५॥
तस्मादाज्ञां च मे देहि राजंस्ते स्यात् कृपा मयि ।
इत्युक्त्वा वासुदेवस्तु गरुडस्कन्धमास्थितः ॥४१६॥
जगाम भगवान् साक्षात् सर्वदेवसमन्वितः ।
आकुला व्याकुलाः सर्वे नगरस्था जनास्तदा ॥४१७॥
प्राकारगोपुरारूढाः पश्यन्तः स्वदृशाऽवदन् ।
'धन्या राजकुलोत्पन्ना पद्मा कमललोचना' ॥४१८॥
अनुगच्छति गोविन्दं पश्यतेति परस्परम् ॥४१९॥
पद्मावतीश्रीनिवासयोर्वियन्नृपप्रेषितपारिबर्हादिः ।
तदा ददौ महाराज: पारिबर्हं श्रियःपतेः ।
तण्डुलान् शालिसम्भूतान् वृषभाणां रथोपरि ॥४२०॥
आरोप्य प्रेषयामास शतं खारीर्वियन्नृपः ।
मुद्गान् गोस्वामिसंरूढान् त्रिंशत्खारीर्ददौ हरेः ॥४२१॥
गुडभारं महान्तं च तिन्त्रिणीभारमेव च ।
पयोघटसहस्राणि दधिभाण्डशतानि च ॥४२२॥
सहस्रार्धं घृतापूर्णचर्मपात्राणि सर्षपान् ।
मेथिकान् हिङ्गुलवणतिलपात्राणि चैव हि ॥४२३॥
तथा शर्करया पूर्णघटांस्तु द्वे शते तथा ।
वार्ताकं चूतकदलीफलजम्बीरकाणि च ॥४२४॥
कूष्माण्डकन्दमूलानि मरीचामलकानि च ।
मधुभाण्डशते द्वे च रम्भाकाष्ठचयांस्तथा ॥४२५॥
रम्भात्वचश्च राजेन्द्र ! पत्राणां निचय तथा ।
अश्वानामयुतं दत्त्वा गजानां च सहस्रकम् ॥४२६॥
धेनूनां पञ्चसाहस्रमाविकानां शतं तथा ।
दासीनां द्वे शते राजन् ! दासानां त्रिशतं तथा ॥४२७॥
वस्त्राणि विविधान्याशु पर्यङ्कं रत्नभूषितम् ।
उपबर्हं रत्नयुतं पारिबर्हेण संयुतम् ॥४२८॥
एवमादीनि वस्तूनि गृहीत्वा नृपसत्तमः ।
पुत्रेण सहितो राजा श्रीनिवासपरायणः ॥४२९॥
आकाशराजो धर्मज्ञः श्रीनिवासस्य सन्निधिम् ।
आगतः श्वशुरं दृष्ट्वा चोत्तस्थौ जगदीश्वरः ॥४३०॥
वियन्नृपस्य श्रीनिवासदत्तस्वभक्तिनैरन्तर्यरूपवरप्राप्तिः ।
श्रीनिवास उवाच ।
'दूराध्वानं महाराज ! किमर्थं त्वं समागतः ।
दातव्यं किं नृपश्रेष्ठ ! तव पुत्रस्य मेऽनघ ! ॥४३१॥
कन्या दत्ता सुतः प्राप्तः सुकृतं किं कृतं त्वया ।
सन्तोषश्चातुलः प्राप्तो मम तात ! न संशयः ॥४३२॥
किं ते मनोगतं राजन् ! तन्ममाचक्ष्व भूपते ! ।
सन्देहं मा कुरुष्वात्र दानादाने महीपते ॥४३३॥
वासुदेववचः श्रुत्वा वासुदेवमभाषत ।
'सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव ! ॥४३४॥
नान्यद् याचे जगन्नाथ ! तव पादसरोरुहे ।
भक्तिं देह्यचलां कृष्ण ! सकुटुम्बस्य मेऽनघ' ॥४३५॥
तच्छ्रुत्वा वचनं तस्य श्वशुरस्य महात्मनः ।
दत्तवानस्य सायुज्यमाकाशनृपतेस्तदा ॥४३६॥
श्यालकस्य ददौ वस्त्रं स्वाङ्गस्थं मधुसूदनः ।
जामात्रा च समाज्ञप्तः पुत्रीभवनमभ्यगात् ॥४३७॥
पुत्रि ! गच्छामि नगरं विहरस्व हरिप्रिये ।
शयने श्रीनिवासस्य शयनं कुरु मङ्गले ॥४३८॥
इति राजा ! सान्त्वयित्वा पुत्रीं कमललोचनाम् ।
शशास सा स्वपित्रोक्तं शीघ्रं माधवमभ्यगात् ॥४३९॥
रुदन् गद्दकण्ठेन जगाम नगरं नृपः ।
भगवत्कृतषण्मासावधिकागस्त्याश्रमवासप्रतिज्ञा ।
पद्मावत्यनुगो देवो ब्रह्मरुद्रादिकैर्युतः ॥४४०॥
सुवर्णमुखरीं प्राप्य तत्र वासमकल्पयत् ।
षण्मासावधि लक्ष्मीशो दीक्षितोऽहं महामते ! ॥४४१॥
न शैलराजमारोहमिति निश्चित्य देवराट् ।
अगस्त्यभवनं गत्वा तत्र वासमकल्पयत् ॥४४२॥
स्वावासं प्रति भगवत्कृतदेवादिप्रेषणम् ।
देवान् सम्प्रेषयामास स्वधामानि वृषाकपिः ॥४४३॥
ब्रह्मादीनां सुराणां च मुनीनामूर्ध्वरेतसाम ।
ददौ वस्त्रं यथायोग्यं भगवान् भक्तवत्सलः ॥४४४॥
तेनाऽज्ञप्ता जगद्धात्रा जग्मुर्लोकं स्वकं सुराः ।
ऋषयश्च तपोऽरण्यं जग्मुर्नारायणाज्ञया ॥४४५॥
लक्ष्मीर्जगाम राजेन्द्र ! करवीरपुरं तदा ।
महोत्सवं तं त्वनुभूय देवताः ब्रह्मेशपूर्वाः समहर्षिसत्तमाः ॥४४६॥
जग्मुः स्वकं धाम महानुभावा राजेन्द्रपूज्यं प्रशशंसुरादरात् ।
गते देवगणे तत्र त्वगस्त्यनिलयं गतः ॥४४७॥
भुञ्जानो भोगमतुलं तत्राऽस्ते भगवान् हरिः ।
विवाहाध्यायफलश्रुतिः ।
शतानन्द उवाच ।
विवाहाध्यायमाहात्म्यं ये शृण्वन्ति जनेश्वर ! ॥४४८॥
तेषां भाग्योदयं वक्ष्ये शृणु राजन् ! सविस्तरम् ।
कोटिकन्याप्रदानेन यावद् भूमिप्रदानतः ॥४४९॥
यत्फलं लभते देही तत्फलं श्रवणादरात् ।
ये उत्सवं कारयन्ति वैवाहं वेङ्कटेशितुः ॥४५०॥
तस्योत्सवो भवेद् राजन् ! वेङ्कटेशप्रसादतः ।
इति ते कथितं राजन् ! विवाहचरितं हरेः ॥४५१॥
शृणुयाच्छ्रावयेद् वाऽपि सर्वाभीष्टमवाप्नुयात् ।
शुभदं शृण्वतां चैव सर्वेषां मङ्गलप्रदम् ॥४५२॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासविवाहवर्णनं नाम एकादशोऽध्यायः ।
अथ द्वादशोऽध्यायः ।
श्रीनिवासं प्रति वियन्नृपोदन्तज्ञापकदूतागमनम् ।
जनक उवाच ।
ततः किमकरोत् कृष्णो राज्येऽस्मिन् पार्थसारथिः ।
तन्ममाचक्ष्व विप्रेन्द्र ! यत्कृतं चक्रपाणिना ॥१॥
शतानन्द उवाच ।
एवं काले गते तस्मिन् षण्मासाश्च समत्ययुः ।
नारायणपुराद् दूत आगतो वेङ्कटेश्वरम् ॥२॥
दृतं दृष्ट्वाऽब्जजाता सा सुवर्णमुखरीजले ।
स्नातुकामाऽरविन्दाक्षी दूतं वचनमब्रवीत् ॥३॥
पद्मावत्युवाच ।
'किमर्थमागतो दूत ! केन त्वं प्रेषितस्त्विह ।
राज्ञा वा राजपुत्रेण तोण्डमानेन वा पुनः? ' ॥४॥
पप्रच्छ कुशलं तं च राज्ञः तस्य पितुस्तथा ।
'कुशली वर्तते चार ! जनको जननी मम? ॥५॥
तोण्डमान् राजशार्दूल: कुशली वर्तते बली ! ।
राज्ञः प्रकृतयः सर्वा वर्तन्ते क्षेमसंयुताः ॥६॥
एवमुक्तस्तदा दूतो दुःखसन्दिग्धलोचनः ।
उवाच दीनया वाचा राजपुत्रीं निदेशतः ॥७॥
'किं वदिष्यामि हे मातः ! पितुस्ते काल आगतः ।
मरणाभिमुखो भूत्वा किञ्चिज्जीवसमन्वितः ॥८॥
त्वां द्रष्टुकामो राजेन्द्रः श्रीनिवासं सुहृद्वृतम् ।
नय शीघ्र पतिं भद्रे ! राजधानीं पितुस्तु ते ॥९॥
साऽपि दूतवचः श्रुत्वा पपात गतचेतना ।
अगस्त्यभार्या तां बालामुत्थाप्य कमलालयाम् ॥१०॥
श्रीनिवासान्तिकं निन्ये राजपुत्रीं पितृप्रियाम् ।
तद्वार्तामवदद् देवी श्रीनिवासाय विष्णवे ॥११॥
तच्छ्रुत्वा वासुदेवस्तु रुरोद नरसत्तम ।
श्रीनिवास उवाच ।
'अहो बत महत्कष्टं सम्प्राप्तं मम भामिनि ! ॥१२॥
किं करोमि क्व गच्छामि ? ब्रूहि त्वं पद्मसम्भवे !' ।
इत्येवमुक्ता तां देवीमब्रवीत् कुम्भसम्भवम् ॥१३॥
वियन्नृपविलोकनाय अगस्त्येन सह श्रीनिवासगमनम् ।
श्रीभगवान् उवाच ।
'अगस्त्य मुनिशार्दूल ! गच्छामि नगरं प्रति ।
पद्मावत्या सहाद्यैव सार्धं बकुलमालया' ॥१४॥
इत्युक्त्वा प्रययौ राजन् ! भगवान् भक्तवत्सलः ।
अगस्त्येनापि सहितस्त्वरयैव महर्षिणा ॥१५॥
आदित्येऽस्तं गते राजन् ! नगरद्वारमागतः ।
पप्रच्छ द्वारपालांश्च राजक्षेमं सुरेश्वरः ॥१६॥
राजमार्गे महाराज ! भगवान् प्रियया सह ।
अन्तर्निकेतनं प्राप्य राजानं पृथिवीपते ! ॥१७॥
शयानं दर्शयामास विनिःश्वाससमन्वितम् ।
पपातास्य महाराज ! काये कमललोचनः ॥१८॥
मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रीनिवासादिकृतनिवेदनम् ।
मुखे मुखं विनिःक्षिप्य ललाटं च ललाटके ।
उदरे चोदरं बद्ध्वा नेत्रं नेत्रे समर्पयत् ॥१९॥
अगसङ्गं ददौ तस्य श्वशुरस्य महात्मनः ।
'हा तात ! नाथ ! क्व गतोऽसि च त्वं सन्त्यज्य देहं स्वसुतं स्वपुत्रीम् ॥२०॥
स्वभ्रातरं सूक्ष्ममतिं सराष्ट्रकं राज्यं त्वदीयं क्व विसृज्य गच्छसि ! ।
मातृपितृविहीनानामस्माकं जनको भवान् ॥२१॥
कथं पश्यामि नेत्राभ्यां त्वन्मुखाम्भोजमुत्तमम् ।
उत्थापय सुतां राजन् ! रुन्दतीं तनयं तथा ॥२२॥
वसुदानं शिशुं राजन् ! पितृहीनं च मां नृप ! ।
कस्त्राता त्वां विना राजन् ! अस्माकं तु भविष्यति ॥२३॥
अनाथान् नाथ ! नः पाहि प्रजाः पाहि प्रजापते ।
प्रलपन् पुनरप्याह लोकानित्थं विडम्बयन् ॥२४॥
कलेवरं कथं दास्याम्यग्नये लोकमोहनम् ।
एतदर्थं स्वपुत्रीं मे दत्त्वा मृतिमवाप्स्यसि ॥२५॥
श्रीनिवास ! न गच्छेति पूर्वमेव त्वयोदितम् ।
उक्तं हितं मया तात न श्रुतं ते महीपते ॥२६॥
न तृप्तं नेत्रयुगलं दृष्ट्वा त्वन्मुखपङ्कजम् ।
तोण्डमान् मण्डलाधीशो वसुधायां महामते ! ॥२७॥
का गतिर्मम राजेन्द्र ! का वार्ता क्व भविष्यति ! ।
विलोकय महाराज ! मां च पद्मावतीं तथा' ॥२८॥
मुनिरुवाच ।
'जामाताऽयं समायातः पद्मावत्या समन्वितः ।
बहिर्गच्छ पुरेव त्वं समानयनकारणात् ॥२९॥
भोजनं दीयतां तस्य जामातुः परितोषकम् ।
गजानश्वान् महाराज ! वस्त्राणीच्छति ते सुतः ॥३०॥
तां ददस्व महाराज ! प्रीतये मधुघातिनः' ।
इत्यगस्त्येन वै राज्ञि बोधितेऽप्यप्रबोधिनि ॥३१॥
विललाप महाराज भगवाँल्लौकिकैः समः ।
तदद्भुतं कर्म चकार देवो विडम्बयन् सर्वजनं जगत्पतिः ॥३२॥
यथा कुरूणां रणरङ्गमध्ये कर्णे हते धर्मराजश्चकार ।
एवं रुदति गोविन्दे राजाऽऽकाशश्श्वसन् नृप ! ॥३३॥
किञ्चित्सञ्ज्ञायुतो भूत्वा वासुदेवमभाषत ।
राजोवाच ।
'पुत्रं सभ्रातरं त्राहि श्रीनिवास ! निरामय ! ' ॥३४॥
इत्युक्त्वा भूपती राजन् ! करे कृष्णस्य तौ ददौ ।
भार्यां सन्देशयामास स्वलोकगमनाय च ॥३५॥
इत्यादिश्य त्यजन् प्राणान् सत्यलोकं जनाधिपः ।
दिव्यं विमानमारूढो जगाम स नृपोत्तमः ॥३६॥
साऽपि तेन जगामाशु धरणी राजसत्तम ! ।
मृताय वियन्नृपाय वसुदानकृतचरमकृत्यक्रमः ।
ततश्चितां समारोप्य राजानं सपरिग्रहम् ॥३७॥
वसिष्ठो गौतमोऽत्रिश्च भरद्वाजोऽतिविश्रुतः ।
वहन्तो राजशार्दूल ! श्रीनिवासप्रियं नृप ॥३८॥
जुहुवुर्ब्रह्ममेधेन मन्त्रैश्च विधिपूर्वकम् ।
ततः कृतानि सर्वाणि प्रेतकार्याणि भूपतेः ॥३९॥
षोडशे दिवसे प्राप्ते मासिकान्यकरोत् सुतः ।
निमन्त्रिताश्चारुपुण्याः ब्राह्मणा वेदपारगाः ॥४०॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
वामदेवः पुलस्त्योऽथ वाल्मीकिर्वसुधाधिप ! ॥४१॥
जमदग्निर्भृगुः श्रीमान् सनन्दश्च पराशरः ।
याज्ञवल्क्यश्च जाबालिः शुनःशेपोऽथ काहलः ॥४२॥
एते महर्षयो राजन् ! राजार्थे ब्राह्मणोत्तमाः ।
अभुञ्जातन्नसारं च वसुदाननिमन्त्रिताः ॥४३॥
समाप्य सर्वकार्याणि हरिः स्वस्थानमाश्रितः ।
पद्मावतीं पुरस्कृत्य पुराणपुरुषोत्तमः ॥४४॥
अगस्त्यालयमासाद्य सुखमास्त सुरेश्वरः ।
तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृत्तिः ।
मृते राज्ञि गते कृष्णे कलहः प्रत्यपद्यत ॥४५॥
तोण्डमानपतेस्तस्य विष्वक्सेनस्य भूमिप ! ।
तोण्डमान उवाच ।
'ज्येष्ठे मृते कनिष्ठस्य राज्यमेतद्विदो विदुः ॥४६॥
परम्परार्जितं ही'ति तोण्डमानब्रवीत् सुतम् ।
वसुदान उवाच ।
'पराक्रम्यार्जितं राज्यं पित्रा मम नृपोत्तम ! ॥४७॥
ममैव स्यादिदं ही'ति तोण्डमानं सुतोऽब्रवीत् ।
एवं विवादमापन्नौ तोण्डमान्नृपपुत्रकौ ॥४८॥
राजशार्दूल ! राज्यार्थमुभावपि महाबलौ ।
अन्तरं कृतवन्तौ तौ युद्धे यस्य जयो भवेत् ॥४९॥
तस्य राज्यमिदं सर्वमन्यथाऽधो व्रजेदिति ।
कृत्वा समयमारब्धौ सङ्गरं जयकाङ्क्षिणौ ॥५०॥
नानादेशकिरातांश्च क्षत्रियान् युद्धदुर्मदान् ।
आवाहयच्च राजेन्द्र ! तोण्डमान् युद्धदुर्मदः ॥५१॥
अक्षौहिणीद्वयं तेन सैन्यं सम्पादितं नृप ! ।
तावद् राजकुमारेण मिलितं सैन्यमक्षयम् ॥५२॥
साह्याशया श्रीनिवासं प्रति तोण्डमान्वसुदानागमनम् ।
नारायणपुरप्रान्ते दक्षिणे रणमेदिनी ।
कृत्वा साह्याशया राजन् ! तोण्डमान्राजनन्दनौ ॥५३॥
सम्प्राप्तौ वासुदेवस्य चरणौ शरणं गतौ ।
तावागतौ राजकुमारराजौ दृष्ट्वाऽतिवेगेन स चालिलिङ्ग ॥५४॥
सम्भाष्य दत्त्वाऽपि च रत्नपीठं प्रीत्याऽतिहृष्टो वचनं बभाषे ।
श्रीनिवास उवाच ।
'किमर्थमागमस्तात ! तन्ममाचक्ष्व भूमिप !" ॥५५॥
श्रीनिवासवचः श्रुत्वा श्यालकस्तमभाषत ।
श्यालक उवाच ।
'युद्धे प्रसक्तं गोविन्द ! कनिष्ठजनकेन मे ॥५६॥
राज्यार्थं मम साहाय्यं कुरु वारिजलोचन ! ।
बालोऽस्मि पितृहीनोऽहमसहायोऽस्मि देवराट् ! ॥५७॥
श्यालकस्य वचः श्रुत्वा राजा तं वाक्यमब्रवीत् ।
राजोवाच ।
श्रीनिवासारविन्दाक्ष ! कुरु कार्यं पुरः स्थितः ॥५८॥
श्रीनिवास उवाच ।
एकोऽहं कस्य साहाय्यं करिष्ये नृपसत्तम !' ।
तमेवमुक्त्वा भगवान्नन्तर्भवनमभ्यगात् ॥५९॥
पद्मावत्युक्त्या वसुदानसाह्यकरणाय श्रीनिवासागमनम् ।
पद्मावतीं विशालाक्षीं पद्मनाभोऽभ्यभाषत ।
श्रीनिवास उवाच ।
कल्याणि ! कार्यमापन्नं महत्कष्टतरं मम ॥६०॥
तव भ्राता वरारोहे कनिष्ठजनकस्तव ।
राज्यार्थं कलहं कृत्वा मम साहाय्यकाङ्क्षिणौ ॥६१॥
छिन्धि सन्देहमधुना कस्य साह्यं विधीयताम् ।
नियोजयस्व मां देवि युक्तमालोच्य विस्तरात् ॥६२॥
पद्मावत्युवाच ।
'धर्माधर्मौ मनुष्याणां सर्वदा संस्थितौ हरे ! ।
धर्ममेव प्रशंसन्ति सर्वदा ब्रह्मवादिनः ॥६३॥
धर्म एव त्वया कार्यो धर्माधारो भवानिह ।
बालकः पितृहीनश्च मातृहीनोऽधनः कृशः ॥६४॥
तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम ।
स राजा बहुवित्ताढ्यो राज्यकाङ्क्षी पितुर्मम ॥६५॥
स एव सर्वधर्मज्ञस्तोण्डमान् नृपसत्तमः ।
सर्वधर्मस्य वै तत्त्वमालोचयितुमर्हति' ॥६६॥
पद्मावतीवचः श्रुत्वा श्यालकस्यैव साह्यकृत् ।
तोण्डमान्नृपतेर्दिव्ये शङ्खचक्रे ददौ हरिः ॥६७॥
उच्चैःश्रवं समं चाश्वं समारुह्य खगध्वजः ।
जगाम युद्धकुशल: श्यालकेनाथ सङ्गतः ॥६८॥
श्रीनिवासतोण्डमान्वसुदानयुद्धप्रकारः ।
चैत्रशुक्लत्रयोदश्यां युद्धं परमदारुणम् ॥६९॥
कुरूणां पाण्डवानां च यथा युद्धं तथाऽभवत् ।
रणस्तम्भे महाघोरे हते पशुगणे ततः ॥७०॥
शूराणां रणधीराणां सम्मर्दस्तु बभौ तदा ।
सिंहनादः शङ्खनादस्तथा दुन्दुभिनिस्वनः ॥७१॥
शस्त्राणामस्त्रमुख्यानां गजानां च महास्वनः ।
हयानां वृषभाणां च रथानां च परस्परम् ॥७२॥
पद्मगृध्रव्यूहकारी तयोर्मध्ये जगत्पतिः ।
रराज भगवान् साक्षात् रणमण्डलमभ्यगात् ॥७३॥
विष्वक्सेनस्तोण्डमानं दशभिः सायकैर्नृप ।
ताडयामास राजेन्द्रमर्धचन्द्रैरजिह्मगैः ॥७४॥
श्रीनिवासस्तोण्डमानं राजपुत्रोऽतिबालकः ।
शराणां पञ्चसाहस्र्या श्रीनिवासं च वक्षसि ॥७५॥
ताडयामास वेगेन सर्वान् विस्मापयन् जनान् ।
तोण्डमानोऽपि राजर्षिर्विष्वक्सेनं च माधवम् ॥७६॥
वासुदेवो राजपुत्रं बाणैर्दशभिरेव च ।
जघान तरसा बालं तदद्भुतमिवाभवत् ॥७७॥
चतुर्भिश्चतुरो वाहान् बाणेनैकेन सारथिम् ।
छत्रमेकेन राजेन्द्र ! रथं पञ्चेषुभिस्तथा ॥७८॥
रथादवप्लुत्य महानुभावः स राजपुत्रस्त्रिदलं च चक्रम् ।
चिक्षेप कृष्णे च हयोत्तमे च वक्षःस्थले वासववज्रकल्पम् ॥७९॥
रणरङ्गे मूर्छितं श्रीनिवासं दृष्ट्वा पद्मावत्यनुशोचनम् ।
तेनातिविद्धो निपपात भूमौ चक्रेण चक्राङ्कितबाहुदण्डः ।
शेषाचलेशो रणरङ्गगामी मनुष्यभावेन विडम्बयन् जनान् ॥८०॥
मूर्छामुपागम्य हयोत्तमाद्धरिः यथा मनुष्यो रणरङ्गमध्यतः ।
तथा ह्यसौ देवगणस्य मध्ये सविस्मयोत्फुलविलोचनस्य ॥८१॥
तदा प्राकारमारूढा राजपुत्री हरिप्रिया ।
अगस्त्यमब्रवीद् राजन् ! चक्रपाणेर्निपातनम् ॥८२॥
पद्मावत्युवाच ।
'अगस्त्य ! पश्य गोविन्दं पतितं रणमण्डले ।
अवस्था किमियं प्राप्ता रणे कृष्णेन दृश्यताम् ॥८३॥
मूर्छां गतो वा किमयं मनो मे भ्रमते मुने ! ।
किमत्र कार्यं योगीन्द्र ! तन्ममाचक्ष्व कुम्भज ! ॥८४॥
पद्मावतीवचः श्रुत्वा पद्मनाभं च संस्मरन् ।
उवाच वचनं श्लाघ्यं राजन् ! कालोचितं मुनिः ॥८५॥
अगस्त्य उवाच ।
'देशकालावतिक्रम्य यः कर्म कुरुते नरः ।
न स गच्छेत् कर्मफलं न सुखं विन्दते नरः ॥८६॥
सर्वे स्वकार्ये निपुणाः परकार्ये न कश्चन ।
नालोकयति को वाऽपि त्वत्पतिं पतितं रणे ॥८७॥
क्षत्रियाणां शरीराणि रणरङ्गगतानि च ।
विकसत्सङ्गरोत्साहकौतुकान्युत्तरोत्तरम् ॥८८॥
जीवन्ति कुसुमायन्ते सजीवानि सतां प्रिये ! ।
निर्जीवानि तु तान्येव वीक्षते नैव कश्चन ॥८९॥
आजीवमेव शूरेभ्यः कार्यं गृह्येत राजभिः ।
तस्मात् त्वद्वल्लभदशां न कोऽप्यत्रानुशोचति ॥९०॥
तस्मात् त्वमस्य भद्रेच्छुर्निवर्तय पतिं रणात् ।
स्त्रीणां तु परमो धर्मः पतिभक्तिः पतिप्रिये ! ॥९१॥
भद्रं ते भ्रातुरेव स्यात् कनिष्ठपितुरेव वा ।
एवं मत्वा महाभागे ! कुरु त्वं त्वत्पतेर्हितम् ॥९२॥
मनसो मम कल्याणि ! सन्धियत्नः प्रशस्यते ।
तावुभौ राज्यकर्तारौ पितापुत्रौ न संशयः ॥९३॥
इत्युक्ता मुनिना तेन राजपुत्री समुत्थिता ।
प्राकारान्मुनिना सार्धं सङ्ग्रामधरणीं ययौ ॥९४॥
आन्दोलिकां महाराज ! हेमदण्डविभूषिताम् ।
आरुह्य राजतनया श्रीनिवासपरायणा ॥९५॥
गरुडध्वजमालोक्य पतितं पृथिवीतले ।
रणाग्रे स्वपतिं कृष्णं श्रीनिवासं सुरेश्वरम् ॥९६॥
सखड्गं वर्मसहितं समुत्थाप्य रणाङ्गणे ।
सशीतलोदकामोदैर्व्यजनैः साध्वमार्जयत् ॥९७॥
कुपितं श्रीनिवासं प्रत्यगस्त्यकृतपद्मावत्याशयज्ञापनम् ।
पद्मावत्यब्रवीच्चापि शोचन्ती ते पतिव्रता ।
पद्मावत्युवाच ।
उत्तिष्ठ रणभूम्यास्त्वं त्यक्त्वा मूर्छां खगध्वज !' ॥९८॥
इति विज्ञापितो देव्या पद्मावत्या तदा नृप ! ।
मुहूर्तमात्रं गोविन्दो नरलोकं विडम्बयन् ॥९९॥
मूर्छां गत इव स्थित्वा प्रबुद्ध इव चोत्थितः ।
उत्थाय रणभूम्यां स पश्यन् दश दिशो हरिः ॥१००॥
ददर्श स्वप्रियां राजन् ! स्थितां पद्मावतीं विभुः ।
भृकुटीयुतनेत्रं तु गर्हयन् वाक्यमब्रवीत् ॥१०१॥
श्रीनिवास उवाच ।
'अस्मिन् रणाजिरे घोरे वनितानां प्रयोजनम् ।
किमस्ति ? मुनिशार्दूल ! द्रुतमेषाऽद्य गच्छतु ' ॥१०२॥
इत्थमुक्तो भगवता पद्मावत्या सहाऽगतः ।
अगस्त्यः श्रीनिवासं तं प्रत्यभाषत तापसः ॥१०३॥
अगस्त्य उवाच ।
'सन्धिरत्र प्रकर्तव्यः श्रीनिवास ! सतां गते ।
उत्तिष्ठ श्यालकं बालं समानय नृपोत्तमम् ॥१०४॥
तोण्डमानं महाराजं तत्सुतं तं महाबलम् ।
श्रीनिवासाभिधानं च तव रोषाकरं हरे ! ॥१०५॥
समाधानं कर्तुकामा सम्प्राप्तैषा रणाङ्गणे ।
शोचन्ती तव दुःखेन भ्रातुश्च मरणं प्रति ' ॥१०६॥
अगस्त्यवचनं श्रुत्वा किञ्चित् क्रोधसमन्वितः ।
भर्त्सयन् पद्मनयनां सङ्ग्रामस्थलमागताम् ॥१०७॥
'अयुक्तं योषितां धीमन् ! सङ्ग्रामागमनं मुने ।
अथाहं तोण्डमानस्य शिरः कायाद्धराम्यहम् ॥१०८॥
तत्सुतं तं महाभागं श्रीनिवासं महाबलम् ।
हत्त्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते' ॥१०९॥
वासुदेववचः श्रुत्वा साष्टाङ्गं प्रणिपत्य सा ।
कृताञ्जलिपुटा भूत्वा देवं वाक्यमभाषत ॥११०॥
पद्मावतीप्रार्थनया श्रीनिवासकृततोण्डमानवसुदानसन्धिक्रमः ।
श्रीपद्मावत्युवाच ।
'स्वामिन् नाथारविन्दाक्ष श्रीनिवास ! कृपानिधे ! ।
दयां कुरु दयासिन्धो भक्तानामभयं कुरु ॥१११॥
किमनेन जगन्नाथ ! लोकनाशनकारिणा ।
उभौ राज्यस्य कर्तारौ भवतां राजसत्तमौ ॥११२॥
विभज्य राज्यं सर्वं च कोशं देहि रमापते ! ।
स्वस्त्यस्तु सर्वलोकेभ्यः पित्रे चापि कनीयसे ॥११३॥
प्रसादात् तव गोविन्द ! निवर्तस्व रणाङ्गणात् ' ।
इति प्रियावचः श्रुत्वा श्रीनिवास उवाच ताम् ॥११४॥
श्रीनिवास उवाच ।
क्षत्रधर्मं न जानासि त्वं गच्छाद्य रणाङ्गणात् ।
अथाहं तोण्डमानस्य सपुत्रस्य रणे शिरः ॥११५॥
पातयिष्ये महासङ्ख्ये पश्यतां सर्वदेहिनाम् ।
श्यालकार्थं म्रिये चापि नात्र कार्या विचारणा ॥११६॥
इत्युक्ता सा कम्पमाना मुनिमाह कृपानिधिम् ।
पद्मावत्युवाच
'निवर्तय रणात् त्वं वा वेङ्कटेशं मुनीश्वर !' ॥११७॥
इति विज्ञापितो देव्या लोपामुद्रापतिस्तदा ।
मुनिः प्रोवाच राजेन्द्र ! श्रीनिवासं रणप्रियम् ॥११८॥
सान्त्वयित्वा श्रीनिवासं विष्वक्सेनं महीपतिम् ।
विभक्तं कुरु गोविन्द ! राज्य कोशं तयोरिति ॥११९॥
अगस्त्यवचनं श्रुत्वा तोण्डमानं नृपात्मजम् ।
समाहूयाऽह वचनं सन्धिकारो जनार्दनः ॥१२०॥
'किं ते मनोगतं राजन् ! इत्युक्तो वाक्यमब्रवीत् ।
तोण्डमान उवाच ।
'त्वमेव गतिरस्माकं त्वय्येव रमते मनः ॥१२१॥
तच्छ्रुत्वा तं समाहूय श्यालकं वाक्यमब्रवीत् ।
श्रीभगवान् उवाच ।
भगिनी तव कल्याणी सन्धिं श्यालक वाञ्छति ॥१२२॥
हृद्गतं तव यद् ब्रूहि सत्यं तत् पृथिवीपते ।
वासुदेववचः श्रुत्वा विष्वक्सेनोऽभ्यभाषत ॥१२३॥
राजपुत्र उवाच ।
'शासने तव गोविन्द ! स्थितोऽहं सर्वदा हरे ! ।
यथैवेच्छा तव हरे ! तथैव कुरु केशव !' ॥१२४॥
इति विज्ञापितस्ताभ्यामुभाभ्यां वेङ्कटेश्वरः ।
सन्धिं चकार राजेन्द्र ! श्रीनिवासस्तयोस्तदा ॥१२५॥
तदा राज्यं विभज्याथ हस्त्यश्वरथसंयुतम् ।
धनं कोशं तथा ग्रामान् दुर्गाणि नगराणि च ॥१२६॥
विविच्य सर्वराज्यं च वस्त्रमास्तीर्य देवराट् ।
ययाचे षोडशं भागं राजानं राजनन्दनम् ॥१२७॥
' भवद्भिस्तु रणं कृत्वा वृथा मरणमिच्छतः ।
दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा ॥१२८॥
इत्येवं श्रीनिवासेन पृष्टौ राजनृपात्मजौ ।
ददतुस्तौ महाराज ! ग्रामान् द्वात्रिंशतं हरेः ॥१२९॥
तोण्डमानं प्रतिष्ठाप्य तोण्डराज्ये तदा हरिः ।
विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृपः ॥१३०॥
तद्गृहे भोजनं कृत्वा श्यालकस्य गृहे तथा ।
भुक्त्वा स्वयं भोजयित्वा पद्मावत्यनुगो ययौ ॥१३१॥
अगस्त्यनिलयं राजन् ! श्रीनिवासः सतां गतिः ।
मुमुदे रमया सार्धं भगवान् शुभदर्शनः ॥१३२॥
य इदं पुण्यमाख्यानं शृणुयात् श्रावयेच्च यः ।
श्रीनिवासप्रसादात् स सर्वमङ्गलवान् भवेत् ॥१३३॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये तोण्डमानवसुदानयुद्धसन्धिप्रशंसनं नाम द्वादशोऽध्यायः ।
अथ त्रयोदशोऽध्यायः ।
तोण्डमानकृतदिव्यस्वरूपज्ञापनपूर्वकश्रीनिवासस्तुतिः ।
जनक उवाच ।
ततः किमकरोत् कृष्णः शतानन्द ! नृपश्च वा ।
तन्ममाचक्ष्व योगीन्द्र ! राज्ञस्तच्चरितं महत् ॥१॥
शतानन्द उवाच ।
कदाचिद् वेङ्कटेशस्य दर्शनार्थं नराधिपः ।
एक एवाधिगम्याथ ननाम चरणौ हरेः ॥२॥
तं दृष्ट्वा राजशार्दूलमालिङ्ग्याऽह वचो हरिः ।
श्रीनिवास उवाच ।
किमागमनकार्यं ते तन्ममाचक्ष्व भूपते ! ॥३॥
स देववचनं श्रुत्वा वासुदेवमभाषत ।
राजोवाच ।
'दर्शनात् तव गोविन्द ! नाधिकं वर्तते हरे ! ॥४॥
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ।
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाऽहमिहागतः ॥५॥
स्वामिन् ! अच्युत ! गोविद ! पुराणपुरुषोत्तम ! ।
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ॥६॥
त्वमेव सृष्टिकरणे पालने हरणे हरे ! ।
कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ॥७॥
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ।
जीवकोटिधनं देव ! जठरे परिपूरयन् ॥८॥
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥९॥
त्वन्मुखाद् विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ।
ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ॥१०॥
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ।
अन्तःसृष्टिकरस्त्वं हि बहिःसृष्टिकरो भवान् ॥११॥
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ।
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ॥१२॥
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ।
अप्राकृतशरीराय श्रीनिवासाय ते नमः ॥१३॥
अनन्तमूर्तये नित्यमनन्तशिरसे नमः ।
अनन्तबाहवे श्रीमन् ! अनन्ताय नमो नमः ॥१४॥
सरीसृपगिरीशाय परब्रह्मन् ! नमो नमः ।
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥१५॥
विरराम महाराज ! राजेन्द्रो रणकोविदः ।
स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ॥१६॥
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ।
श्रीनिवास उवाच ।
राजन् ! अलमलं स्तोत्रं कृतं परमपावनम् ॥१७॥
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ।
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥१८॥
आकाशराजो धर्मात्मा प्राप मुक्तिपदं नृप ।
तेन राज्ञा प्रसिद्धोऽहं भूलोके भूमिपालक ! ॥१९॥
कृत्वा विवाहविभवं दृष्ट्वा मामागतं गृहम् ।
सन्तोषमतुलं लेभे राजा परमधार्मिकः ॥२०॥
दैवमेव परं मन्ये मम भाग्यफलोदयम् ।
कृतं कर्म सुखं दुःखमनुभोक्तव्यमञ्जसा ॥२१॥
का गतिः पुरतो राजन् ! विना राज्ञा महात्मना ।
श्रीधरस्य वचः श्रुत्वा तोण्डमानाह माधवम् ॥२२॥
तोण्डमान उवाच ।
'प्रारब्धकर्मणः पुंसः कथं सौख्यं भवेद्धरे ! ।
किमर्थं रोदिषि भृशं हतं बन्धुं स्मरन् हरे ! ॥२३॥
मा शोकं कुरु गोविन्द ! राजानं स्वर्गगं प्रति ।
पश्य मां पुण्डरीकाक्ष ! विष्वक्सेनं च बालकम् ॥२४॥
सान्त्वितस्तेन राज्ञेत्थं श्रीनिवासः सतां गतिः ।
प्राह वाणीं जगन्नाथस्तोण्डमानं प्रजापतिम् ॥२५॥
तोण्डमानं प्रति दिव्यालयकरणाय श्रीनिवासचोदना ।
श्रीनिवास उवाच ।
'कुटुम्बं स्थापितं तेन राज्ञा भ्रात्रा गरीयसा ।
नास्ति मे भवनं तात ! वासार्थं दुहितुस्तव ॥२६॥
वियन्नृपस्य जामाता वर्तते परमन्दिरे ।
एषाऽकीर्तिर्ममानन्तदुःखदा दुःखनाशन ! ॥२७॥
पारतन्त्र्यं महत्कष्टं मनुष्याणां तु का कथा ।
तस्मान्मे भवनं कार्यं त्वया राजकुलोद्भव ! ॥२८॥
त्वां विना राजशार्दूल ! कीर्तिं स्थापयितुं स्थिराम् ।
कः समर्थो धरापृष्ठे नाके नागालयेऽपि वा ॥२९॥
वदत्येवं वासुदेवे 'तथाऽस्त्वि'त्यवदन्नृपः ।
सुमुहूर्ते सुलग्ने च सुनक्षत्रे शुभे तिथौ ॥३०॥
भोगिराजगिरिं राजन् ! आरुरोह खगध्वजः ।
सहितः कमलादेव्या राजयुक्तः स देवराट् ॥३१॥
निवेशं दर्शयामास वराहानुमतेन च ।
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनः ॥३२॥
अत्रैव कार्यं राजेन्द्र ! चैत्यं पूर्वमुखं शुभम् ।
गोपुरद्वयसंयुक्तं प्राकारत्रयमव्ययम् ॥३३॥
सप्तद्वारवरोपेतं देहलीतोरणान्वितम् ।
ध्वजस्तम्भवरोपेतं सर्वलक्षणसंयुतम् ॥३४॥
आस्थानमण्डपं दिव्यमद्भुतं यागमण्डपम् ।
गोशालां धान्यभवनं ततो मालाकरं गृहम् ॥३५॥
वस्त्रगेहं तैलशाला घृतार्थं भवनं पृथक् ।
भक्ष्यशालां विशालां च भूषणानां गृहं तथा ॥३६॥
कर्पूरगन्धमार्जारतैलकस्तूरिकागृहम् ।
कल्पयाऽशु च राजेन्द्र ! गजाश्वभवनं पृथक् ॥३७॥
ताम्रपत्रैः सुसम्बद्धं स्वर्णालङ्कारमण्डितम् ।
श्रीतीर्थमन्नशालाग्रे भूतीर्थं भूमिपालक ! ॥३८॥
त्वया विनिर्मितं पूर्वं तोण्डमान महीपते ! ।
तदद्य कुरु शोभाढ्यं शिलाबन्धनपूर्वकम् ॥३९॥
इत्युक्तो वासुदेवेन राजा वचनमब्रवीत् ।
भगवत्कथिततोण्डमाननृपपूर्वोदन्तः ।
तोण्डमान उवाच ।
'कथं पूर्वं मया कूपः कृतस्ते केन जन्मना ॥४०॥
कोऽहं पूर्वश्च का जातिस्तन्ममाचक्ष्व विस्तरात्' ।
राज्ञेत्युक्तोऽब्रवीद् राजन् ! श्रीनिवासः सतां गतिः ॥४१॥
श्रीनिवास उवाच ।
पुरा वैखानसो नाम ऋषिरत्यन्तशुद्धधीः ।
भाविकृष्णावतारस्य कथां श्रुत्वा पुरातनीम् ॥४२॥
कालानां कर्मणां चैव शरीराणां च न स्थितिः ! ।
जनानामिति निश्चित्य तपस्तप्तुं प्रचक्रमे ॥४३॥
द्राविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते ।
कृष्णरूपं प्रपश्यामि निराहारो जितेन्द्रियः ॥४४॥
तपसा दुष्करेणेति सुदृढं कृतनिश्चयः ।
तपसा तप्यमानस्य तस्य वै भक्तवत्सलः ॥४५॥
प्रादुर्बभूव भगवान् पुरा गोपालवेषभाक् ।
प्रादुर्भूतं हरिं दृष्ट्वा तुष्टाव स मुनिस्तदा ॥४६॥
श्रीवैखानस उवाच ।
पूजां करोमि पुरुषोत्तम ! पुण्यमूर्ते ! गोपाल ! देव ! करुणाकर ! देवदेव ! ।
इत्थं समीरित उवाच मुनीश्वरं तं तस्योचितं वचनमेष महानुभावः ॥४७॥
श्रीकृष्ण उवाच ।
'त्वया ध्येयः श्रीनिवासो नाहं ध्येयो मुनीश्वर ! ।
गच्छ शेषगिरिं तत्र वल्मीके वर्तते शुभा ॥४८॥
प्रतिमा श्रीनिवासस्य तत्पूजां कुरु सन्ततम् ।
सङ्गमिष्यति ते मार्गे शूद्रः श्रीरङ्गदासकः ॥४९॥
पूजकस्य भवेच्छूद्रः सेवकस्ते महामुने ! ।
एवमुक्तोऽथ हरिणा सम्प्राप्तो वेङ्कटाचलम् ॥५०॥
सङ्गमस्तु बभूवास्य मुनेः शूद्रेण वर्त्मनि ।
ततस्तु तेन सहितो गत्वा श्रीवेङ्कटाचलम् ॥५१॥
वल्मीकस्थं हरिं दृष्टा पूजयामास वै मुनिः ।
पुष्पाण्याहारयामास रङ्गदासो महायशाः ॥५२॥
अकस्माद् दैवयोगेन गन्धर्वः कुण्डलाह्वयः ।
स्नानार्थमगमच्छीघ्रं स्वाभिः स्त्रीभिर्जलाशयम् ॥५३॥
वसन्ते विजने तत्र स्वामिपुष्करिणीजले ।
जलक्रीडापरास्तत्र दृष्ट्वा ता रङ्गदासकः ॥५४॥
मुदोद्रिक्तमना भूत्वा रेतोऽत्याक्षीद् धरातले ।
पुनः स्नात्वा शुचिर्भूत्वा पश्चात्तापेन निन्दितः ॥५५॥
बद्धं मालाकुलं सर्वं परित्यज्य पुनस्तदा ।
पुनराहृत्य पुष्पाणि शीघ्रमादाय पादजः ॥५६॥
देवागारं समासाद्य स्थितवानग्रतो हरेः ।
रङ्गदासं मुनिर्दृष्ट्वाऽगर्हयद् रजसा मुहुः ॥५७॥
पूजाकालो ह्यतिक्रान्तश्चक्रपाणेर्महात्मनः ।
किमर्थं कृतवान् बाल ! विलम्बं शूद्रनन्दन ! ॥५८॥
निन्दित्वा मुनिशार्दूले शूद्रं पूजाविलोपिनम् ।
तूष्णीं स्थिते तु विप्रेन्द्रे स्थिते तूष्णीं च पादजे ॥५९॥
शङ्खचक्रधरः शूद्रमुवाच परया गिरा ।
श्रीनिवास उवाच ।
मा भैषीः पुत्र ! भद्रं ते रङ्गदास ! महामते ! ॥६०॥
मायया मे हितं विश्वं ससुरासुरमानुषम् ।
तत्रापि तव बुद्धिस्तु पश्चात्तापेन योजिता ॥६१॥
तस्मात् त्वमशुभः शूद्र ! सन्त्यजाऽतः कलेवरम् ।
स्वामिपुष्करिणीतीरे सर्वपापनिवारणे ॥६२॥
मरणात् पुण्यदेशेऽस्मिन् शुद्धो जन्मान्तरे पुनः ।
सुधर्मतनयो भूत्वा तोण्डदेशाधिपो भव ॥६३॥
'तोण्डमानिति विख्यातो लोके कीर्तिं गमिष्यसि ।
शतस्त्रीवल्लभो भूत्वा मम भक्तश्च केवलम् ॥६४॥
ततस्त्वं सार्वभौमः सन् राज्यभोगमुपैष्यसि ।
कन्यादानप्रसङ्गश्च भविष्यति न संशयः ॥६५॥
तस्माद् देहं त्यजात्रैव निराहारोऽतिनिर्मलः ।
सुधर्मराजतनयो राजाऽऽकाशानुजो भव' ॥६६॥
इत्युक्तो वासुदेवेन तनुं तत्रैव सोऽत्यजत् ।
स त्वमद्याकाशराजानुजोऽभूर्धार्मिको नृपः ॥६७॥
तदा त्वया कृतस्त्वेषः कूप आरामकारणात् ।
इति ते कथितं पूर्वजन्मकर्मसमुद्भवम् ॥६८॥
तोण्डमान्नृपप्रार्थनया भगवत्कृतनवीनमन्दिरप्रवेशः॥
गोविन्दवचनं श्रुत्वा तोण्डमान् राजसत्तमः ।
कूपं संशोधयामास स्वकृतं पूर्वजन्मनि ॥६९॥
विमानं कारयामास रत्नचित्रं महोन्नतम् ।
चतुर्मूर्तिवरोपेतं वैनतेयविभूषितम् ॥७०॥
कलशेन समोपेतं सौवर्णेनाद्भुतेन वै ।
आगतानां जनानां च समारोहावरोहयोः ॥७१॥
मार्गं योजनविस्तीर्णं ससोपानं चकार ह ।
मध्येमध्ये मण्डपानि प्रपाकूपांश्चकार च ॥७२॥
श्रीनिवासं समागम्य तोण्डमानब्रवीत् ततः ।
राजोवाच
त्वया नियमितं देव ! सर्वं सम्पूर्णतां गतम् ॥७३॥
आगच्छाद्य जगन्नाथ ! चैत्यं तव जनार्दन !' ।
इति राजवचः श्रुत्वा भगवानाह भूपतिम् ॥७४॥
अवश्यमनुगच्छामि तव भक्त्या प्रतोषितः ।
इत्युक्ता प्रस्थितं देवं देवैश्चेन्द्रपुरोगमैः ॥७५॥
वैखानसऋषिश्रेष्ठैर्ब्राह्मणैर्ब्रह्मवित्तमैः ।
ऋक्सामगायकैश्चैव मन्त्रैश्च विधिपूर्वकम् ॥७६॥
वादित्रैर्वाद्यमानैश्च घोषयद्भिर्दिशो दश ।
देवब्रह्मपुरोगैश्च स्तुवद्भिः स्तुतिभिर्हरिम् ॥७७॥
प्रवेशयामास वरं सुमन्दिरं श्रीश्रीनिवासं पुरुषं पुराणम् ।
पद्मावतीं चापि मुदा महीपतिः समस्तलोकैर्मुनिभिर्महोत्सवैः ॥७८॥
पुष्पाण्यवर्षंश्च सुरासुराद्याः सयक्षगन्धर्वनरोरगाश्च ।
देवस्य मूर्ध्न्याशु विमानवर्ये तं पूजयन्तस्त्वृषयश्च हर्षात् ॥७९॥
तत आनन्दनिलये तोण्डमान्नृपनिर्मिते ।
विमानाग्र्ये श्रीनिवासो रराज भगवान् हरिः ॥८०॥
आनन्दजनकत्वात् तमानन्दनिलयं विदुः ।
वरपद्मासने सुस्थां विधाय कमलालयाम् ॥८१॥
पद्मावतीं विशालाक्षीं भगवानात्मवक्षसि ।
अरिशङ्खविहीनोऽसौ कटिन्यस्तकरोत्तमः ॥८२॥
दर्शयन् पाणिनैकेन दक्षिणेन वृषाकपिः ।
पदपद्मं सुराराध्यं गतिश्च परमां नृणाम् ॥८३॥
कटिन्यस्तकरेणापि निजपादाब्जगामिनाम् ।
नृणां भवपयोराशिं कटिदध्नं प्रदर्शयन् ॥८४॥
विराजते वेङ्कटेशः सम्प्रत्यपि रमापतिः ।
इति ते कथित राजन् ! माहात्म्यं वेङ्कटेशितुः ।
पवित्रं परमं पुण्यं मङ्गलानां च मङ्गलम् ॥८५॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीभगवत्कृततोण्डमान्नपतिनिर्मितनवीनमन्दिरप्रवेशादिवर्णनं नाम त्रयोदशोऽध्यायः ।
अथ चतुर्दशोऽध्यायः ।
ब्रह्मकारितदीपारोपण-भगवदुत्सवप्रशंसा ।
शतानन्द उवाच ।
सर्वाभ्युदयकामोऽथ भूतानां हितकाम्यया ।
तदा वै भगवान् ब्रह्मा दीपद्वयमकल्पयत् ॥१॥
प्रार्थयामास गोविन्दं वरमेकमनामयम् ।
यावत् कलियुगं तिष्ठेत् तावद् दीपोऽभिवर्धताम्' ॥२॥
'यदा विमानपतनं यदा दीपविनाशनम् ।
तदाऽवतारः सम्पूर्ण इति मे निश्चितोऽवधिः' ॥३॥
इति तस्मै वरं दत्त्वा ब्रह्माणमवदद्धरिः ।
श्रीनिवास उवाच ।
श्रूयतां वचनं तात ! भुजमुद्धृत्य चोच्यते ॥४॥
उत्सवं कुरु मे पुण्यं ब्रह्मन् ! लोकपितामह ! ।
ध्वजारोहणमारभ्य रथान्तं च सवाहनम् ॥५॥
नैवेद्यं बहुचित्रं च ब्राह्मणैर्वेदपारगैः ।
कर्तव्यं मम कल्याणं त्रिकाले भयभक्तितः ॥६॥
तदेतद्वचनं श्रुत्वा पितुः स च पितामहः ।
तोण्डमानं समाहूय वचनं व्याहरत् तदा ॥७॥
वाहनानि विचित्राणि कुरु शीघ्रं रमापतेः ।
रथो दारुमयस्तात ! बहुचित्रविचित्रितः ॥८॥
अतन्द्रेण महीपाल ! कर्तव्यो विश्वकर्मणा ।
छत्राणि चामरे पुण्ये व्यजनं राजसत्तम !' ॥९॥
इत्युक्त्वा विश्वकर्माणमाहूय नृपतेर्वशम् ।
विधाता विदधे सोऽपि यथा राजानुशासनम् ॥१०॥
वाहनानि रथच्छत्रचामरव्यजनानि च ।
कृतवान् क्षणमात्रेण प्रीतये मधुघातिनः ॥११॥
महोत्सवार्थं वेङ्कटाद्रिं प्रति नानादेशीयनृपागमनम् ।
उवाच वचनं देवो राजानं सपितामहम् ॥१२॥
सर्वदेशजनाकीर्णमुत्सवं चोत्तमं विदुः ।
आनयस्व नृपान् सर्वान् नानादेशगता'निति ॥१३॥
शासितो वासुदेवेन भृत्यान् सम्प्रेषयन्नृपः ।
अङ्गवङ्गकलिङ्गाद्याः पौगण्डाः काशिकास्ततः ॥१४॥
काम्भोजाः केरलद्वीपा विराटकुरुजाङ्गलाः ।
बर्बराः पाण्ड्यदेशीयाश्चैद्या मात्स्याः ससैन्धवाः ॥१५॥
आगतास्ते महीपालाः सकुटुम्बाः सवाहनाः ।
केचिद् यानगताः केचित् गजस्थाः केचिदश्वगाः ॥१६॥
केचिच्च शिबिकारूढाः केचित्पद्भ्यां समाययुः ।
छत्रैः सचामरैर्दिव्यैर्मयूरशुकपिच्छकैः ॥१७॥
आराधनं प्रकुर्वाणा विप्राणां चैव भोजनैः ।
ब्रह्मक्षत्रियविट्छूद्रा ये चान्ये नवजातिजाः ॥१८॥
चण्डालयवनांस्त्यक्त्वा सर्व एव समागताः ।
समागमे मार्गमध्ये सङ्कीर्णजनमण्डले ॥१९॥
अश्नन्तः केचिदायान्ति केचिदन्नविवर्जिताः ।
केचित् क्षीरप्रपानाश्च केचिद्धारणपारणैः ॥२०॥
सर्वेऽभवन् हरेर्भक्ताः श्रीनिवासस्य भूमिप ! ।
धनानि वस्त्राणि च भूषणानि कायान्त्सजीवानि सुखानि सर्वे ॥२१॥
श्रीवेङ्कटेशस्य पदार्पितानि चक्रुर्जना भागवता: कलौ युगे ।
तत्राऽहूय मुनीन् सर्वान् महीपालान् यथाक्रमम् ॥२२॥
कन्यामासं गते भानौ द्वितीयायां जगत्पतेः ।
ध्वजारोहणमाधाय साङ्कुरार्पणमेव च ॥२३॥
वैखानसमुनिश्रेष्ठैः पूजा मन्त्रैः प्रकल्पिता ।
नरयानं रत्नमयं निधाय पुरतो हरेः ॥२४॥
वासुदेवं बभाषेऽथ ब्रह्मा लोकपितामह : ।
नरयानं समारुह्य कुरु चैत्यप्रदक्षिणम् ॥२५॥
एवमुक्तः प्रत्युवाच श्रीनिवासः पितामहम् ।
भगवदाज्ञया ब्रह्मकृतभगवन्मूर्तिचतुष्टयनिर्माणप्रकारः ।
श्रीनिवास उवाच ।
'भोः पुत्र बालभावोऽसि शासितो वेदनिर्णयः ॥२६॥
स चाद्य विस्मृतस्तात ! परीक्षा दीयतां मम' ।
स तद्वचनमाकर्ण्य किञ्चिच्चिन्तासमाकुलः ॥२७॥
परीक्षां च ददौ विष्णोर्वेदानां वेदवित्तमः ।
स्खालित्यमभवत् किञ्चित् परीक्षायां विधेस्तदा ॥२८॥
ततोऽवबोधितः सम्यग् वेधाः वेदानुशासनम् ।
निर्ममे क्षणमात्रेण श्रीनिवासात्मिकाः शुभाः ॥२९॥
मूर्तीश्चतस्रो मन्त्रैस्तु चतुर्वेदसमुद्भवैः ।
पृथङ्नामानि तासां वै चकार स महामतिः ॥३०॥
उत्सवः श्रीनिवासाख्या त्वाद्याऽन्या चोग्रनामिका ।
सर्वाधिकसमाख्याऽन्या लेखकाख्या तदाऽपरा ॥३१॥
मूलमूर्तिरभूत् तासां मूर्तीनां चतुरात्मनाम् ।
स्वयं श्रीवेङ्कटाधीशः सर्वात्मा जगदीश्वरः ॥३२॥
देवानां कल्पयामास तत्तन्मूर्त्यभिमानिनाम् ।
असङ्कीर्णानि कार्याणि तानि तानि विधिस्ततः ॥३३॥
पञ्चानामपि देवानां तत्तन्मूर्त्यभिमानिनाम् ।
चतुर्मुखेषु चतुरो मनस्येकं विधिस्तदा ॥३४॥
अनुदध्यौ तदा तेन सर्वकर्ममहोत्सवे ।
उत्सवे श्रीनिवासस्य यात्राकर्मणि दीक्षितः ॥३५॥
तेन निर्वर्तयामास यात्राकर्मोत्सवं विधिः ।
नैवेद्यं बहुधा चित्रं चक्रे ब्रह्मोत्सवे शुभे ॥३६॥
गुडौदनं तिलान्नं च परमान्नं पयःशृतम् ।
मुद्गान्नं माषकान्नं च दध्योदनमतः परम् ॥३७॥
षड्विधान्नं च सापूपं सपायससुशर्करम् ।
गुडापूपांस्तिलापूपान् माषापूपान् मनोहरान् ॥३८॥
मोदकांश्च शतच्छिद्रप्रमुखान कारयन् विधिः ।
ब्रह्मकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम् ॥३९॥
अर्पयामास देवाय श्रीनिवासाय विष्णवे ।
उत्सवं श्रीनिवासस्य विधिर्यात्रां महोत्सवे ॥४०॥
कारयामास वै वेधा ध्वजारोहणपूर्वकम् ।
सायङ्काले च पूर्वेद्युर्ध्वजारोहणवासरात् ॥४१॥
अनन्तगरुडाद्याश्च ब्रह्माद्याश्च तथाऽमराः ।
सर्वे चान्ये महर्ष्याद्या विष्वक्सेनपुरःसराः ॥४२॥
वल्मीकादिभवां मृत्स्ना पवित्रां नगराद् बहिः ।
खानितां विधिवन्मन्त्रैर्हस्तिमस्तकरोपिताम् ॥४३॥
सर्वमङ्गलवाद्यैश्च सहसर्वपरिच्छदैः ।
ससम्भ्रमं समानीय प्रादक्षिण्येन वीथिषु ॥४४॥
अङ्कुरार्पणमातेनुः सहर्षपुलकाङ्कुराः ।
ततोऽपरेद्युरुषसि ध्वजारोहमहोत्सवम् ॥४५॥
आरभ्यावभृथान्तं च पुष्पयागान्तमेव च ।
उत्सवं श्रीनिवासस्य चकार विधिवद् विधिः ॥४६॥
तस्मिन् महोत्सवे विष्णोर्ध्वजारोहणवासरे ।
प्रथमे प्रथमं यानं मनुष्यान्दोलिकाऽभवत् ॥४७॥
द्वितीयं च तथा रात्रावभवच्छेषवाहनम् ।
शेषे शयनशीलस्य शेषाचलनिवासिनः ॥४८॥
सदा शेषप्रियस्यास्य श्रीनिवासस्य शार्ङ्गिणः ।
द्वितीयदिवसे चाद्यं भूयोऽभूच्छेषवाहनम् ॥४९॥
द्वितीयं च तथा रात्रावभवद्धंसवाहनम् ।
तृतीयदिवसे चाद्यमभवत् सिंहवाहनम् ॥५०॥
द्वितीयं च तथा यानं रात्रौ मौक्तिकमण्डपम् ।
चतुर्थदिवसे यानमादिमं कल्पभूरुहः ॥५१॥
द्वितीयमभवद् रात्रौ सर्वभूपालवाहनम् ।
पञ्चमे दिवसे चाद्यं यानमान्दोलिकाऽभवत् ॥५२॥
हरेरमृतसन्दायिमोहिनीवेषधारिणः ।
द्वितीयं रजनौ यानं वेदवेद्यस्य वै हरेः ॥५३॥
बभूव च स्वयं साक्षाच्छन्दोमूर्तिः खगेश्वरः ।
आद्यं यानं षष्ठदिने हनूमानभवद्धरेः ॥५४॥
द्वितीयं मङ्गलगिरिः सायं यानमभूद्धरेः ।
महिषीसंयुतस्यास्य वसन्तोत्सवरागिणः ॥५५॥
तृतीयं रजनौ यानमासीदैरावतो गजः ।
सप्तमेऽभूद् दिने यानमाद्यं भास्करमण्डलम् ॥५६॥
द्वितीयं मङ्गलगिरिः सायमासीद् रमापतेः ।
रमणीयतमोद्यानविहारोत्सवरागिणः ॥५७॥
कुसुमापचयव्यग्रमहिषीजनशालिनः ।
तृतीयं रजनौ यानमभवच्चन्द्रमण्डलम् ॥५८॥
अष्टमे दिवसे चाद्यमभवद् वाहनं हरेः ।
नानाविधैरलङ्कारैर्मण्डितः सुमहान् रथः ॥५९॥
द्वितीयं रजनौ यानमभूदुच्चैःश्रवा हयः ।
नवमे दिवसे चाद्यं यानमान्दोलिकाऽभवत् ॥६०॥
द्वितीयं मङ्गलगिरिर्यानमासीद् रमापतेः ।
हारिद्रैः पिङ्गलैश्चूर्णैरभिषिक्तस्य मङ्गलैः ॥६१॥
समुद्युक्तस्यावभृथस्नानमाङ्गलिकोत्सवे ।
स इत्थं मङ्गलैश्चूर्णैर्हारिद्रैरभिषेचितः ॥६२॥
सुन्दरं मङ्गलगिरिं समारुह्य सतां गतिः ।
चैत्यं प्रदक्षिणीकृत्य सह सर्वैर्महाजनैः ॥६३॥
जपद्भिर्वैदिकान् मन्त्रान् सहितश्च द्विजोत्तमैः ।
चकारावभृथस्नानं भगवानादिपूरुषः ॥६४॥
स्वामिपुष्करिणीतीर्थे सर्वलोकैकपावने ।
अवतारदिने तस्मिन् नक्षत्रे श्रवणे प्रगे ॥६५॥
तृतीयं मङ्गलगिरिर्यानं रात्रावभूत् ततः ।
ध्वजावरोहणाभिख्य उत्सवोऽभूत् तदा हरेः ॥६६॥
ततोऽपरेद्युरभवत् पुष्पयागमहोत्सवः ।
देशान्तरादागतानां सपर्याऽसीत् ततो नृणाम् ॥६७॥
देवा जग्मुः स्वकं धाम राजानो राजसत्तम ! ।
जग्मुः स्वनगरं दिव्यं दृष्ट्वा देवमहोत्सवम् ॥६८॥
ब्रह्मा जगाम स्वं लोकं नत्वा वेङ्कटवल्लभम् ।
समाप्य चोत्सवं सर्वं स राजा तोण्डमान् नृपः ॥६९॥
वासुदेवं नमस्कृत्य चाऽज्ञामादाय मौलिना ।
स्वपुरं प्राप्य धर्मात्मा कृत्वाऽर्चां वेङ्कटेशितुः ॥७०॥
संस्थाप्य पूजयामास स्वपुरे निजमन्दिरे ।
राज्यं चकार धर्मात्मा सत्येन पृथिवीपतिः ॥७१॥
गोब्राह्मणहितार्थाय चातिथीनां हिताय च ।
सद्धर्मनिरतः शान्तो जितमन्युर्जितेन्द्रियः ॥७२॥
नित्यमाराधयन् कृष्णं बिलमार्गेण चागतः ।
इत्थं कुर्वति राजेन्द्र ! राजराजकुलोद्भवे ॥७३॥
गङ्गास्नानगन्तृकूर्माख्यद्विजवृत्तान्तः ।
कार्तिके मासि सम्प्राप्ते दैवयोगेन भूपते ! ।
समाययौ द्विजश्रेष्ठः कूर्मो वासिष्ठगोत्रजः ॥७४॥
पितुरस्थि समागृह्य गङ्गास्नानसमुत्सुकः ।
अकस्माद्राजनगरं विप्रक्षत्रियसङ्कुलम् ॥७५॥
समन्ततः समाकर्ण्य तोण्डमान्कीर्तिसम्भ्रमम् ।
राघवाख्यसुतेनैव महालक्ष्म्याख्यभार्यया ॥७६॥
पुराद् बहिर्विनिक्षिप्य भार्यां पुत्रं च स द्विजः ।
समासदद् राजगृहं राजदर्शनलालसः ॥७७॥
सिंहासनगतः कान्तं विद्वन्मण्डलमण्डितम् ।
तमाशीभिर्विशेषेण संस्तुत्य पृथिवीपतिम् ॥७८॥
राजानमब्रवीद् विप्रः कूर्मो वेदान्तपारगः ।
कूर्म उवाच ।
'श्रुता बहुमुखात्कीर्तिस्तव भूप ! विशां पते ! ॥७९॥
तच्छ्रुत्वाऽद्य समीपं ते सम्प्राप्तोऽहं नृपोत्तम !' ।
इति विप्रवचः श्रुत्वा पूजयामास स द्विजम् ॥८०॥
तोण्डमान् उवाच ।
'किमागमनकार्यं ते तन्ममाचक्ष्व भो द्विज !' ।
इत्थमुक्तोऽब्रवीद् राजन् ! कूर्मो वेदविदां वरः ॥८१॥
कूर्म उवाच ।
'मत्पिता प्रेततां प्राप्तः कालेन पृथिवीपते ! ।
तस्यास्थिनिचयं नीत्वा गङ्गामज्जनहेतवे ॥८२॥
काशीं गच्छामि राजेन्द्र ! मनसा कृतनिश्चयः ।
दैवाच्च गर्भिणी जाता मम भार्या पतिव्रता ॥८३॥
पञ्चवर्षश्च मे पुत्रो न शक्तो गन्तुमात्मना ।
तस्मात् त्वया महाराज ! रक्षणीयौ च तावुभौ ॥८४॥
अशक्तोऽहं तया गन्तुं गर्भिण्या तु द्विजप्रिय ! ।
स्त्रीणां पत्युर्गृहे वासो नियतश्चोदितोऽन्यथा ॥८५॥
पित्रोः समीपे वासस्तु तदभावे स्वसुर्गृहे ।
अथवा मातुलगृहे त्वथवा राजमन्दिरे ॥८६॥
षडेते पितरः स्त्रीणां इति जानामि तत्स्थितिम् ।
तस्मात् त्वं रक्ष राजेन्द्र ! सुतं भार्यां च गर्भिणीम् ॥८७॥
इत्येवमुक्तो विप्रेण कूर्मसञ्ज्ञेन तोण्डमान् ।
बाढ'मित्युक्तवान् राजन् ! तस्य दत्त्वा धनं बहु ॥८८॥
तत्र संस्थाप्य तौ विप्रो बाष्पसन्दिग्धलोचनः ।
अब्रवीत् ससुतां पत्नीं बाष्पपर्याकुलेक्षणाम् ॥८९॥
'गच्छाम्यहं वरारोहे ! गङ्गां भागीरथीं प्रिये ! ।
मा रोदीस्त्वं वरारोहे ! पश्य पुत्रं भयाकुलम् ॥९०॥
इत्येवमुक्ता सा विप्रपत्नी भर्तारमब्रवीत् ।
निजनाथस्य वदनं पश्यन्ती दुःखभागिनी ॥९१॥
'शीघ्रमागच्छ भोः स्वामिन् ! कृत्वा गङ्गावगाहनम् ।
पुत्रोऽपि ते महाप्राज्ञस्त्वामेवमनुमन्यते ' ॥९२॥
इत्थं वदन्तीं स्वां भार्यां पश्यन्नालिङ्ग्य चात्मजम् ।
जगाम विप्रो राजेन्द्र ! पश्यन् वै पृष्ठतः पुनः ॥९३॥
सा जगाम गृहं राज्ञः पश्यन्ती पतिमात्मनः ।
परिमृज्याक्षिजं तोयं सान्त्वयित्वा सुतं तथा ॥९४॥
राजपत्नीं समासाद्य पुत्रेण सहसा स्थिता ।
गते विप्रे स राजर्षिस्तस्य भार्यां च सुन्दरीम् ॥९५॥
दृष्ट्वा चिन्ताकुलो भूत्वा मनसीत्थमचिन्तयत् ।
त्रिविधाः पुरुषाः प्रोक्ता धियस्तेषां पृथग्विधाः ॥९६॥
तस्मान्मयाऽतियत्नेन स्थापनीया द्विजप्रिया' ।
इति सञ्चिन्त्य धर्मात्मा तोण्डमान् राजसत्तमः ॥९७॥
एकान्ते भवनं कृत्वा स्थापयामास तत्र ताम् ।
अन्नं षण्मासपर्याप्तं सकृत्सोपस्करं ददौ ॥९८॥
तण्डुलाद्यैश्च काष्ठान्तैः सर्वोपकरणैः समम् ।
तद्गृहं शृङ्खलैर्बद्ध्वा स राजा तोण्डमान् नृपः ॥९९॥
दूतान् विधाय वै दूरे चार्धक्रोशायते निजे ।
गृह एव क्वचित्कोणे निगूढं तां तदा न्यधात् ॥१००॥
धूर्तानां तु यथा सेयं न गच्छेद् गोचरं दृशाम् ।
ततो राज्ये समासक्तो राजा कार्यवशं गतः ॥१०१॥
राज्यभारेण राजेन्द्र ! व्यस्मरद् ब्राह्मणप्रियाम् ।
द्विवत्सरान्ते विप्रेन्द्रः कृत्वा गङ्गावगाहनम् ॥१०२॥
गयां गत्वा गयाश्राद्धं कृत्वा निजपितुस्तथा ।
गङ्गाया विवधं चोढ्वा स्कन्धदेशे द्विजोत्तमः ॥१०३॥
तोण्डमानपुरं प्राप्य प्रविवेश नृपालयम् ।
राजानमब्रवीद् राजन् ! आशीभिरभिनन्द्य च ॥१०४॥
दीर्घायुर्भव राजेन्द्र ! पुत्रवान् ज्ञानवान् भव ।
त्वत्प्रसादेन राजेन्द्र ! कृतं गङ्गावगाहनम् ॥१०५॥
गङ्गावगाहनं राजन् ! कुरुष्वैतज्जलैः शुभैः ।
एवमुक्तः स राजर्षिर्विस्मृतां ब्राह्मणीं स्मरन् ॥१०६॥
स्तब्धो बभूव चाकस्मात् दण्डाहत इवोरगः ।
पद्मव्यूहे षड्रथिकैर्द्रोणकर्णपुरोगमैः ॥१०७॥
निरुद्धानां सैन्धवेन बालमर्जुननन्दनम् ।
निहतं पश्यतां राजन् ! पाण्डवानां महात्मनाम् ॥१०८॥
वासुदेवमुखाच्छ्रुत्वा चार्जुनस्य मनो यथा ।
रामबाणेन विद्धस्य रावणस्य मनो यथा ॥१०९॥
तथैव तोण्डमानस्य हृदयं पर्यकम्पत ।
धैर्येण मनसः स्वास्थ्यं प्राप्तवान् स प्रजापतिः ॥११०॥
तदाह भारतीं विप्रः किञ्चिद्दुःखसमन्वितः ।
राजानं राजशार्दूलं पप्रच्छ कुशलं तदा ॥१११॥
'भार्या मे गर्भिणी पूर्वं प्रसूता किं सुतं सुताम् ।
न श्रूयते तयोर्वार्ता मम चित्तप्रतोषिणी ॥११२॥
पुत्रो मे निर्गुणो राजन् ! सर्वदा क्रीडने रतः ।
तटाके पुष्करिण्यां वा कूपे वा विपुलाम्भसि ॥११३॥
तस्मान्मे मनसो दुःखं सदा भावि विशां पते ।
भार्या मे राजशार्दूल ! मम दर्शनकारणात् ॥११४॥
न चाऽगता वरारोहा कुतो मे भ्रमते मनः ।
सुतं भार्यां चिन्तयामि दिवा नक्तं च गर्भिणीम् ॥११५॥
तस्य विप्रस्य स श्रुत्वा राजा धैर्येण भारतीम् ।
व्याहरत् तोण्डमानोऽपि यथा धीरो ह्यवर्तत ॥११६॥
तोण्डमान उवाच ।
भो भूसुरकुलोत्पन्न ! मा भैषीः पुत्रकारणात् ।
क्षेमं प्रसूता ते भार्या पुत्र्या पुत्रेण तिष्ठति ॥११७॥
बहवो योषितो विप्र ! मया दृष्टा इतः पुरा ।
न सुतो न च ते भार्या मम दृष्टिपथं गता ॥११८॥
अथ तद्वृत्तमखिलं श्रूयतां भूसुरोत्तम ! ।
पूर्वदेवगुरोर्वारः सम्प्राप्तस्तु गते दिने ॥११९॥
तद्दिने वेङ्कटेशस्य प्रसक्तमभिषेचनम् ।
तद्दर्शनार्थं मे कन्याः सर्वा जग्मुर्महीसुर ! ॥१२०॥
ताभिः समेता ते भार्या पुत्रीपुत्रसमन्विता ।
जगाम वेङ्कटं शैलं देवदर्शनकारणात् ॥१२१॥
अद्य श्वो वा परश्वो वा साऽऽगमिष्यति तेऽन्तिकम् ।
इति तं सान्त्वयित्वा स गूढं पुत्रमभाषत ॥१२२॥
'गच्छाद्य पुत्र भवनं विप्रपत्न्यास्तु शोभनम् ।
अव्यग्रः शृङ्खलां छिन्धि प्रविश्यान्तर्गृहं पुनः ॥१२३॥
तां दृष्ट्वा पुत्रसहितां शीघ्रमानय भूसुरीम् ।
स च गत्वाऽतिवेगेन कृतवान् जनकेरितम् ॥१२४॥
ददर्श तत्रास्थिमात्रं रुदन् गद्गदकण्ठवान् ।
ध्रुवं नो वंशनालं तु छिन्नमूलं भविष्यति' ॥१२५॥
इति सञ्चिन्तयन्नेत्य पितरं वाक्यमब्रवीत् ।
भोस्तात ! राजवंशस्य नाशकालः समागतः ॥१२६॥
यतः सा ब्राह्मणी पूर्णगर्भा सहसुता मृता ।
अस्थिभूता निजे गेहे तदन्नाद्यविचारणात् ॥१२७॥
इत्युक्तो विप्रवर्याय पाकार्थं तण्डुलादिकम् ।
ददौ धैर्येण राजेन्द्र ! स जगाम जलान्तिकम् ॥१२८॥
तस्मिन् गते विप्रमुख्ये राजा शेषाचलं ययौ ।
पुत्रेण सहितो राजा शरणार्थं रमापतेः ॥१२९॥
पादद्वयं प्रपन्नस्तु रुदन्नासीन्महीपतिः ।
रुदन्तश्च नृपं दृष्ट्वा श्रीनिवासस्तदाऽब्रवीत् ॥१३०॥
तोण्डमानप्रार्थनया भगवत्कृतकूर्मद्विजपुत्राद्युज्जीवनक्रमः ।
श्रीभगवानुवाच ।
अकाले च किमर्थं त्वमागतो नृपसत्तम ! ।
राजराज ! किमर्थं त्वं रोदनं कुरुषेऽधुना ॥१३१॥
धीरत्वं च धनुष्मत्त्वं प्रसिद्धं भूतले तव ।
अद्य किं कारणं तात ! रोदने वद तन्मम' ॥१३२॥
इत्युक्तः श्रीनिवासेन नाब्रवीत् स च किञ्चन ।
विदित्वा हृदयं तस्य जगाद वचनं ततः ॥१३३॥
श्रीभगवानुवाच ।
'विदितं हृदयं राजन् ! आतुरस्य तवाधुना ।
त्वया कृतमिदं पापं मयैवाचरितं नृप ! ॥१३४॥
निवर्तस्व च पापात्मन् ! किं करोमि नृपात्मज ! ।
अकार्यं कर्म भूपाल ! त्वया कृतमरिन्दम ॥१३५॥
अहं पापो दुराचारो नित्यदुःखसमन्वितः ।
हाऽकाले कालमेष्यामि क्रूरं वा नरकं नृप ! ॥१३६॥
आदातव्यं हि दौर्भाग्यं स्वभक्तस्य दुरात्मनः ।
दरिद्रत्वं तथा भक्तस्यैवं धर्मविदो विदुः ॥१३७॥
मयि ते भक्तिभावे च लोपो नैव स्वया कृतः ।
किं करोमि क्व गच्छामि क्रूरं पापं त्वया कृतम् ॥१३८॥
तथाऽपि नव सौहार्दात् करिष्ये जीवितान् मृतान् ।
कलौ वेङ्कटनाथेन नृपस्यास्य विमोक्षणम् ॥१३९॥
कृतं महापातकिन इति कीर्तिर्भविष्यति ।
पुत्रं प्रेषय भूपाल ! शापभीरुमरिन्दम ! ॥१४०॥
तेषां मृतानामानेतुं सर्वाण्यस्थीनि सम्प्रति ।
इति श्रीवेङ्कटपतेर्वाक्यं श्रुत्वा स चाऽतुरः ॥१४१॥
प्रेषयामास पुत्रं तान्यस्थीन्यानेतुमात्मनः ।
स जगामातिवेगेन मृतानां भवनं नृप ! ॥१४२॥
बद्ध्वा तदस्थिनिचयं वस्त्रेणाच्छाद्य भूपते ! ।
नरयाने विनिक्षिप्य स्वाच्छाद्य नृपनन्दनः ॥१४३॥
तदा शेषगिरिं प्राप्य पितरं वाक्यमब्रवीत् ।
तदस्थिमण्डलं तात सम्प्राप्तं विद्धि भूपते ! ॥१४४॥
श्रीनिवासाय शान्ताय तदाऽनीतं वदाधुना' ।
स पुत्रवचनं श्रुत्वा श्रीनिवासमभाषत ॥१४५॥
राजोवाच ।
'समानीतः पुत्रकेण मृतास्थिनिचयो हरे ! ।
यथा ते जीवितं कृष्ण ! प्राप्नुवन्ति तथा कुरु' ॥१४६॥
एवमुक्तः श्रीनिवासस्तदस्थिनिचयं नृप ! ।
कराभ्यां प्रतिगृह्याथ स्वोत्तरीये बबन्ध ह ॥१४७॥
स्वामिपुष्करिणी यत्र तस्य पूर्वदिशि स्थितम् ।
पाण्डुतीर्थं समासाद्य तस्य तीरमुपागतः ॥१४८॥
तत्र किञ्चिद्देवखातमासाद्य मधुसूदनः ।
तोण्डमानं च तत्पुत्रं त्यक्त्वा तीर्थमुपागतः ॥१४९॥
आकण्ठजलमध्ये च निममज्ज जनार्दनः ।
अस्थीनि तत्र निक्षिप्य शिलायां तीर्थसन्निधौ ॥१५०॥
प्रक्षाल्य विष्णुः पस्पर्श स्वाञ्जलिक्षिप्तवारिणा ।
जीवनं सन्निपतितं तदस्थिनिचये तदा ॥१५१॥
इति ते जीविता विष्णोः पाणिस्पर्शप्रभावतः ।
ववृषुः पुष्पवर्षाणि तत्तीर्थे वासवादयः ॥१५२॥
विस्मेरचित्ताः सर्वेऽपि दृष्टतत्तीर्थवैभवाः ।
यदा तीर्थप्रभावेण जीविता मृतकाश्च ते ॥१५३॥
तदा सर्वे सुरा राजन् ! ब्रह्मरुदेन्द्रपूर्वकाः ।
अस्थितीर्थमिति ख्यातं तस्य नाम ददुर्मुदा ॥१५४॥
'येषामत्रास्थि निपतेत् नरके वसतामपि ।
ते सर्वे स्वर्गमृच्छन्तु सद्य' इत्यपि तेऽवदन् ॥१५५॥
उज्जीवयन् सोऽथ मृतां सपुत्रां तां कूर्मभार्यां निजगर्भवासिताम् ।
ददौ नृपायातिविमूढचेतसे दत्त्वाऽथ तं पार्थिवमबभाषे ॥१५६॥
श्रीभगवानुवाच ।
'कृतोपकारस्य कृता ह्युपक्रिया शताधिका ते नृपते ! मयाऽधुना ।
तवाग्रजस्याप्ततया कृता मया ह्युपक्रियेयं धरणीपते ! तव ॥१५७॥
इतः परं मौनमहं प्रपद्ये नात्यन्तमेकान्तिवजनात्परेण ।
केनापि कुर्वे सह वाग्विलासं साक्षात् कलावन्यमुखाद्धि भाषे ॥१५८॥
गच्छ स्वदीयं पुरमद्य राजन् ! तस्मै द्विजायाखिललोकसाक्षिणीम् ।
भार्यां सपुत्रामतिभक्तियुक्तां प्रदाय राज्यं त्वमकण्टकं कुरु' ॥१५९॥
तोण्डमानाज्ञया स्वावासं प्रति सकुटुम्बकूर्मद्विजगमनम् ।
इत्युक्तो वासुदेवेन तत्पत्नीसहितो नृपः ।
गत्वा च नगरं पुत्रसहितः कूर्ममब्रवीत् ॥१६०॥
'भूदेव ! तव भार्येयं सुपुत्री पुत्रसंयुता ।
सम्प्राप्ता दैवयोगेन तां गृहीष्व द्विजोत्तम !' ॥१६१॥
इत्युक्त्वा ससुतां पत्नीं स विप्राय न्यवेदयत् ।
वृत्तान्तमखिलं ज्ञात्वा पत्न्या राजमुखाद् द्विजः ॥१६२॥
राज्ञः समक्ष पप्रच्छ पत्नीं शिशुसुतान्विताम् ।
क्व गताऽसि महाभद्रे ! यथावत् कथ्यतामिति ॥१६३॥
महालक्ष्मीरुवाच ।
'किं वदिष्यामि हे स्वामिन् ! देवमायां दुरत्ययाम् ।
तस्योदरे मया दृष्टो विचित्रो लोकविस्तरः ॥१६४॥
लोकालोकौ मया दृष्टौ दृष्टा ब्रह्ममुखाः सुराः ।
सात्त्विका राजसाश्चैव तमःप्रकृतयस्तथा ' ॥१६५॥
राघव उवाच ।
ताताद्भुतं मया दृष्टं त्रिणेत्राणां गणस्तथा ॥१६६॥
शिशुरुवाच ।
सागराः सप्त मे तात ! दृष्टिमार्गमुपागताः ।
गुहागिर्यटवीवृक्षा देवदानवराक्षसाः ॥१६७॥
इत्युक्तो लज्जितोऽवादीत् पत्नीसुतशिशून् द्विजः ।
धिङ्मे जन्म तपो घोरं धिग्वेदाध्ययनं तथा ॥१६८॥
नारायणस्याखिललोकधाम्नां निवासभूतस्य चराचराणाम् ।
दृष्टं भवद्भिर्जठरे विचित्रं भूगोलमुख्याखिललोकजालम् ॥१६९॥
त्रिणेत्रमुख्यैः सह चीर्णपूर्णपुण्यैरपीदं मनुजैर्न लभ्यम् ।
इत्येवं संस्तुवन् स्वीयान् पत्नीसुतशिशून् द्विजः ॥१७०॥
राजानं चापि संस्तुत्य देशं गन्तुं प्रचक्रमे ।
राजोवाच ।
'अहो भाग्यमहो भाग्यं त्वत्पनीसुतयोः शिशोः ॥१७१॥
यद् दृष्टं श्रीनिवासस्य जठरे सर्वमद्भुतम् ।
इत्युक्तो नृपवर्येण सहभार्यः सुतान्वितः ॥१७२॥
जगाम विप्रमुख्योऽसौ रङ्गक्षेत्रं स्वकाश्रमम् ।
श्रीनिवासप्रसादेन तोण्डमान्भक्तिसम्भ्रमात् ॥१७३॥
स विप्रः सहितः पुत्रभार्याभ्यां भवनं ययौ ।
विसृज्य विप्रं भूपालः सकुटुम्बं सपुत्रकम् ॥१७४॥
दध्यौ चित्रं हरेः कर्म निग्रहं तस्य चात्मनि ।
व्यचिन्तयद् वेङ्कटनाथवैभवं तीर्थानुभावं द्विजदेवभक्तः ॥१७५॥
करोमि किं वेङ्कटनाथतुष्टये दास्यामि किं तस्य हरेः प्रपत्तये ।
आङ्गिरसोक्त्या श्रीनिवासाय तुलमीमर्पयन्तं तोण्डमानं प्रति भगवदुक्तिः ।
इति चिन्तापरो भूत्वा विप्रान् वेदविदोऽब्रवीत् ॥१७६॥
तोण्डमान उवाच ।
'भूदेव ! देवतुष्ट्यर्थे क उपायो ह्यनामयः ।
कथं तुष्यति गोविन्दो वद मे गुरुसत्तम !' ॥१७७॥
राज्ञस्तु वचनं श्रुत्वा नृपमाङ्गिरसो गुरुः ।
अब्रवीच्छ्रीनिवासस्य निग्रहाद् भीतमातुरम् ॥१७८॥
गुरुरुवाच ।
तदनुग्रहसिद्ध्यर्थं तत्पूजां कुरु भो नृप ! ।
सहस्रनामभिर्दिव्यैः सहस्रतुलसीदलैः ॥१७९॥
तत्प्रीतिहेतुस्तुलसी तस्मात् त्वं पूजयाच्युतम् ।
तेनापरोक्षमायाति तव वेङ्कटवल्लभः' ॥१८०॥
ततस्तद्वचनं श्रुत्वा तच्चकार तथा नृपः ।
तुलसीदलसाहस्रं स्वर्णरत्नविनिर्मितम् ॥१८१॥
वेङ्कटेशात्मकैर्नामसहस्रैस्तत्पदेऽर्पयन् ।
क्रमेण मासत्रितयं पूजा तस्य चकार सः ॥१८२॥
एवं पूजां कृतवति भूपाले भूरिविक्रमे ।
त्यक्तवान् न च वैमुख्यं नारायणगिरीश्वरः ॥१८३॥
तदा स राजा दुःखेन सर्वज्ञं वाक्यमब्रवीत् ।
तोण्डमान उवाच ।
भक्तानामपराधान् न गणयन्त गुणाधिकाः ॥१८४॥
क्षमस्व मम दौरात्म्यं भक्तस्य पुरुषोत्तम ! ।
वरदाने वासुदेव ! भवान् श्रेष्ठतमो मतः ॥१८५॥
दयां कुरु दयासिन्धो ! भक्तोपरि भयापह' ।
इत्युक्तस्तोण्डमानेन भगवान् वेङ्कटेश्वरः ॥१८६॥
तदाऽह भारतीं राजन्नाकाशपथमाश्रितः ।
भक्ताश्च बहवः सन्ति नास्ति तत्सदृशो भुवि ॥१८७॥
कर्म कृत्वा सुघोरं तु ब्रह्मस्त्रीपुत्रघातुकम् ।
प्रपित्ससि कथं पारं दुःखाद् राजकुमारक ! ॥१८८॥
तवाग्रजोपकारेण जीवितं तु मया कृतम् ।
एवमाकाशगां वाणीं श्रुतवान् राजसत्तमः ॥१८९॥
तदाऽऽह देवदेवेशं राजा मोहवशं गतः ।
कृतोपकाराः पुरुषा न वदन्ति कृतं हरे ! ॥१९०॥
को वदेद्धि कृतां सेवां मूढोऽपि गुणवर्जितः ।
मां विना न हि ते भक्तस्त्रिषु लोकेषु विद्यते ॥१९१॥
को वा पुराणपुरुष ! त्वय्येकान्तरतः सदा ।
भक्तानामग्रणीश्चाहं दयालूनां त्वमग्रणीः ॥१९२॥
एवं गर्वोक्तिमाकर्ण्य तूष्णीमासीद् रमापतिः ।
ततो भूयोऽतिभक्त्याऽयं पूजयामास माधवम् ॥१९३॥
सौवर्णरत्नखचततुलसीकुसुमव्रजैः ।
कुर्वग्रामस्थभीमाख्यकुलालोदन्तः ।
ततः कदाचिदद्राक्षीत् तोण्डमान् नृपसत्तमः ॥१९४॥
सौवर्णरत्नखचिततुलसीकुपुमोपरि ।
संस्थितां मृण्मयीं श्यामां तुलसीकुसुमावलिम् ॥१९५॥
तत कदाचिन्नृपतिर्निरस्तां च सुदूरतः ।
सौवर्णरत्नखचिततुलसीकुसुमावलिम् ॥१९६॥
ददर्श मृण्मयीं चैव सुलग्नां हरिपादयोः ।
श्यामां सुरुचिरामार्द्रां तुलसीकुसुमावलिम् ॥१९७॥
दृष्ट्वैव श्रीपतेः स्वस्मिन् निग्रहं चिन्तयन्नृपः ।
मुक्तकण्ठं रुदन्नूचे तोण्डमान् भृशदुःखितः ॥१९८॥
भगवन् ! क्रूरपापं मामनाथं किमुपेक्षसे ।
केन भक्ताग्रगण्येन स्वीकरोषि समर्पितम् ॥१९९॥
मृण्मयीमेव सम्प्रीत्या तुलसीकुसुमावलिम् ।
इत्येवमुक्तो भगवान् तोण्डमानेन वै हरिः ॥२००॥
राजानं रमणीयाङ्गं प्रत्यभाषत भूपते ! ।
तोण्डमानं प्रति भगवज्ज्ञापितभीमाख्यकुलालोदन्तः ।
श्रीभगवानुवाच ।
'भक्ताश्च बहवः सन्ति त्रिगुणास्त्रिविधात्मकाः ॥२०१॥
तेषां मध्ये दरिद्रोऽस्ति कुलालो भीमनामकः ।
अत्रैवोत्तरदिग्भागे राजन् ! योजनदूरतः ॥२०२॥
स कुलालोऽतिभक्त्यैव भित्तिकाबिलमध्यतः ।
दारुभूतं च मां शूद्रः प्रत्यहं पूजयत्यसौ ॥२०३॥
स्वस्थः शान्तः स्वकृत्यं च प्रसमाप्य हरिप्रियः ।
स्नात्वा विधिवदात्मज्ञो मृण्मयैस्तुलसीसुमैः ॥२०४॥
तद्भक्त्या परितुष्टेन तदङ्गीक्रियते मया ।
तत्र गत्वा प्रतिदिनं तं दृष्ट्वा तत्प्रियां तथा ॥२०५॥
राजन् ! बहुविधाः सन्ति मद्भक्ताश्च विरागिणः ।
यदुक्तं तु त्वया पूर्वमेकोऽहं भक्तिमानिति ॥२०६॥
तद्वचस्त्वदहङ्कारमहोच्छ्रायविजृम्भितम् ' ।
तदुक्तमाकर्ण्य विनम्रमस्तकः सन्त्यज्य चैत्यं तदनु प्रजापतिः ॥२०७॥
पद्भ्यां जगामोज्झितराजगौरवस्तदास्य मार्गं प्रणमन् मुहुर्मुहुः ।
भीमाख्यकुलालनगरं प्रति तोण्डमानगमनम् ।
तं चक्रवर्तिनं दृष्ट्वा पद्भ्यां धावन्तमातुरम् ॥२०८॥
पृच्छन्तं तस्य भवनं परितो घटकारिणः ।
प्राहुस्तं भगवद्भक्तं कुलालं मार्गवर्तिनः ॥२०९॥
वसत्यत्रैव राजन् ! स कुलालो भीमनामकः ।
भक्तिर्यस्य हरौ कृष्णसेवां नित्यं करोति यः ॥२१०॥
एवमुक्तः स लोकैश्च पथिकैः पृथिवीपतिः ।
जगाम तस्य भवनं तोण्डमान् राजसत्तमः ॥२११॥
तद्गृहाद्बहिरास्थाय स्तुतवांस्तद्गृहं नृपः ।
द्वारतोरणमासाद्य पपात गतविभ्रमः ॥२१२॥
ततः कुलालो भ्रमितो जनैर्विज्ञापितस्ततः ।
ददर्श राजशार्दूल पतितं प्राङ्गणे तदा ॥२१३॥
किमिदं भोः ! महत्कष्टं राजाऽसौ पतितः कुतः ।
ममापराधो नास्त्यत्र तथाऽपि यमदण्डने ॥२१४॥
शक्तोऽसौ राजशार्दूल: सज्जोऽहं तस्य कर्मणि ।
नैवेद्यार्थं हरेस्तस्य घटानां शतकं मम ॥२१५॥
कथितं तेन भूपेन तदद्य प्रददामि तान् ।
एवं शूद्रे चोक्तवति राजा सञ्ज्ञामुपेयिवान् ॥२१६॥
कोऽसौ भीमो हरेर्भक्तः कुलालः कृष्णतोषणः ।
तत्पादयुगलं वन्दे सततं साधुसम्मतम् ' ॥२१७॥
एवं वदति राजर्षौ भगवान् भक्तवत्सलः ।
आविर्बभूव पुरतः कुलालस्य महात्मनः ॥२१८॥
आविर्भूतं हरिं दृष्ट्वा कुलालो भक्तिसंयुतः ।
तुष्टाव हर्षपुष्टाङ्ग: श्रीनिवासं निरामयम् ॥२१९॥
स्वपुरस्तात्प्रादुर्भूतं भगवन्तं प्रति कुलालस्तुतिः ।
त्वद्धाम वैकुण्ठपुरं महात्मन् ! त्वद्वल्लभा सागरनन्दिनी च ।
त्वन्नाभिजातो हि पितामहोऽपि किं त्वां स्मरामीश ! कुलालजन्मा ॥२२०॥
स्वत्पादसम्भवा देवी साक्षाद् भागीरथी शुभा ।
तव पुत्रीं वदति तां चतुर्वेदमयो विधिः ॥२२१॥
तवासनं सदा देवा वदन्ति फणिनं विभो ! ।
सहस्रवदनं शेषं सुपर्णं वाहनं विदुः ॥२२२॥
नक्षत्रमाला तव दन्तपङ्क्तिर्विद्युत्प्रकाशस्तव देहकान्तिः ।
महीधरा मेरुहिमाद्रिमुख्याः त्वदस्थिभूताः पुरुषोत्तमाद्य ॥२२३॥
तवाक्षिणी भानुविधू च विष्णो ! विराट्पदं त्वां शरणं प्रपद्ये ।
एवं स्तुवति शूद्रे तं प्रसन्ना कमलालया ॥२२४॥
जगद्धात्री जगादैवं पुरुषं परमेश्वरम् ।
'क्वायं कुलाल: पुरुषोत्तमास्य कथं बभूव त्वयि भक्तिरीदृक् ॥२२५॥
का जातिरस्य क्व च सद्गुणास्ते किमद्भुतं भोः करुणाम्बुराशे ! ।
इत्युक्तस्तु जगद्धात्र्या गरुडं प्रत्यभाषत ॥२२६॥
भगवानुवाच ।
तमानयातिवेगेन मत्समीपं कुलालजम् ।
इत्युक्तो गरुडो वेगादानिनाय च शूद्रजम् ॥२२७॥
'इत एहीति सम्भाष्य समीपं परमात्मनः ।
स नत्वा शिरसा देवं प्रत्यभाषत माधवम् ॥२२८॥
कुलाल उवाच ।
किमर्थमागमो देव ! गृहं मे शूद्रजन्मनः ।
न चाहं विदुरो देवो न चाहं शबरी प्रभो ! ॥२२९॥
न चाहं गजराजेन्द्रो न चोद्धवबिभीषणौ ।
किं देयमस्ति मद्गेहे त्वदर्थं पुरुषोत्तम' ॥२३०॥
वदत्येवं कुलाले तु तस्य पत्नी तमालिनी ।
प्रासादयच्च गोविन्दं द्रौपदीव जनार्दनम् ॥२३१॥
तमालिन्युवाच ।
'अनाथनाथ गोविन्द ! बुद्धिस्त्वय्येव वर्तते ।
न जाने मन्त्रमार्गं तु न जाने कर्मनिर्णयम् ॥२३२॥
अशौचकुलजातानां कुतो वेदः कुतस्तपः ।
भक्त्या मे परितुष्टः सन् मद्भर्तुश्च विशेषतः ॥२३३॥
मया पाचितमन्नं च यावनालकुलोद्भवम् ।
यथेष्टं भुङ्क्ष्व मद्दत्तं सहामोदरसादरम् ' ॥२३४॥
भगवत्कृतभीमाख्यभक्तोपचाराभ्युपगमः ।
इत्थमुक्तो जगद्योनिस्तया भक्त्या तमालया ॥२३५॥
कमलामुखमालोक्य जहास जगदीश्वरः ।
सुप्रसन्नोऽथ भगवान् तामुवाच तमालिनीम् ॥२३६॥
'अवश्यमन्नं भोज्यं ते भक्त्या दत्तं तमालिनि !' ।
इत्येवमुक्त्वा भगवान् भक्तवात्सल्यवारिधिः ॥२३७॥
रमासमेतो रमणीयविग्रहः कुलालवर्येण कुलालजायया ।
अभुङ्क्त दत्तं च तदन्नमुत्तमं भुक्त्वा तयोश्च प्रददौ पदं स्वकम् ॥२३८॥
तत्कौतुकमालोक्य ब्रह्मेशानपुरोगमाः ।
तुष्टुवुर्हृष्टमनसः स्रष्टारं सर्वदेहिनाम् ॥२३९॥
देवदुन्दुभयो नेदुः खात्पेतुः पुष्पवृष्टयः ।
एतस्मिन्नेव समये विमानं प्राप्तमुत्तमम् ॥२४०॥
विमानं प्राप्तमालोक्य श्रीनिवासः सतां गतिः ।
स्वकिरीटं ददौ तस्य शङ्खचक्रे च कौस्तुभम् ॥२४१॥
पीताम्बरमलङ्कारं कुलालस्य महात्मनः ॥२४२॥
भगवदनुग्रहेण कुलालदम्पत्योः सारूप्यप्रप्तिः ।
रमाया भूषणं तावत् तमालायाश्च सन्ददौ ।
दिव्यं विमानमारूढौ विष्णुना दत्तवैभवौ ॥२४३॥
कुलालदम्पती भक्तौ पश्यतस्तस्य भूपतेः ।
जग्मतुर्विष्णुभवनं सायुज्यपदवीं गतौ ॥२४४॥
कुलालपदवीं दृष्ट्वा तोण्डमान् नृपसत्तमः ।
व्रीडितः पुण्डरीकाक्षं श्रीनिवासमभाषत ॥२४५॥
तोण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः ।
'मद्राष्ट्रगतशूद्रस्य सर्वदा पापकारिणः ।
सद्गतिस्तु त्वया दत्ता का गतिर्मम बान्धव !' ॥२४६॥
श्रीनिवास उवाच ।
एतद्देहं परित्यज्य चान्यं देहमुपाश्रय ।
तत्राराध्य हृषीकेशं गच्छ सारूप्यमुत्तमम् ॥२४७॥
शतानन्द उवाच ।
इत्युक्तो नृपतिः सद्यः स्नात्वा स्वामिसरोजले ।
कलेवरं परित्यज्य पुनर्देहान्तरं गतः ॥२४८॥
तत्राऽराध्य हृषीकेशं श्रीनिवासं निरामयम् ।
सारूप्यं गतवान् राजा स्वामिना पूर्वकल्पितम् ॥२४९॥
एवं हरिस्तत्र चरित्रमद्भुतं कुर्वन् जगन्मातृसमन्वितो गिरौ ।
आस्ते जगत्यां च सुरौघपूजितो ददद्यथेष्टं च मनोरथान् सताम् ॥२५०॥
इत्येवं कथितं राजन् ! माहात्म्यं वेङ्कटेशितुः ।
यः शृणोतीदमाख्यानं मनोरथफलप्रदम् ।
इह लोके सुखं भुक्त्वा सोऽथ याति हरेः पदम् ॥२५१॥
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये कुलालप्रशंसनं नाम चतुर्दशोऽध्यायः ।
श्रीवेङ्कटेशचरणारविन्दार्पणमस्तु ।