Tuesday, 15 December 2020

सुन्दरकाण्डनिर्णयः

सुन्दरकाण्डनिर्णयः

रामाय शाश्‍वतसुविस्तृतषड्‍गुणाय सर्वेश्‍वराय बलवीर्यमहार्णवाय । नत्वा लिलङ्‍घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥१॥ चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्‍टः । वृक्षाश्‍च पर्वतगताः पवनेन पूर्वं क्षिप्‍तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥२॥ श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्‍तोऽर्णवे स मरुतोर्वरितात्मपक्षः । हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्‍भिद्य वारिधिमवर्धदनेकसानुः ॥३॥ नैवात्र विश्रमणमैच्छदविश्रमोऽसौ निस्सीमपौरुषबलस्य कुतः श्रमोऽस्य । आश्‍लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥४॥ जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यद्त्वमिच्छसि तदित्यमरोदितायाः । आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्माद्-देवाननन्दयदुत स्वृतमेषु रक्षन् ॥५॥ दृष्‍ट्‍वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्‍टुवुरमुं सुमनोऽभिवृष्‍ट्‍या । तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥६॥ लङ्‍कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता । छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥७॥ निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्‍ताम् । लम्बे स लम्बशिखरे निपपात लङ्‍काप्राकाररूपकगिरावथ सञ्‍चुकोच ॥८॥ भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्‍काम् । रुद्‍धोऽनयाऽश्‍वथ विजित्य च तां स्वमुष्‍टिपिष्‍टां तयाऽनुमत एव विवेश लङ्‍काम् ॥९॥ मार्गमाणो बहिश्‍चान्तःसोऽशोकवनिकातले । ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥१०॥ नरलोकविडम्बस्य जानन् रामस्य हृद्‍गतम् । तस्य चेष्‍टानुसारेण कृत्वा चेष्‍टाश्‍च संविदम् ॥ तादृक्चेष्‍टासमेताया अङ्‍गुलीयमदात् ततः ॥११॥ सीताया यानि चैवासन्‍नाकृतेस्तानि सर्वशः । भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च । अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥१२॥ यद्यप्येतन्‍न पश्यन्ति निशाचरगणास्तु ते । द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च ॥१३॥ तेषां विडम्बनायैव दैत्यानां वञ्‍चनाय च । पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥१४॥ कृत्वा कार्यमिदं सर्वं विशङ्‍कः पवनात्मजः । आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥१५॥ अथ वनमखिलं तद् रावणस्यावलुम्प्य क्षितिरुहमिममेकं वर्जयित्वाऽशु वीरः । रजनिचरविनाशं काङ्‍क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह ॥१६॥ अथाशृणोद् दशाननः कपीन्द्रचेष्‍टितं परम् । दिदेश किङ्‍करान् बहून् कपिर्निर्गृह्यतामिति ॥१७॥ समस्तशो विमृत्यवो वराद्धरस्य किङ्‍कराः । समासदन्महाबलं सुरान्तरात्मनोऽङ्‍गजम् ॥१८॥ अशीतिकोटियूथपं पुरःसराष्‍टकायुतम् । अनेकहेतिसङ्‍कुलं कपीन्द्रमावृणोद् बलम् ॥१९॥ समावृतस्तथाऽयुधैः स ताडितश्‍च तैर्भृशम् । चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥२०॥ पुनश्‍च मन्त्रिपुत्रकान् स रावणप्रचोदितान् । ममर्द सप्‍तपर्वतप्रभान् वराभिरक्षितान् ॥२१॥ बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् । निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥२२॥ अनौपमं हरेर्बलं निशम्य राक्षसाधिपः । कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥२३॥ स सर्वलोकसाक्षिणस्सुतं शरैर्ववर्ष ह । शितैर्वरास्‍त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥२४॥ स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् । तृतीय एष चांशको बलस्य हीत्यचिन्तयत् ॥२५॥ निधार्य एव रावणस्स राघवाय नान्यथा । यदीन्द्रजिन्मया हतो न चास्य शक्‍तिरीक्ष्यते ॥२६॥ अतस्तयोः समो मया तृतीय एष हन्यते । विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्‍लुवे ॥२७॥ स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् । अपोथयद् धरातले क्षणेन मारुतीतनुः ॥२८॥ विचूर्णिते धरातले निजे सुते स रावणः । निशम्य शोकतापितस्तदग्रजं समादिशत् ॥२९॥ अथेन्द्रजिन्महाशरैर्वरास्‍त्रसम्प्रयोजितैः । ततक्ष वानरोत्तमं न चाशकद् विचालने ॥३०॥ अथास्‍त्रमुत्तमं विधेर्युयोज सर्वदुःसहम् । स तेन ताडितो हरिर्व्यचिन्तयन् निराकुलः ॥३१॥ मया वरा विलङ्‍घिता ह्यनेकशः स्वयम्भुवः । स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥३२॥ इमे च कुर्युरत्र किं प्रहृष्‍टरक्षसां गणाः । इतीह लक्ष्यमेव मे स रावणश्‍च दृश्यते ॥३३॥ इदं समीक्ष्य बद्धवत्स्थितं कपीन्द्रमाशु ते । बबन्धुरन्यपाशकैर्जगाम चास्‍त्रमस्य तत् ॥३४॥ अथ प्रगृह्य तं कपिं समीपमानयंश्‍च ते । निशाचरेश्‍वरस्य तं स पृष्‍टवांश्‍च रावणः ॥३५॥ कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् । इतीरितः स चावदत् प्रणम्य राममीश्‍वरम् ॥३६॥ अवैहि दूतमागतं दुरन्तविक्रमस्य माम् । रघूत्तमस्य मारुतिं कुलक्षये तवेश्‍वरम् ॥३७॥ न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा । सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥३८॥ न रामबाणधारणे क्षमाः सुरेश्‍वरा अपि । विरिञ्‍चिशर्वपूर्वकाः किमु त्वमल्पसारकः ॥३९॥ प्रकोपितस्य तस्य कः पुरःस्थितौ क्षमो भवेत् । सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥४०॥ इतीरिते वधोद्यतं न्यवारयद् विभीषणः । स पुच्छदाहकर्मणि न्ययोजयन्‍निशाचरान् ॥४१॥ अथास्य वस्‍त्रसञ्‍चयैः पिधाय पुच्छमग्‍नये । ददुर्ददाह नास्य तन्मरुत्सखा हुताशनः ॥४२॥ ममर्ष सर्वचेष्‍टितं स रक्षसां निरामयः । बलोद्धतश्‍च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥४३॥ ददाह चाखिलां पुरीं स्वपुच्छगेन वह्‍निना । कृतिस्तु विश्‍वकर्मणोऽप्यदह्यतास्य तेजसा ॥४४॥ सुवर्णरत्‍नकारितां स राक्षसोत्तमैः सह । प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज च ॥४५॥ स रावणं सपुत्रकं तृणोपमं विधाय च । तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद् ययौ ॥४६॥ विलङ्‍घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः । प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥४७॥ रामं सुरेश्‍वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः । चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्‍गकैः प्रणतिमस्य चकार भक्‍त्या ॥४८॥ रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्‍तिभरितस्य विलक्ष्य किञ्‍चित् । स्वात्मप्रधानमधिकं पवनात्मजस्य कुर्वन्समाश्‍लिषदमुं परमाभितुष्‍टः ॥४९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते हनुमत्प्रतियानं नाम सप्‍तमोऽध्यायः ॥

No comments:

Post a Comment