॥ श्रीसङ्कटनाशनं गणपतिस्तोत्रम् ॥
श्रीगुरुभ्यो नमः । हरिः ॐ ॥ नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपति द्वादशं तु गजाननम् ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धीः करेत् प्रभुः ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥ जपन् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥ इति श्रीनारदपुराणे सङ्कटनाशनं गणपतिस्तोत्रं सम्पूर्णम् ।
No comments:
Post a Comment