Monday, 14 December 2020

सर्वमङ्‌‍गलाष्‍टकम् ।

सर्वमङ्‌‍गलाष्‍टकम्

लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्‍चन्द्रविभूषणः सुरगुरुः शेषश्‍च शय्यासनः । ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्याद्‌धरिर्मङ्‌गलम् ॥१॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्‍वरौ । नासत्यौ निर्ऋतिर्मरुद्‌गणयुताः पर्जन्यमित्रादयः सस्‍त्रीकाः सुरपुङ्‌गवाः प्रतिदिनं कुर्वन्तु नो मङ्‌गलम् ॥२॥
विश्‍वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्‍तिर्वसिष्‍ठोऽङ्‌‌ग‌िराः । माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विष्णुपदाब्जभक्‍तिनिरताः कुर्वन्तु नो मङ्‌गलम् ॥३॥
मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः । इक्ष्वाकुश्‍च बिभीषणश्‍च भरतश्‍चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु नो मङ्‌गलम् ॥४॥
श्रीमेरुर्हिमवाँश्‍च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्‍च विन्ध्यनिषधौ सिंहस्तथा रैवतः । सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूधराः प्रतिदिनं कुर्वन्तु नो मङ्‌गलम् ॥५॥
गङ्‌‌गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती । कावेरीकपिलाप्रयागविनतानेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्‌‌कजभवाः कुर्वन्तु नो मङ्‌गलम् ॥६॥
वेदाश्‍चोपनिषद्‌गणाश्‍च विविधाः साङ्‌गाः पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्काः स्मृतीनां गणाः । काव्यालङ्‌कृतिनीतिनाटकगणाः शब्दाश्‍च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः कुर्वन्तु नो मङ्‌गलम् ॥७॥
आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्‍च तिथयस्तद्‌देवतास्तद्‌गणाः । मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वे स्थावरजङ्‌गमाः प्रतिदिनं कुर्वन्तु नो मङ्‌गलम् ॥८॥
इत्येतद् वरमङ‌्गलाष्‍टकमिदं श्रीराजराजेश्‍वरै- राख्यातं जगतामभीष्‍टफलदं सर्वाशुभध्वंसनम् । माङ्‌गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः ॥ ९॥ इति श्रीराजराजेश्‍वरविरचितं सर्वमङ्‌गलाष्‍टकं सम्पूर्णम् ।

No comments:

Post a Comment