Monday, 21 December 2020

प्रज्ञाविवर्धनस्तोत्रम्

 

प्रज्ञाविवर्धनस्तोत्रम्

श्रीगुरुभ्यो नमः । हरिः ॐ ॥
स्कन्द उवाच ।
योगीश्‍वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।
स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥१॥
गाङ्गेयस्ताम्रचूडश्‍च ब्रह्मचारी शिखिध्वजः ।
तारकारिरुमापुत्रः क्रौञ्चारिश्‍च षडाननः ॥२॥
शब्दब्रह्मसमुद्रश्‍च सिद्धः सारस्वतो गुहः ।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥३॥
शरजन्मा गणाधीशपूर्वजो मुक्‍तिमार्गकृत् ।
सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः ॥४॥
अष्‍टाविंशतिनामानि मदीयानीति यः पठेत् ।
प्रत्यूषं श्रद्धया युक्‍तो मूको वाचस्पतिर्भवेत् ॥५॥
महामन्त्रमयानीति मम नामानुकीर्तनम् ।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥
इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं कार्तिकेयस्तोत्रं सम्पूर्णम् ।

No comments:

Post a Comment